| YouTube Channel

जठरः (jaTharaH)

 
Apte Hindi
Hindi
जठरः
पुं*
- -
पेट
Wordnet
Sanskrit
Synonyms:
जठरः, जठरम्, पक्वाशयः, कोष्ठः, अन्नाशयः, आमाशयः
noun
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
"अधिकेन सुरसभोजनेन जठरः पीडितः भवति।"
Synonyms:
उदरम्, पिचिण्डः, कुक्षी, जठरः, तुन्दम्
noun
नाभिस्तनयोर्मध्यभागः।
"त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।"
Synonyms:
जठरः
noun
एका जातिः
"जठरः मध्यदेशस्य आग्नेयदिशि निवसति"
Synonyms:
जठरः
noun
एकः पर्वतः
"जठरस्य उल्लेखः भागवतपुराणे वर्तते"
Synonyms:
जठरः
noun
एकः पुरुषः
"जठरस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
जठरः, पुं
क्ली,
(जायते गर्भो मलं वा अस्मिन्निति ।जन + “जनेररष्ठ ।” उणां ३८ इतिअरः ठश्चान्तादेशः ।) उदरम् इति मेदिनी
(यथा, हितोपदेशे ४४ ।“पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।स्वामिनं सर्व्वभावेन परलोकममायया
”देशविशेषे, पुं तु कूर्म्मविभागे आग्नेय्यां दिशिवर्त्तते यथा, बृहत्संहितायाम् १४ ।“आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः
”तथाच महाभारते ४२ ।“अत ऊर्द्ध्वं जनपदान् निबोध गदतो मम ।”इत्युपक्रम्य, --“जठराः कुकुराश्चैव सदशार्णाश्च भारत !
”इत्युक्तवान्
पर्व्वतविशेषः यथा, भागवते १६ २७ ।“जठरदेवकूटौ मेरुं पूर्व्वेणाष्टादशयोजनसहस्र-मुदगायतौ द्बिसहस्रपृथुतुङ्गौ भवतः
”उदररोगविशेषः ।“राजी जन्म बलीनाशो जठरे जठरेषु तु ।”इति निदानस्थाने द्बादशेऽध्याये वाभटेनोक्तम् ।एतत्सम्प्राप्तिर्यथा, सुश्रुते निदानस्थाने७ अध्याये ।“कोष्ठादुपस्नेहवदन्नसारोनिःसृत्य दुष्टोऽनिलवेगनुन्नः ।त्वचः समुन्नम्य शनैः समन्ता-द्बिवर्द्धमानो जठरं करोति
”)