| YouTube Channel

जङ्घाशूलं (jaGghAzUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
जङ्घाशूलं,
क्ली,
(जङ्घायाः शूलं रोगविशेषः ।)जङ्घावेदना तस्यौषधं यथा, --“हरीतकी शृङ्गवेरं देवदारु चन्दनम् ।क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम्
जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत्
”इति गारुडे १८७ अध्यायः