जगन्नाथ (jagannAtha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishApte Hindi
Hindiजगन्नाथः
जगत्-नाथः -
विश्व का स्वामी
Shabdartha Kaustubha
Kannadaजगन्नाथ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಮಾತ್ಮ /ಪರಬ್ರಹ್ಮ
व्युत्पत्तिः - > जगतां नाथः
जगन्नाथ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಶಿವ /ಪರಮೇಶ್ವರ
जगन्नाथ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಸಗಂಗಾಧರವನ್ನು ರಚಿಸಿದ ಜಗನ್ನಾಥ ಪಂಡಿತ
प्रयोगाः - > "जगन्नाथस्यायं सुरधुनि समुद्धारसमयः"
उल्लेखाः - > गङ्गाल०
जगन्नाथ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಗನ್ನಾಥ ಕ್ಷೇತ್ರ
Aufrecht Catalogus Catalogorum
Englishजगन्नाथ a Naiyāyika, younger brother of Gokulanātha,
maternal uncle of Vaṃśadhara (Nyāyatattvaparīkṣā).
L. 1877.
जगन्नाथ
Ṛgvedavarṇakramalakṣaṇa. NP. V, 42. SB. 298.
Ṛgvedasarvānukramaṇikāvivaraṇa.
Dīkṣāpaddhati. Ben. 15.
जगन्नाथ wrote, in 1730, for Jayasiṃha, king of Jaya-
pura:
Rekhāgaṇitakṣetravyavahāra.
Siddhāntasārakaustubha. Cambr. 74. Ben. 30.
(Samrāṭsiddhānta).
जगन्नाथ son of Pītāmbara, a Maithila Brahman, grand-
son of Rāmabhadra, wrote by order of Phatesāh:
Atandracandrika nāṭaka.
Abhyankara Grammar
Englishजगन्नाथ (1) the well-known poet and scholar of Vyakarana and Alam kara who wrote many excellent poetical works. He lived in the sixteenth century. He was a pupil of कृष्णशेष and he severely criticised the views of Appaya Diksita and Bhattoji Diksita. He wrote a sort of refutation of Bhattoji's commen- tary Praudha-Manorama on the Siddhānta Kaumudi, which he named प्रौढमनेारमाखण्डन but which is popularly termed मनोरमाकुचमर्दन. His famous work is the Rasaganga- dhara on Alankrasastra
(2) writer of a commentary on the Rk-Pratisakhya by name Varna- kramalaksana
(3) writer of Sara- pradipika, a commentary on the Sarasvata Vyakarana.
Sanskrit Tibetan
Tibetangro ba'i mgon
जगन्नाथ
gro ba'i mgon
जगन्नाथ
gro ba'i mgon po
जगन्नाथ
gro ba'i 'gron po
१) जगन्नाथ २) जनसार्थ
अभिधानचिन्तामणिः
Sanskritविष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।
विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-
र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥
गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥
दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥
मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।
पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।
सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥
यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
विष्णु (पुं), जिष्णु (पुं), जनार्दन (पुं), हरिकेश (पुं), हृषीकेश (पुं), अच्युत (पुं), केशव (पुं), दाशार्ह (पुं), पुरुषोत्तम (पुं), अब्धिशयन (पुं), उपेन्द्र (पुं), अज (पुं), इन्द्रानुज (पुं), विष्वक्सेन (पुं), नरायण (पुं), जलशय (पुं), नारायण (पुं), श्रीपति (पुं), दैत्यारि (पुं), पुराणपुरुष (पुं), यज्ञपुरुष (पुं), तार्क्ष्यध्वज (पुं), अधोक्षज (पुं), गोविन्द (पुं), षड्बिन्दु (पुं), मुकुन्द (पुं), कृष्ण (पुं), वैकुण्ठ (पुं), पद्मेशय (पुं), पद्मनाभ (पुं), वृषाकपि (पुं), माधव (पुं), वासुदेव (पुं), विश्वम्भर (पुं), श्रीधर (पुं), विश्वरूप (पुं), दामोदर (पुं), शौरि (पुं), सनातन (पुं), विधु (पुं), पीताम्बर (पुं), मार्ज (पुं), जिन (पुं), कुमोदक (पुं), त्रिविक्रम (पुं), जह्नु (पुं), चतुर्भुज (पुं), पुनर्वसु (पुं), शतावर्त (पुं), गदाग्रज (पुं), स्वभू (पुं), मुञ्जकेशिन् (पुं), वनमालिन् (पुं), पुण्डरीकाक्ष (पुं), बभ्रु (पुं), शशबिन्दु (पुं), पृश्निशृङ्ग (पुं), धरणीधर (पुं), पाण्डवायन (पुं), सुवर्णबिन्दु (पुं), श्रीवत्स (पुं), देवकीसूनु (पुं), गोपेन्द्र (पुं), विष्टरश्रवस् (पुं), सोमसिन्धु (पुं), जगन्नाथ (पुं), गोवर्धनधर (पुं), यदुनाथ (पुं), गदाभृत् (पुं), शार्ङ्गभृत् (पुं), चक्रभृत् (पुं), श्रीवत्सभृत् (पुं), शङ्खभृत् (पुं)
अभिधानरत्नमाला
Sanskritविष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004
Mahabharata
EnglishJagannātha^1 = Brahmán: VII, 2062
XII, 9176
XIII, 7635 (Pitāmahaḥ).
Jagannātha^2 = Kṛshṇa (Vishṇu): XII, 13133, 13309, 13436 (read ºnāthāt with B.)
XIII, 6947.
Jagannātha^3 = Śiva: VII, 9509
XII, 10435 (1000 names^1).
शब्दकल्पद्रुमः
Sanskritजगन्नाथः, (जगतां नाथ ईश्वरः ।) विष्णुः ।इति हेमचन्द्रः ॥
(यथा, देवीभागवते । १ । ४ । ३६ ।“देवदेव ! जगन्नाथ ! भूतभव्यभवत्प्रभो ! ।तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्द्दन ! ॥
”)पुरुषोत्तमक्षेत्रम् । यथा, मुनय ऊचुः ।“पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम् ।यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥
दर्शनान्मुक्तिदः साक्षात् सर्व्वतीर्थफलप्रदः ।तन्नो विस्तरतो ब्रूहि तत् क्षेत्रं केन निर्म्मितम् ॥
ज्योतिःप्रकाशो भगवान् साक्षान्नारायणः प्रभुः ।कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥
जैमिनिरुवाच ।एतत् क्षेत्रवरञ्चास्य वपुर्भूतं महात्मनः ।स्वयं वपुष्मान् यत्रास्ते स्वनाम्नाख्यापितं हि तत् ॥
यथा चानुदिनं देवाः सिद्ध्वाः ब्रह्मर्षयस्तथा ।समर्च्चितुमिहायान्ति देवेशं न तथान्यतः ॥
अहो ! तत् परमं क्षेत्रं विस्तृतं दशयोजनैः ।तीर्थराजस्य सलिलादुत्थितं बालुकाचितम् ॥
नीलाचलेन महता मध्यस्थेन विराजितम् ।एकं स्तनमिवावन्याः सुदूरात् परिभावितम् ॥
”ब्रह्माणं प्रति विष्णुवाक्यम् ।“सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ।स प्रदेशः पृथिव्यां हि सर्व्वतीर्थफलप्रदः ॥
एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः ।पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः ॥
सिन्धुतीरे च यो ब्रह्मन् ! राजते नीलपर्व्वतः ।पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥
सुरासुराणां दुर्ज्ञेयं माययाच्छादितं मम ।सर्व्वसङ्गपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥
सृष्ट्यालयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः ॥
वारुण्यां दिशि यत् कुण्डं रोहिणं नामविश्रुतम् ॥
तत्तीरे निवसन्तो मां पश्यन्तश्चर्म्मचक्षुषा ॥
तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ॥
व्रतेषु तीर्थेषु च यज्ञदानयोःपुण्यं यदुक्तं विमलात्मनां हि ।अहर्निवासाल्लभते च सर्व्वंनिमेषवासात् खलु चाश्वमेधिकम् ॥
जैग्निनिरुवाच ।उदकार्त्तः समागत्य कुतश्चिद्वायसोत्तमः ।कारणोदकसम्पूर्णे तस्मिन् कुण्डे निमज्जितः ॥
विलोक्य माधवं नीलरत्नकान्तिं कृपानिधिम् ।काकदेहं समुत्सृज्य लुठमानं मुहुः क्षितौ ॥
शङ्खचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ॥
”यमं प्रति लक्ष्मीवाक्यम् ।“पञ्चक्रोशमिदं क्षेत्रं समुद्रान्तर्व्व्यवस्थितम् ।त्रिक्रोशं तीर्थराजस्य तटभूमौ सुनिर्म्मलम् ॥
सुवर्णबालुकाकीर्णं नीलपर्व्वतशोभितम् ।योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ॥
संयम्य विषयग्रामं समुद्रतटमास्थितः ।उपासितुं जगन्नाथं चतुःषष्ट्युत्तमः प्रभुः ॥
यमेश्वर इति ख्यातो यमसंयमनाशनः ।यं दृष्ट्वा पूजयित्वा तु कोटिलिङ्गफलं लभेत् ॥
सीमा प्रतीची क्षेत्रस्य शङ्खाकारस्य मूर्द्धनि ।शङ्खाग्रे नीलकण्ठः स्यादेतत् क्रोशं सुदुर्लभम् ॥
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ।शङ्खस्योत्तरभागस्तु समुद्रोदकसंप्लुतः ॥
यत्सम्पर्कात् ससुद्रोऽत्र तीर्थराजत्वमागतः ।यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ॥
तथेदं मरणात् क्षेत्रं सिन्धुस्नानाद्विमुक्तिदम् ।चिच्छेद ब्रह्मणः पूर्व्वं रुद्रः क्रोधात्तु पञ्चमम् ॥
तच्छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिबभ्रमे ।तत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ॥
कपालमोचनं तीर्थं द्वितीयावर्त्तसंस्थितम् ।तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ॥
तृतीयावर्त्तसीमायां शक्तिं मे विमलाह्वयाम् ।जानीहि धर्म्मराज ! त्वं भुक्तिमुक्तिफलप्रदाम् ॥
नाभिदेशे स्थितं ह्येतत् त्रयं कुण्डं वटो विभुः ।कपालमोचनं यावदर्द्धाशनी प्रतिष्ठिता ॥
मध्यं शङ्खस्य जानीयात् सुगुप्तं चक्रपाणिना ।तां दृष्ट्वा प्रणमेद्यस्तु भोगान् सोऽश्नातिशाश्व-तान् ॥
सिन्धुराजस्य सलिलात् यावन्मूलं वटस्य वै ।कीटपक्षिमनुष्याणां मरणान्मुक्तिदो मतः ॥
अन्तर्व्वेदी त्वियं पुण्या वाञ्छ्यते त्रिदशैरपि ।अत्र स्थितान् हि पश्यन्ति सर्व्वांश्चक्राब्जधारिणः ॥
कामाख्या क्षेत्रपालश्च विमला चान्तरा स्थिता ।साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिं हो दक्षिणे विभोः ॥
अन्तर्व्वेद्या रक्षणार्थं शक्तयोऽष्ठौ प्रकल्पिताः ।उग्रेण तपसा पूर्व्वमहं सर्व्वेण भाविता ॥
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ।सर्व्वसौन्दर्य्यवसतिर्वपुषो मे विनिर्गता ॥
तदा दृष्टा मया भद्रे ! वचनं मे प्रियं कुरु ।अन्तर्व्वेदीं रक्ष मम परितस्त्वं स्वमूर्त्तिभिः ॥
सात्र तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ।मङ्गला वठमूले तु पश्चिमे विमला तथा ।शङ्खस्य पूर्व्वभागे तु संस्थिता सर्व्वमङ्गला ॥
अर्द्धाशनी तथा लम्बा कुवेरदिशि संस्थिता ।कालरात्रिर्दक्षिणस्यां पूर्व्वस्यान्तु मरीचिका ॥
कालरात्र्यास्तथा पश्चात् चण्डरूपा व्यवस्थिता ।रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः ।आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ॥
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ।मार्कण्डेयं तथेशानं विश्वेशं नीलकण्ठकम् ॥
वटमूले वटेशञ्च लिङ्गान्यष्टौ महेशितुः ।यानि दृष्ट्वा तथा स्मृत्वा पूजयित्वा विमुच्यते ॥
”तत्र जगन्नाथस्याविर्भावकारणम् ।जैमिनिरुवाच ।“इन्द्रद्युम्नस्य नृपतेः क्षेत्रे श्रीपुरुषोत्तमे ।जगदीशप्रसादाय पितामहनिदेशतः ॥
एकोनं क्रमशः संस्थामवाप पृथिवीपतेः ॥
सहस्रं हयमेधस्य यथावद्विधिचोदितम् ।सूत्या सप्तदिनात् पूर्व्वं या रात्रिरभवद्द्बिजाः ! ॥
तस्यास्तुरीयप्रहरे ध्यायतो विष्णुमव्ययम् ।ध्याने तस्मिन् ददर्शासौ महाभाग्यवशान्नृपः ॥
प्रत्यक्षमिव स श्वेतद्वीपं स्फाटिकनिर्म्मितम् ।तन्मध्ये ददृशे देवं शङ्खचक्रगदाधरम् ॥
नीलजीमूतसङ्काशं वनमालाविभूषितम् ।दक्षपार्श्वे स्थितं तस्य अनन्तं धरणीधरम् ॥
हललाङ्गलशङ्खाब्जस्फुरद्बाहुचतुष्टयम् ।दक्षपार्श्वे स्थितां विष्णोर्लक्ष्मीं तां शुभलक्षणाम् ॥
वराभयाब्जहस्तां वै कुङ्कुमाभां सुलोचनाम् ।ददर्श पद्मासनगां लावण्याम्बुधिपुत्त्रिकाम् ॥
पितामहञ्च ददृशे पुरतोऽस्य कृताञ्जलिम् ।वामपार्श्वस्थितं चक्रं सर्व्वज्ञानमयं विभोः ॥
ततः प्रववृते सूत्या नृपतेर्वाजिमेधिका ।शस्तैः स्तोत्रैर्दिव्यदृग्भिर्वर्णक्रमसमुज्ज्वलैः ॥
दक्षिणे तटभूदेशे विश्वेश्वरसमीपतः ।नियुक्ताः सेवका राज्ञा ससम्भ्रममुपस्थिताः ॥
न्यवेदयन्तो नृपतिं कृताञ्जलिपुटा द्विजाः ।देव ! दृष्टो महावृक्षस्तटभूमौ महोदधेः ॥
प्रविष्टाग्रसमुद्रान्तकल्लोलप्लवमूलकः ।माञ्जिष्ठवर्णः सर्व्वत्र शङ्खचक्राङ्कितः प्लवन् ॥
न दृष्टपूर्व्वो वृक्षोऽयमुद्यत्सूर्य्यनिभांशुना ।नियुक्तानां वचः श्रुत्वा राजा नारदमब्रवीत् ॥
तत् किं निमित्तं यद्दृष्टं तरुश्रेष्ठं वदन्ति ते ।नारदः प्रहसन् वाक्यमुवाच नृपसत्तमम् ॥
उपस्थितन्तु ते भाग्यं स्वप्ने यद्दृष्टवान् पुरा ।श्वेतद्वीपे विश्वमूर्त्तिर्दृष्टो यो विष्णुरव्ययः ॥
तदङ्गस्खलितं लोम तरुत्वमुपपद्यते ।तद्भाम्यवशगः सर्व्वलोकानां नयनातिथिः ॥
भविष्यति महाराज ! सर्व्वकल्मषनाशनः ।समाप्यावभृथस्नानं तटान्ते सरितां पतेः ॥
उत्सवं सुमहत् कृत्वा कृतकौतुकमङ्गलम् ।महावेद्यां स्थापयात्र यज्ञेशं तरुरूपिणम् ॥
विचार्य्येत्थं मुदा युक्तौ तौ च नारदभूभुजौ ।सुसमृद्धौ ततो यातौ यत्रासौ भगवान् द्रुमः ॥
पुनः पुनः प्रणम्यैनं हर्षाश्रुनयनो नृपः ।द्विजैराहारयामास तरुं कक्कोललोहितम् ॥
स्रग्गन्धालेपनं दिव्यं महावेदीं विनिन्यतुः ।वचसा नारदस्यैनं पूजयामास पार्थिवः ॥
पूजावसाने पप्रच्छ नारदं मुनिसत्तमम् ।कीदृशीं प्रतिमां विष्णोर्घटयिष्यति कः पुनः ॥
विचारयन्तौ तावित्थं यावन्नारदपार्थिवौ ।अशरीरा ततो वाणी शुश्राव चान्तरीक्षतः ॥
अपौरुषेयो भगवान् सद्विचारपथे स्थितः ।सुगुप्तायां महावेद्यां स्वयं सोऽवतरिष्यति ॥
प्रच्छाद्यतां दिनान्येव यावत् पञ्चदशानि वै ।उपस्थितोऽयं यो वृद्धः शस्त्रपाणिस्तु वर्द्धकी ॥
एनमन्तः प्रवेश्यैव द्वारं बध्नन्तु यत्नतः ।बहिर्वाद्यानि कुर्व्वन्तु यावत्तु घटना भवेत् ॥
श्रुतस्तद्वटनाशब्दो वाधिर्य्यान्धत्वदायकः ।नरके वसतिञ्चैव कुर्य्यात् सन्ताननाशनम् ॥
नान्तः प्रवेशनं कुर्य्यान्न पश्येच्च कदाचन ।नियुक्तान्यः प्रपश्येच्चेद्राज्ञो राष्ट्रस्य चैव हि ॥
द्रष्टुश्चापि महाभीतिरन्धता च युगे युगे ।तच्छ्रुत्वा नारदाद्यास्ते यथोक्तं विष्णुना स्वयम् ॥
चिकीर्षन्ति तथा कर्त्तुं तत्रायातस्तु वर्द्धकी ।प्रोवाच नृपतिं सोऽथ स्वप्ने दृष्टास्तु यास्त्वया ॥
ता एवाहं घटिष्यामि दारुणा दिव्यरूपिणा ।इत्युक्त्वान्तर्द्दधे वेद्यां वृद्धवर्द्धकिरूपधृक् ॥
वञ्चनार्थं मनुष्याणां साक्षान्नारायणो विभुः ।ततः स पृथिवीपालस्तथा कृत्वान्तरीक्षगा ॥
यदुवाच गिरां देवी तत्तत् परिचचार च ।निर्व्ववाह स्वयं देवः क्रमात् पञ्चदशे दिने ॥
चतुर्मूर्त्तिः स भगवान् यथा पूर्व्वं मयोदितः ।दिव्यसिंहासनगतो बलभद्रसुदर्शनैः ॥
शङ्खचक्रगदापद्मलसद्वाहुर्जनार्द्दनः ।हलं मूषलचक्राब्जं धारयन् पन्नगाकृतिः ॥
छत्रीकृतफणासप्तमुकुटोज्ज्वलकुण्डलः ।सुभद्रा चारुवदना वराब्जाभयधारिणी ॥
लक्ष्मीः प्रादुर्ब्बभूवेयं सर्व्वचैतन्यरूपिणी ।सुदर्शनन्तु यच्चक्रं सदा विष्णोः करे स्थितम् ॥
शाखाग्रस्तम्भमध्यस्थं तद्रूपन्तु तुरीयकम् ॥
* ॥
निर्वृत्ते भगवद्रूप चतुर्द्धा दिव्यरूपिणी ॥
लोकानामुपकाराय पुनराहान्तरीक्षगा ।पटैराच्छाद्य सुदृढं नृपते ! प्रतिमास्त्विमाः ॥
स्वं स्वं वर्णं प्रापयाशु वर्णकैञ्चित्रकर्म्मणा ।अमूर्द्दारुस्वरूपेण दृष्टाः पापाय हेतवः ॥
गोपनीयाः प्रयत्नेन पट्टनिर्यासवल्कलैः ।शिल्पिभिः कर्म्मकुशलैर्दृढमाच्छादयाग्रतः ॥
वर्षे वर्षे च संस्कार्य्या पूर्व्वसंस्कारमोचनात् ।ऋते वल्कललेपन्तु स तु दिव्यश्चिरन्तनः ॥
प्रमादाद्यदि तं लेपमपनीयेत कश्चन ।दुर्भिक्षं मरकं राज्ये सन्ततिश्चास्य हीयते ॥
नेक्षितव्यास्त्वया राजन् ! कदाचिदपवारणाः ।मनुष्येण च राजेन्द्र ! दृष्टाः स्युर्भयहेतवः ॥
तस्मात् सुचित्रा द्रष्टव्या बहुलेपविलेपिताः ।नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ॥
प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ।उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम् ॥
कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ।पुरा स्थितः पर्व्वतेऽस्मिन् योऽभ्यर्च्चयति माधवम् ॥
नाम्ना विश्वावसुर्नाम शवरो वैष्णवोत्तमः ।तस्य सन्ततिरेवास्य लेपनस्थानकर्म्मणि ॥
नियुज्यतां महाराज ! भविष्यत्सूत्सवेषु च ।ततः स नृपतिः श्रीमान् शिल्पशास्त्रविशारदान् ॥
सत्कारैर्दानमानैश्च योजयामास सारदम् ।दिने दिने सुघटितः प्रासादो ववृधे द्विजाः ॥
परितः पूर्य्यमाणस्तु शुक्लपक्षे यथा शशी ॥
नारद उवाच ।प्रवर्षं बहुराजेन्द्र ! स्थित्वा चास्मिन् चिरं भुवि ।आराधय जगन्नाथमुपचारैर्म्महोत्सवैः ।पितामहं द्रष्टुकामो गन्ता चेदन्तिकं विभोः ॥
उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ।उभौ तौ दिव्ययानेन जग्मतुर्मुनिभूभुजौ ॥
प्रदक्षिणीकृत्य हरिं व्योममण्डलमध्यगम् ।दृष्ट्वा पितामहं दूरात् स्रष्टारं जगतां नृपः ॥
अमन्यत द्विजश्रेष्ठाः साक्षाद्दारुमयं हरिम् ।शनैः शनैर्ययौ भूपः प्रणनाम कृताञ्जलिः ॥
स्तुवन् प्रणिपतन् भूमौ साध्वसस्खलितं व्रजन् ।जानन्नपि हि तत् कार्य्यं मानयन्नृपसत्तमम् ॥
उवाच परमप्रीत इन्द्रद्युम्नं पितामहः ।किमर्थमागतोऽस्यत्र तद् ब्रूहि हृदयस्थितम् ॥
इन्द्रद्युम्न उवाच ।आविर्ब्बभूव भगवान् भूतभव्यभवत्प्रभुः ।गत्वा देवं जगन्नाथं स्थापयिष्यसि च प्रभो ! ॥
ब्रह्मोवाच ।त्वमग्रतोऽधरां गत्वा यावत् सम्भारमृद्धिमत् ।करिष्यसि महाभाग ! तावदेव व्रजाम्यहम् ॥
इन्द्रद्युम्नोऽपि हृष्टात्मा दृष्ट्वा ब्राह्मीं श्रियंद्विजाः ।आजगाम भुवं विप्रा विधिना चानुमोदितः ॥
आगत्य च जगन्नाथं चिरादुत्कण्ठमानसः ।दण्डवत् प्रणनामासौ घनरोमाञ्चकञ्चुकः ॥
ततः क्रमात् सन्ददृशे विमानाग्रं प्रजापतेः ।स्वर्णहंसशतैः स्कन्धैरुह्यमानं समन्ततः ॥
प्रणिपत्य जगन्नाथं त्रिः परीत्य पितामहः ।आनन्दसिन्धुसंमग्नः सरोमाञ्चवपुः स्वयम् ॥
समुत्तस्थौ ततो ब्रह्मा कृतस्वस्त्ययनः स्वयम् ।ऋषिभिर्नारदाद्यैश्च विद्वद्भिर्ब्राह्मणैस्तथा ॥
प्रासादद्वारि रचिते रत्नस्तम्भेऽथ मण्डपे ।वासयित्वाभिषेकाय सम्मुखादर्शमण्डले ॥
सुवासितै रत्नकुम्भैस्तीर्थवार्य्युपसंभृतैः ।युक्ताभ्यां स्त्रीपुरुषयोरभिषेकं पितामहः ॥
चकार भगवान् लोकसंग्रहार्थं द्विजोत्तमाः ! ।ततोऽभ्यलङ्कृतान् देवान् गन्धमाल्योपशोभितान् ॥
नीराजयित्वा विधिवत् स स्वयं लोकभावनः ।रत्नसिंहासने रम्ये स्थापयामास मन्त्रतः ॥
स्थापयित्वा जगन्नाथं स्पृष्ट्वा तस्य हृदम्बुजम् ।आनुष्टुभं मन्त्रराजं सहस्रं प्रजजाप ह ॥
वैशास्वस्यामले पक्षे अष्टम्यां पुष्ययोगतः ।कृता प्रतिष्ठा भो विप्राः शोभने गुरुवासरे ॥
”तन्महाप्रसादमाहात्म्यं यथा, --“बहून् नियोजयेत्तत्र लोकान् त्रैवर्गिकानुत ।लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम् ।भुङ्क्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्द्ध्नि धारणात् ।भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥
आघ्राणान्मानसं पापं दर्शनादृष्टिजं तथा ।आस्वादाद्वाक्कृतं पापं श्रावणञ्च व्यपोहति ॥
स्पर्शनात् त्वक्कृतं पापं मिथ्यालापं तथा द्बिजाः ! ।मात्रे लेपाद्दहेत् पापं शारीरं वै न संशयः ॥
महापवित्रं हि हरेर्निवेदितंनियोजयेद्यः पितृदेवकर्म्मसु ।तृप्यन्ति तस्मै पितरः सुराश्चप्रयान्ति लोकं मधुसूदनस्य ॥
नातः परं हि वस्त्वस्ति हव्यकव्येषु भो द्बिजाः ! ।नराणां रूपमास्थाय तदश्नन्ति दिवौकसः ॥
विष्ण्वालयगतं तद्धि निर्म्माल्यं पतितादयः ।स्पृशन्ति चेन्न दुष्टं हि यथा विष्णुस्तथैव तत् ॥
निन्दन्ति ये तदमृतं मूढाः पण्डितमानिनः ।स्वयं दण्डघरस्तेषु सहते नापराधिनः ॥
येषामत्र न दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः ।कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे ॥
चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ।यथा तथोपयुक्तं तत् सर्व्वपापापनोदनम् ॥
नैवेद्यान्नं जगद्भर्त्तुर्गाङ्गं वारि समं द्बयम् ।दृष्टिस्पर्शनचिन्ताभिर्भक्षणादघनाशनम् ॥
”इत्युत्कलखण्डम् ॥
* ॥
स च कलेर्दशसहस्रवर्षपर्य्यन्तं पृथिव्यां स्थास्यति ।यथा, --“शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् ।कलेर्द्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
(स्वनामख्यातो बहुलग्रन्थकर्त्ता पण्डितविशेषः ।अयं हि तैलङ्गवंशोद्भवः । अस्य पिता पेरम-भट्ट इति ख्यातः । असौ पण्डितराजजगन्नाथोदिल्लीप्रभोः शाहजहान्-ज्येष्ठसूनोर्यवनस्यदाराशाहस्य सभायामासीत् । यतोऽनेनजगदाभरणकाव्ये दाराशाहस्यैव यशोवणनंकृतम् । अपिच भामिनीविलाससमाप्तौ “दिल्ली-वल्लभपाणिपल्लवतले नीतं नवीनं वयः” इत्यु-क्तम् । दाराशाहस्तु १५८१ एकाशीत्यधिकपञ्च-दशशतशकाब्दपर्य्यन्तं जीवित आसीत् । अतःपण्डितराजजगन्नाथोऽयं तात्कालिक इत्येवा-यातम् । अनेन पण्डितराजपदवी शाह-जहान्सम्राजो दिल्लीप्रभोः प्राप्तेति तत्कृतादा-सफविलासनामकग्रन्थादेवागम्यते यथा, --“अथ सकललोकविस्तारविस्तारितमहोप-कारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्य-गद्यपद्याद्यनेकविद्याविद्योतितान्तःकरणैः कवि-भिरुपास्यमानेन कृतयुगीकृतकलिकालेनकुमतितृणजालसमाच्छादितवेदवनमार्गविलोक-नाय समुद्दीपितसुतर्कदहनज्वालाजालेन मूर्त्ति-मतेव नव्वाबासफखानमनःप्रसादेन माथुर-कुलसमुद्रेन्दुना रायमुकुन्देनादिष्टेन सार्व्वभौम-श्रीशाहजान्प्रसादाधिगतपण्डितराजपदवीवि-राजितेन तैलङ्गकुलावतंसेन पण्डितजगन्नाथेना-सफविलासाख्येयमाख्यायिका निरमीयत । सेय-मनुग्रहेण सहृदयानामनुदिनमुल्लासिता भव-तात् ॥
”एतत्पण्डितविरचिता बहवो ग्रन्थाः सन्ति ।तेषु अद्यावघि ज्ञातास्त्वेते, रसगङ्गाघरः १, यमुनावर्णनचम्पूः २, रतिमन्मथनाटकम् ३, वसु-मतीपरिणयनाटकम् ४, जगदाभरणकाव्यम् ५, प्राणाभरणकाव्यम् (कामरूपदेशाघिपस्य प्राण-नारायणमहीपस्य स्तुतिरूपोऽयं ग्रन्थः) ६, पीयूषलहरी ७, अमृतलहरी (यमुनास्तुति-रूपोऽयं ग्रन्थः) ८, सुघालहरी (सूर्य्यस्तव-रूपोऽयं ग्रन्थः) ९, करुणालहरी (विष्णु-लहरी वा) १०, लक्ष्मीलहरी ११, भामिनी-विलासः १२, मनोरमाकुचमर्द्दिनी १३, अश्व-घाटीकाव्यम् १४, आसफविलासः १५ ॥
* ॥
तर्कपञ्चाननोपाधिकोऽपरपण्डितविशेषः । अयंहि विवादभङ्गार्णवसेतु-रामचरितादिग्रन्थानांप्रणेता । पितास्य रुद्रदेवः मात च अम्बिका ।रुद्रदेवस्तु चतुःषष्टितमवयसि पूर्व्वसहधर्म्मिण्यांससुतायां मृतायां ससारविरक्तः काशीवास-सुखमभिलषन् चिरसुहृदं नित्यानन्दपुरनिवा-सिनं ज्योतिर्विद्याविशारदं सुप्रसिद्धं चन्द्रशेखर-वाचस्पतिमभिगम्य स्वीयान्तिमदशाफलाफलंपृष्टवान् । चन्द्रशेखरस्तु रुद्रदेवस्य जन्मलग्नानु-सारतश्चरमे वयसि सुप्रसिद्धपुत्त्रलाभरूपं शुभ-फलमवगम्य वासुदेवनाम्नः कस्यचिद् विप्रवर-स्याम्बिकानाम्नीं कन्यामुद्वाहयामास । रुद्रदेवस्तुज्योतिर्विद्यापारदर्शिनश्चन्द्रशेखरस्य वाक्याद-म्बिकां परिणीय सत्पुत्त्रप्राप्तिकामो काशीमभि-गम्य विश्वेश्वरमुद्दिश्यैकविंशतिपुरश्चरणं कृत-वान् । चरमपुरश्चरणदिवसीययामिन्याः शेषयामेप्राप्तसत्पुत्त्रलाभस्वप्नः प्रहृष्टमनाः पुनः स्वस्थानंत्रिवेणीप्रदेशं प्रत्यावृत्य गार्हस्थघर्म्मानुरक्तोबभूव । अथ गच्छति काले पतिपरायणाम्बिकागर्भमुपलभ्य १६१६ शके (११०१ परिमितवङ्गाब्दे)सौराश्विनस्य देवीपक्षीयपञ्चम्यां पुत्त्ररत्नं जग-न्नाथं प्रसूतवती । रुद्रदेवस्तु नवजातपुत्त्रस्य जात-संस्कारादिकं विघाय राश्यनुसारतो रामरामइति नाम चक्रे परं कुमारस्य मातामहो वासु-देवः अस्मिन्नेव समये श्रीजगन्नाथक्षेत्रात् तीर्थ-स्थानात् प्रत्यावृत्य दौहित्रमुखं दृष्ट्वा जगन्नाथइत्याख्ययैनमयोजयत् । ततः प्रभृत्येवायं जगन्नाथइति नाम्ना प्रसिद्धोऽभूत् ।अयन्तु बाल्यावस्थायामतीवचञ्चलप्रकृति-र्दुर्द्दान्तोऽपि स्मृतिशक्तिसत्यवादितादिगुण-निकरेण बहूनां नितरां प्रियपात्रमासीत् ।अयं प्रथमतः पितृसन्निधाने व्याकरणमधीत्यततो ज्येष्ठतातस्य न्यायलङ्कारोपनामकस्य भव-देवस्य समीपे साहित्यादिकमधीतवान् । ततोभवदेवस्य परलोकप्राप्त्यनन्तरं कामालपुरनि-वासिनं रघुदेवविद्यावाचस्पतिं अध्यापकत्वेनस्वीकृत्य दर्शनशास्त्रादिचिन्तया कालं यापया-मास । अस्य एतादृशी प्रखरा स्मृतिशक्तिरासीत्बदनधीतस्यापि भिन्नदेशीयभाषायां निबद्धस्यग्रन्थस्य द्बित्रिपत्राणि एकवारमात्रमाकर्ण्यैवायंअबर्गलं अभ्रान्त इव आवर्त्तयितुं समर्थः ।एतादृशीमेधाशक्तिरेवैनं अल्पसमयेन बहु-शास्त्रपारयायिनमकरोत् ।पञ्चदशवर्षसमय एवासौ द्रौपदीनाम्नीं सुलक्षणांकन्यामुपनीतवान् । विवाहात् परमेवास्य ज्येष्ठ-तातो भवदेवः परलोकं गतः । माता तु पूर्व्वमेवकालधर्म्ममुपगता पिता च चतुर्व्विंशतिवयस्क-मेनमवलोक्यैव इह लोकं तत्याज । पितृवियोगा-नन्तरमेवायं छात्रानध्यापयितुं प्रवृत्त आसीत् ।अथ कदाचित् वर्द्धमानाधिपतिर्महाराज-स्त्रिलोकचन्द्रवाहादुरोऽस्य पाण्डित्यप्रभावमव-गम्य राजसभामधिरोहयितुं निमन्त्रयामास ।जगन्नाथस्तु राजप्रसादमुपलब्धुं राजसभांप्रविश्य तर्कजालेन तत्रस्थान् पण्डितान् जित-वान् । महीपतिस्तु जगन्नाथस्य तादृशीं बुद्धि-शक्तिं मेधाशक्तिञ्चावलोक्य विशेषेण परीक्षितुंपथि दृष्टस्य समग्रवस्तुनो वार्त्तां विज्ञापयितु-मादिदेश । जगन्नाथस्तु नृपतेर्मनोऽभिप्रायमव-गम्य त्रिवेणीप्रदेशात् वर्द्धमानपर्य्यन्तं यावत्पथि स्थितानां प्रत्येकपादपमन्दिराणामपिवृत्तान्तं कथयामास । राजा तु स्वकर्म्मचारिभि-रेतद्वृत्तान्तस्य याथार्थ्यमुपगम्य सातिशयेना-नन्दितो बभूव ।एकदा मुर्शिदावादाख्यप्रदेशनृपतेर्यवनस्यमन्त्री नन्दकुमारोऽस्य पाण्डित्यमवगम्य (नवाव)महीपतिसमीपमेनमानयामास । नृपतिस्तु बहु-विधैर्दुरूहप्रश्नैरेनं वञ्चयितुमभिललाष परं जग-न्नाथः स्वीयबुद्धिप्राखर्य्येण नृपतिकृतप्रश्नानांसदुत्तरं दत्त्वा तं सन्तोष्य च तस्माद् बहु-लार्थप्रदां भूम्यादिसम्पत्तिं लब्धवान् ।अथ कालचक्रगत्यनुसारतो यवनराजानांवैभवरविरस्तं गतः इंराजराजानां सौभाग्य-समयः समुपागतश्च । तदा इंराजनृपतय-स्तदानीन्तनप्रजारञ्जनार्थं विचारकार्य्यस्य सौ-कर्य्याय जगन्नाथतर्कपञ्चाननं ममाहूय व्यव-हारोपयोगिनं ग्रन्थमेकं प्रणेतुमादिदेश । जग-न्नाथस्तु नवीननृपतिभिस्तथादिष्टः “विवादभङ्गा-र्णवसेतु” नामकं ग्रन्थं प्रणीतवान् ।अस्य द्विषष्टितमवयसि सहधर्म्मिणी द्रौपदीबहुपुत्त्रपौत्त्रादिकं संरक्ष्य परलोकं गता । अस्यद्वौ पुत्त्रौ तिस्रः कन्याश्चाभवन् । पुत्त्रयोर्घनश्याम-सार्व्वभौम एव ज्येष्ठः प्रतिभाशाली बहुशास्त्र-पारदर्शीच । जगन्नाथोऽयमन्तिमावस्थायां वृद्ध-प्रपौत्त्रादिमुखमवलोक्य अतिदुर्लभमेतादृशंसंसारसुखमनुभूय शकनरपतेः १७२९ वत्सरे(१२१४ वङ्गाब्दे) आश्विनकृष्णपक्षीयतृतीयायांगङ्गातीरे प्राणान् तत्याज । मृत्योः प्राक्काल-पर्य्यन्तमेवास्येन्द्रियशैथिल्यं न जातम् । गङ्गा-तीरं गतेन मुमूर्षुणामुना मृत्युप्राक्काले कृतःश्लोको यथा, --“केचिद् ब्रह्म निराकारं नराकारञ्च केचन ।वयन्तु दीर्घयोगेन नीराकारमुपास्महे ॥
” इति ॥
)
वाचस्पत्यम्
Sanskritजगन्नाथ ६ त० । १ परमेश्वरे “एष सर्वेश्वरः” इत्यादिश्रुतेस्तस्यसर्वेश्वरत्वात् तथात्वम् । तदभेदात् २ विष्णौ । अर्श० अच् ।३ तदीयक्षबभेदे तत्क्षेत्रस्य तन्नामताकारणं स्कन्दपु० उत्कलखण्डे यथा “एतत्क्षेत्रवरं चास्य वपुर्भूतंमहात्मनः । स्वयम् वपुष्मान् यत्रास्ते स्वनाम्ना ख्यापितंहि तत्” । तत्स्थानसीमातीर्थभेदादि पुरुषोत्तमतत्त्वेउक्त यथाब्रह्मपुराण “पृथिव्यां मारतं वर्षं कर्म्मभूमिरुदाहृता ।न खल्वन्यत्र मर्व्यानां भूमौ कर्म्म विधीयते । तत्रास्तेभारते सर्वे दक्षिणोदधिसंस्थितः । ओड्रदेश इतिख्यातः स्वर्गमीक्षप्रदायकः । समुद्रादुत्तरे तीरे याव-द्विरजमण्डलम्” । तीर्थकाण्डकल्पतरौ वामनपुराणम्“उपोष्य रजनीमकां विरजां स नदीं ययौ । स्नात्वावैरजसे तीर्थे दत्त्वा पिण्डं पितुस्तथा । दर्शनार्थंययौ धीमानजितं पुरुषोत्तमम् । तं दृष्ट्वा पुण्डरीकाक्षम-क्षरं परमं शुचिः । उपोष्य स तिलान् दत्त्वा महेन्द्र ।दक्षिणं ययौ” । उपोष्य स्थित्वा । तथा “आदौ यद्दारुप्लवते सिन्धोः प्रारे अपूरुषम् । तदालभस्वदुर्दूनो!तेन याहि परं स्थलम्” तैत्ति० श्रुतिः । अस्य व्याख्यासांख्यायनभाष्ये “आदौ विप्रकृष्टे देशे वर्त्तमानं यद्दारुदारुमयं पुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरिवर्त्तते अपूरुषं निर्म्मातृरहितत्वेन अपूरुषं तत् आल-भस्व दुर्दूनो! हे! होतः, तेन दारुमयेन देवेन उपास्य-मानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः । अथर्ववेदेऽपि“आदौ यद्दारु प्लवते सिन्धोर्म्मध्ये अपूरुषम् । तदालभस्व दुर्दूनो तेन याहि परं स्थलम्” । अत्रापितथैवार्थः मध्ये तीरे । स्कन्दपुराणम् “इन्द्रद्युम्न!प्रसन्नस्ते भक्त्या निष्कामकर्मभिः । उत्सृज्य वित्त-कोटीस्तु यन्ममायतनं कृतम् । भङ्गेऽप्येतस्य राजेन्द्र!स्थानं न त्यज्यते मया” । ब्रह्मपुराणे “विरजे विरजानाम ब्रह्मणा संप्रतिष्ठिता । तस्याः सन्दर्शने मर्त्यःपुनात्यासप्तमं कुलम् । स्नात्वा दृष्ट्वा तु तां देवीं भक्त्याऽऽपूज्य प्रणम्य च । नरः स्ववंशमुद्धत्य मम लोकं सगच्छति । आस्ते वैतरणी नाम सर्वपापहरा नदी ।तस्यां स्नात्वा नरश्रेष्ठ । सर्वपापैः प्रमुच्यते” । वैतरणीमधिकृत्य महाभारते “आयातभागं सर्वेभ्योभागेभ्योभागमुत्तमम् । देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्व-तीम् । इमां गाथां समुद्धृत्य मम लोकं स गच्छति ।देवायनं तस्य पन्थाः शक्रस्यैव विराजते” । ब्रह्मपुराणे“आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् ।दृष्ट्वा प्रणम्य तं भक्त्या मरोविष्णुपुरं व्रजेत्” । तथा“विरजायां मम क्षेत्रे पिण्डदानं करोति यः । सकरोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः । मम क्षेत्रेमुनिश्रेष्ठ! विरजे ये कलेवरम् । परित्यज्यन्ति पुरुषास्तेमोक्षं प्राप्नुवन्ति वै । नदी तत्र महापुण्या विन्ध्य-पादविनिर्गता । चित्रोत्पलेति विख्याता सर्वपापहरा शुभा” । चित्रोत्पला महानदी । तथा “सत्यंसत्यं पुनः सव्यं क्षेत्रं तत् परमं महत् । पुरुषाख्यंसकृद्दृष्ट्वा सागराम्मःसकृन्मृतः । ब्रह्मविद्यां सकृ-ज्जत्वा गर्भवासो न विद्यते” । पुरुषोत्तमक्षेत्रदर्शनसागर-मरणब्रह्मविद्याजपानां प्रत्येकं गर्मवासाजनकत्वम् ।कूर्म्मपुराणे “तीर्थं नारायणस्यास्य स्नात्वा तु पुरुषो-त्तमम् । अत्र नारायणः श्रीमानास्ते परमपूरुषः ।पूजयित्वा परं विष्णुं तत्र स्नात्वा द्विजोत्तमाः! । ब्राह्म-णान् भोजयित्वा तु विष्णुलोकमवाप्नुयात्” । श्राद्ध-कल्पतरौ वायुपुराणे “धूतपापं तथा तीर्थं सुभद्रा-दक्षिणस्तथा । गोकर्णोगजकर्णश्च तथा च पुरुषोत्तमः ।एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते” । व्रह्मपुराणे“चक्रं दृष्ट्वा हरेर्दूरात् प्रासादोपरिसस्थितम् । सह-सा मुच्यते पापात् सर्वस्मादिति मे मतिः” । तथा“मार्कण्डेयह्रदे गत्वा स्नात्वा चोदङ्मुखः शुचिः ।निमज्जेत्त्रींश्च वारांश्च इमं मन्त्रमुदीरयन्” । “मार्क-ण्डेयह्नदे त्वेवं स्नात्वा दृष्ट्वा तु शङ्करम् । दशानामश्व-मेधानां फलं प्राप्नोति मानवः । पापैः सर्वैर्बिनिर्मुक्त्वःशिवलोकं स गच्छति । तत्र भुक्त्वा वरान् भोगान्यावदाहूतसंपलवम् । इह लोकं सामासाद्य ततोमोक्षमवाप्नुयात् । कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः-प्रदक्षिणम् । पूजयेत् परया भक्त्या मन्त्रेणानेन तंवटम्” । “भक्त्या प्रदक्षिणं कृत्वा महाकल्पवटंनरः । सहसा मुच्यते पापात् जीर्णत्वच इवोरगः ।छायां तस्य समासाद्य कल्पवृक्षस्य भो द्विजाः! ।ब्रह्महत्यां नरो दह्यात् पापेष्वन्येपु का कथा । दृष्ट्वाकृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं वटम् । न्यग्रोधाकृतिनंविष्णुं प्रणिपत्य च भोद्विजाः! । राजसूयाश्वमेधाभ्यांफलं प्राप्नोति चाधिकम् । तथा स्ववशमुद्वृत्य विष्णु-लोकं स गच्छति । वैनतेयं नमस्कृत्य कृष्णस्य पुरतःस्थितम् । सर्वपापविनिर्मुक्तस्ततोविष्णुपुरं व्रजेत् ।दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् । सङ्कर्षणंसुभद्राञ्च स याति परमां गतिम् । प्रविश्यायतनं विष्णोःकृत्वा तं त्रिःप्रदक्षिणम् । सङ्कर्षणं स्वसन्त्रेण भक्त्व्याऽऽपूज्य प्रसादयेत्” । एवं प्रसाद्य चानन्तमजेयं त्रि-दशार्च्चितम् । कैलाशशिखराकारं चन्द्रात् कान्ततराननम् ।नीलवस्त्रधरं देवं फणाविकलमस्तकम् । महावलं हलधरंकुण्डलैकविभूषणम्! रौहिणेयं नरोभक्त्या लभेताभि-मतं फलम् । सर्व्वपापविनिर्म्मुक्तोविष्णुलोकं स ग-च्छति । आहूतसंप्लवं यावत् भुक्त्वा तत्र सुखं नरः ।पुण्यक्षयादिहागत्य पवरे योगितां कुले । ब्राह्मणप्रव-रोभूत्वा सर्व्वशास्त्रार्थपारगः । ज्ञानं तत्र समासाद्यमुक्तिं प्राप्नोति दुर्लभान् । एवगभ्यर्च्च्य हलिनं ततःकृष्णं विचक्षणः । द्वादशाक्षरमन्त्रेण पूजयेत् सुममा-हितः” । आहूतसंप्लवं यावत् भूतसंप्लवं यावत् आप्रलयकालम् इति यावत् छान्दसोभकारस्य हकारः । द्वाद-शाक्षरमन्त्रेण ॐ नमोभगवते वासुदेवाय इत्यनेन ।“द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । पूजयन्तिसदा धीरास्ते मोक्षं प्राप्नुवन्ति वै । तस्मात्तेनैव मन्त्रेणभक्त्या कृष्णं जगद्गुरुम् । संपज्य गन्धमाल्याद्यैःप्रणिपत्य प्रसादयेत्” एवं प्रसाद्य देवेशं वरदं भक्तवत्स-लम् । सर्वपणहरं देवं सर्वकामफलप्रदम् । ज्ञानदं द्वि-भुजं देवं पद्मपत्रायतेक्षणम् । महोरसं महाबाहुं पीत-वस्त्रं शुभाननम् । शङ्खचक्रगदापाणिं मुकुटाङ्गद-भूषणम् । सर्वलक्षणसंयुक्तं वनमालाविभूषितम् । दृष्ट्वानरोऽञ्जलिं बद्ध्वा दण्डवत् प्रणिपत्य च । अश्वमेध-सहस्राणां फलं प्राप्नोति भोद्विजाः! । यत् फलं सर्व-तीर्थेषु स्नानदाने प्रकीर्त्तितम् । नरस्तत् फलमाप्नोतिदृष्ट्वा कृष्णं प्रणम्य च” । अत्र यद्यपि दृष्ट्वा प्रणम्योतिश्रवणात् समुच्चितएव फलान्वयोऽन्यथा वाक्यभेदः स्यात्तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकंफलान्वयैति वदन्ति । ब्रह्मपुराणे “ततः पूज्य स्वम-न्त्रेण सुभद्रां भक्तवत्सलाम् । प्रसादयेत्ततोविप्राः! प्रणिपत्य कृताञ्जलिः” । स्वमन्त्रेण प्रणवादिनमोन्तेननाम्ना । यथा गारुडे “प्रणवादिनमोऽन्तेन चतुर्थ्यन्तञ्चसत्तमाः! । देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्त्तितः” ।“एवं प्रमादा तां देवीं जगद्धात्रीं जगद्धिताम् । बलदेवस्यभगिनीं सुभद्रां वरदां शिवाम् । कामगेन विमानेननरोविष्णुपुरं व्रजेत् । निष्क्रम्य देवतागारात् कृत-कृत्योभवेन्नरः । प्रणम्यायतनं पश्चात् वजेत्तत्र च भो-द्विजाः! । भक्त्या दृष्ट्वा च तं देवं प्रणम्य नरकेशरिम् ।मुच्यते पातकैर्म्मर्त्यः समस्तैर्नात्र संशयः” । नरकेशरिंनरकेशरिणम् । तथा ‘अनन्ताख्यं वासुदेवं दृष्ट्वाभक्त्या प्रणम्य च । सर्वपापविनिर्मुक्तोनरोयाति परं-पदम्’ । तथा “श्वेतगङ्गां नरः स्नात्वा यः पश्येत्श्वेतमाधवम्” । तथा “कुशाग्रेणापि राजेन्द्र! श्वेत-गाङ्गेयमम्वु च । स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता येसमाहिताः । यस्त्विमां प्रतिमां लोके माधवाख्यांशशिप्रभाम् । विहाय सर्वलोकान् वै मम लोके महीयते” । तथा “श्वेतमाधवमालोक्य समीपे मत्स्य-माधवम् । एकार्णवजले मग्नं रोहितं रूपमास्थितम् ।वेदानां तारणार्थाय रसातलतले स्थितम्” । तथा“आद्यावतारणं रूपं माधवं मत्स्यरूपिणम् । प्रणम्यप्रयतोभूत्वा सर्व्वदुःखाद्विमुच्यते” । तथा “पूर्व्वोक्तेनतु मन्त्रेण नमस्कृत्य तु तं वटम् । दक्षिणाभिमुखो-गच्छेत् धन्वन्तरशतत्रयम्” । धनुश्चतुर्हस्त्वम् । तथा “उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । गत्वाचम्य शुचि-स्तत्र ध्यात्वा नारायणं परम् । न्यसेदष्टाक्षरं मन्त्रंपश्चाद्धस्तशरीरयोः” । “समुद्रोदकेन नाचामेत्” तस्या-पेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात् । “यैः कृतः सर्वभक्षो-ऽग्निस्त्वपेयश्च महोदधिः । क्षयी चाप्यायितश्चन्द्रःकोन नश्येत् प्रकोप्य तान्” इति मनुनाभिहित-त्वाच्च” तस्यास्मृश्यत्वेऽपि विधिभेदेनैव तस्य स्पृश्यतायथाह ब्रह्मपुराणम्“एवमुच्चार्य्य विधिवत्ततःस्नानं समाचरेत् । अन्यथाभोद्विजश्रेष्ठाः! स्नानं तत्र न शस्यते” । वनपर्वणि“अग्निश्च तेजो वडवा च देहोरेतोधाविष्णोरमृतस्यनाभिः । एवं ब्रुवन् पाण्डव! सत्यवाक्यमतोऽवगाहेतअप्तिं नदीनाम् । अन्यथा हि कुरुश्रेष्ठ! स्प्रष्टव्योनमहौदधिः । कुशाग्रेणापि कौन्तेय! देवयोनिरपां-पतिः । देवान् पितॄंस्तथा चान्यान् सन्तर्प्याचम्यवाग्यतः” (अन्यान् ऋषीत्) ब्रह्मपु० । “कृत्वा त्वाब्दैवतैर्मन्त्रैरभिषेकञ्च मार्ज्जनम् । अन्तर्जले जपेत् पश्चात्त्रिरावृत्त्यघमर्षणम्” । अव्दैवतैः “आपोहिष्ठा” इत्या-दिभिः । अघमर्षणम ऋतञ्च सत्यञ्चेत्यादि । “हस्तमात्रंचतुःकोणं चतुर्द्वारं सुशोभनम् । पुरं विलिख्य भोविप्रास्तीरे तग्य महोदधेः । एवं मण्डलमालिख्य पूजयेत्तत्रभोद्विजाः! । अष्टाक्षरविधानेन नारायणमजंविभुम् । ओंनमो नारायणाय” इत्यष्टाक्षरमन्त्रः ।ब्रह्मपुराणे “तीर्थे चाभ्यर्च्च्य विधिवत् नारायणमना-मयम् । रामं कृष्णं सुभद्राञ्च प्रणिपत्य च सागरम् ।दशानामश्वमेधानां फलं प्राप्नोति मानवः । सर्वपाप-विनिर्मुक्तः सर्वदुःखविवर्जितः । कुलैकविंशमुद्धृत्य विष्णु-लोकञ्च गच्छति । पितॄणां ये प्रयच्छन्ति पिण्डं तत्रविधानतः । अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवन्तिवै” । तथा “कोट्यो नव नवत्यश्च तत्र तीर्थानि सन्ति वै ।तस्मात् स्नानञ्च दानञ्च होमं जपसुरार्च्चनम् । यत्किञ्चित् क्रियते तत्र चाक्षयं भवति द्विजाः! ।ततोगच्छेतद्विजश्रेष्ठाः! तीर्थं यज्ञाङसम्भवम् ।इन्द्रद्युम्नसरोनाम यत्रास्ते पावनं शुभम् । गत्वातत्र शुचिः श्रीमानाचम्य मनसा हरिम् । ध्यान्वो-पस्थाय च जपन्निदं मन्त्रमुदीरयेत्” । “एवमुच्चार्य्यविधिवत् स्नात्वा देवानृषीन् पितॄन् । तिलोदकेनचान्यांश्च सन्तर्प्याचम्य वाग्यतः । दत्त्वा पितॄणांपिण्डांश्च संपूज्य पुरुषोत्तमम् । दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः” । तथा “नाना नद्यः समुद्राश्चसप्ताहं पुरुषोत्तमे । ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्तिसर्वदा । स्नानदानादिकं तस्मात् देवताप्रेक्षणादिकम् ।यत् किञ्चित् क्रियते तात! तस्मिन् । कालेऽक्षयं भवेत् ।एवं कृत्वा पञ्चतीर्थमेकादश्यामुपोषितः” । “ज्यैष्ठे शुक्लदशम्यान्तु पश्येत् श्रीपुरुषोत्तमम् । स पूर्वोक्तं फलंप्राप्य क्रीडित्वा चाच्युतालये । प्रयाति परमं स्थानंयस्मान्न विनिवर्त्तते” । तीर्थभेदेन स्नानान्तरावृत्तिमाहनिगमः । “नावर्त्तयेत् पुनः कर्म्म तर्पणादिकम-न्वहम् । काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे ।व्यपोह्य चाष्टमं भागमुदयाद्यत्र कुत्रचित् । तिथ्यो-र्युग्मेऽप्ययुग्मे वा यद्यदाह्निकमाचरेत्” । ब्रह्मपु० “मार्कण्डेयाबटः कृष्णोरौहिणेयोमहोदधिः । इन्द्र-द्युम्नसरश्चैव पञ्चतीर्थी विधिः स्मृतः” । मार्कण्डेया-वटोमार्कण्डेयह्रदः । कष्णोऽक्षयवटः “न्यग्रोधाकृतिनंविष्णुमिति” पूर्वोक्तात् । वराहपुराणे “यस्तिष्ठेदेक-पादेन कुरुक्षेत्रे नराधिप! । वर्षाणामयुतं सप्त वायु-भक्षोजितेन्द्रियः । ज्यैष्ठे मासि सिते पक्षे द्वादश्यान्तुविशेषतः । पुरुषोत्तममासाद्य ततोऽधिकफलं लभेत् ।अग्निपुराणे “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।तत्र मां लेपयेद्गन्धलेपनैरतिशोभनम्” । तथा “ज्यै-ष्ठ्यामहञ्चावतीर्णस्तत् पुण्यं जन्मवासरम् । तस्यां मेस्नपनं कुर्य्यात् महास्नानविधानतः । ज्यैष्ठे प्रातस्तनेकाले ब्रह्मणा सहितञ्च माम् । रामं सुभद्रां संस्नाप्यमम लोकमवाप्नुयात्” । तथा “आषाढम्य सिते पक्षेद्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मांभद्रया सह । यात्रोत्सवं प्रवर्त्त्याथ प्रीणयेच्च द्विजान्बहून्” । तथा “पुष्याभावात्तथा कार्य्या सदा साप्रीतये मम” । स्कन्दपुराणे “फाल्गुन्यां क्रीडनंकुर्य्यात् दोलायां मम भूमिप!” । ब्रह्मपुराणे “उत्तरेदक्षिणे विप्रास्त्वयने पुरुषोतमे । दृष्ट्वा रामं सुभद्राञ्च विष्णुलोकं व्रजेन्नरः । नरोदोलागतं दृष्ट्वा गोविन्दं पुरु-षोत्तमम् । फाल्गुन्यां संयतोभूत्वा गोविन्दस्य पुरंव्रजेत् । विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः ।कृत्वा मञ्चगतं कृष्णं दृष्ट्वा तत्राथ भोद्विजाः । नरःसमस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । विमुक्तः सर्व-पापेभ्योविष्णुलोकञ्च गच्छति । यः पश्यति तृती-यायां कृष्णं चन्दनरूषितम् । वैशाखस्य सिते पक्षे सयात्यच्युतमन्दिरम्” । तथा “मासि ज्यैष्ठे तु संप्राप्तेनक्षत्रे शक्रदैवते । पौर्णमास्यां तथा स्नानं सर्वकालंहरेर्द्विजाः । तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरु-षोत्तमम् । बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् ।तथा “स्नातः पश्यति यः कृष्णं व्रजन्तं दक्षिणामुखम् ।गुण्डिकामण्डपं यान्तं ये पश्यन्ति तथास्थितम् । कृष्णवलं भुभद्राञ्च ते यान्ति भवनं हरेः । ये पश्यन्ति तदाकृष्णं सप्ताहं मण्डपे स्थितम् । हरिं रामं सुभताञ्चविष्णुलोकं व्रजन्ति ते” । तथा, सम्बत्सरमुपोषित्वा मास-त्रयमथापि वा । तेन जप्तं हुतं तेन तेन तप्तं तपोम-हत् । स याति परमं स्थानं यत्र योगेश्वरोहरिः” ।तथा “दृष्ट्वा रामं महाज्यैष्ठ्यां कृष्णं सह सुभद्रया । वि-ष्णुलोकं नरो याति समुद्धृत्य शतं कुलम्” । तथा “वार्षिकांश्चतुरोमासान् यावत् स पुरुषोत्तमे । काशीवासयुगा-न्यष्टौ दिनेनैकेन लभ्यते” । मत्स्यपुराणे “कोटिजन्मकृतंपापं पुरुषोत्तमसन्निधौ । कृत्वा सूर्य्यग्रहे स्नानं विमु-ञ्चति महोदधौ’ । ब्रह्मपुराणे “पथि श्मशाने गृहम-ण्डपे वा रथ्याप्रदेशेऽपि च यत्र तत्र । इच्छन्ननिच्छन्न-पि यत्र तत्र संत्यज्य देहं लभते च मोक्षम् । देहं त्य-जन्ति पुरुषाः ये तत्र पुरुषोत्तमे । कल्पवृक्षं समासाद्यमुक्तास्तेनात्र संशयः । वटसागरयोर्मध्ये ये त्यजन्तिकलेवरम् । ते दुर्लभं परं मोक्षमाप्नुवन्ति न संशयः” ।तत्रैव “तथा चैवोत्कले देशे कीर्त्तिवासा महेश्वरः । सर्व-पापहरं तस्य क्षेत्रं परमदुर्लभम् । लिङ्गकोटिसमायुक्तंवाराणस्या समं शुभम् । एकाम्रकेति विख्यातं तीर्थाष्टकसमस्थितम् । तीर्थं विन्दुसरोनाम तस्मिन् क्षेत्रे द्विजोत्तमाः! । देवानृषीन् मनुष्यांश्च पितॄन् सन्तर्पयेत्ततः ।तिलोदकेन विधिना नामगोत्रविधानवित् । स्नात्वैवं वि-धिवत्तत्र सोऽश्वमेधफलं लभेत् । पिण्डं ये संप्रयच्छन्तिपितृभ्यः सरसस्तटे । पितॄणामक्षयां तृप्तिं ते कुर्व्वन्तिन संशयः । ततः शम्भोर्गृहं गच्छेद्वाग्य तः संयते-न्द्रियः । प्रविश्य पूजयेत् पूर्वं कृत्वा तत्र प्रदक्षिणम् ।ग्रगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् । अदीक्षितश्चवा देवान् म्लमन्त्रेण चाच्चयेत्” । तथा सर्वपापविनि-र्मुक्तोरूपयोवनगर्वितः । कुलैकविंशमुद्धृत्य शिवलोकं सगच्छति’ । पश्येद्देवं विरूपाक्षं देवीञ्च शारदां शिवाम् ।गणचण्डं कार्त्तिकेयं गणेशं वृषमं तथा । कल्पद्रुमञ्चसावित्रीं शिवलोकं स गच्छति । एतन्मया मुनिश्रेष्ठाः ।क्षेत्रं प्रोक्तं सुदुर्लभम् । कोलार्कस्योदधेस्तीरं भक्तिमुक्तिफलप्रदम् । स्नात्वैव सागरे दत्त्वा सूर्य्यायार्घं प्रणम्यच । नरोवा यदि वा नारी सर्वकामफलं लभेत् । ततःसूर्य्यालयं गच्छेत् पुष्पमादाय वाग्यतः । प्रविश्य पूज-यद्भानुं कुर्य्यात्त त्रिःप्रदक्षिणम् । दशानामश्वमेधानांफलं प्राप्नोति भानवः” स्कन्दपु० उत्कलखण्डे ।“तथा चानदिनं देव्याः सिद्धाः ब्रह्मर्षयस्तथा । समर्च्चितुमिहायान्ति देवेशं न तथान्यतः । अहो तत्परमंक्षत्रं विस्तृतं दशयोजनैः । तीर्थराजस्य सलिलादुत्थितंवाल्काचितम् । नीलाचलन महता मध्यस्थेन विराजि-तम् । एक स्तनमिव पृथ्व्याः सुदूरात् परिभावितम्” ।ब्रह्माणं प्रति विष्णुवाक्यम् । “सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे । स प्रदेशः पृथिव्यां हिं सर्व्वतीर्थफलप्रदम एकाम्रकाननाद् यावद् दक्षिणोदधितीरभूः ।पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः! सिन्धुतीरे च यो ब्रह्मन् गजते नीलपर्व्वतः । पृथिव्यां गो-पितं स्थानं तव चापि सुदुर्लभम् । सुरासुराणां दुर्ज्ञेयंमाययाच्छादित मम । सर्व्वसङ्गपरित्यक्त स्तत्र तिष्ठामिदेहभृत् । सृष्ठ्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः । वारुण्यां दिशि-यत् कुण्डं रोहिणं नाम विश्रुतम् । तत्तीरे निवसन्तोमां पश्यलश्चर्मचक्षुषा । तदम्भसा क्षीणपापा मम सा-युज्यमाप्नुयुः । व्रतेषु तीर्येषु च यज्ञदानयोः पुण्यंयदुक्त विमलात्मनां हि । अहर्निवासाल्लभते च सर्वंनिमेबवासात् खलु चाश्वमेधिकम्” “जैमिनिरुवाच ।उदकार्तः समागत्य कुतश्चिद्वायसोत्तमः । कारणोदकसंपूर्णे तस्मिन्कुण्डे निमज्जितः । विलोक्य माधवंनीलरत्नकान्तिं कृपानिधिम् । काकदेहं समुत्सृज्यलुठमानं मुहुः क्षितौ । शङ्खचक्रगदापाणिस्तस्य पार्श्वेव्यवस्थितः” । यमं प्रति लक्ष्मी वाक्यम् । “पञ्चक्रोशमिदंक्षेत्र समुद्रान्तर्व्यवस्थितम् । त्रिकोश तीर्थराजस्य तटभूमौ सुनिर्म्मलम् । सुवर्णवालुकाकीर्णं नीलपर्व्वतशोभितम् । योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्म-कः । संयम्य विषयग्रामं समुद्रतटमास्थितः । उपा-सितुं जगन्नाथं चतुःषष्ट्युत्तमः प्रभुः । यमेश्वर इतिख्या-तो यमसंयमनाशनः । यं दृष्ट्रा पूजयित्वा तु कोटिलिङ्गफलं लभेत् । सीमा प्रतीचि क्षेत्रस्य शङ्खाकारस्यमूर्द्धनि । शङ्खाग्रे नीलकण्ठः स्यादेतत् क्रोशं सुदुर्लभम् ।परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै । शङ्खस्योत्तर-भागस्तु समुद्रोदकसंप्लुतः । यत्सम्पर्कात् समुद्रोऽत्रतीर्थराजत्वमागतः । यथाऽयं भगवान् मुक्तिप्रदोदृष्टिपथं गतः । तथेदं मरणात् क्षेत्र सिन्धुस्नानाद्विमुक्ति-दम् । चिच्छेद ब्रह्मणः पूर्व्वं रुद्रः क्रोधात्तु पञ्चमम् ।तच्छिरो दुस्त्यजं ब्रह्मन् । व्रह्माण्डं परिवभ्रमे । तत्रागतोयदा ब्रह्म कपालं परिमुक्तवान् । कपालमोचनं तीर्थंद्वितीयावर्त्तसंस्थितम् । तस्य दक्षिणपार्श्वे तु मरणंभवमोचनम् । तृतीयावर्त्तसीमायां शक्तिं मे विम-लाह्वयाम् । जानीहि धर्मराज! त्वं भुक्तिमुक्तिफलप्रदाम् । नाभिदेशे स्थितं ह्येतत् त्रयं कुण्डं वटो विभुःकपालमोचनं यावदर्द्धाशनी प्रतिष्ठिता । मध्यं शङ्ख-स्य जानीयात् सुगुप्तं चक्रपाणिना । तां दृष्ट्वा प्रणमे-द् यस्तु भोगान् सोऽश्नाति शाश्वतान् । सिन्धुराजस्यसलिलात् यावन्मूलं वटस्य वै । कीटपक्षिमनुष्याणांमरणात् मुक्तिदो मतः । अन्तर्वेदीतीयं पुण्या वाञ्छ्यतेत्रिदशैरपि । अत्रस्थितान् हि पश्यन्ति सर्व्वांश्चक्राब्ज-धारिणः । कामाख्या क्षेत्रपालश्च विमलां चान्तरा स्थि-ता । साक्षाद्ब्रह्म स्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ।अन्तर्वेद्या रक्षणार्थं शक्तयोऽष्टौ प्रकल्पिताः । उग्रेणतपसा पूर्वमहं सर्वेण भाविता । पत्न्यर्थं सा मया सृष्ट्वागौरी तप्त्वाथ भाविनी । सर्वसौन्दर्य्यवसतिर्वपुषोमेविनिर्गता । तदा दृष्टा मया भद्रे वचनं मे प्रियं कुरु ।अन्तर्वेदीं रक्ष मम परितस्त्वं स्वमूर्त्तिभिः । साऽत्र तिष्ठतिमत्प्रीत्या अष्टधा दिक्षु संस्थिता । मङ्गला वटमूले तुपश्चिमे विमला तथा । शङ्खस्य पूर्वभागे तु सस्थिता सर्वमङ्गला । अर्द्धाशनी तथा लम्बा कुवेरदिशि संस्थिता ।कालरात्रिर्दक्षिणस्यां पूर्व्वस्यान्तु मरीचिका । कालरा-त्व्यास्तथा पश्चात् चण्डरूपा व्यवस्थिता । रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः । आत्मानमष्टधाभित्त्वा उपास्ते परमेश्वरम् । कपालमोचनं नामक्षेत्रपालं यमश्वरम् । मार्कण्डेयं तथेशानं विश्वेशंनीलकण्ठकम् । वटमूले वटेशञ्च लिङ्गान्यष्टौ महेशितुः ।यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते” ।तन्नैवेद्यान्नस्य चण्डालादिस्पर्शे स्थानभेदे भोज्यता ।कैश्चिदपि निबन्धृभिः तन्नैवेद्यान्नस्य चण्डालादिनास्पर्शे भोज्यताया अनुक्तेः तन्मूलीभूतवचनानाममूलकत्वं निबन्धृभिरधृतत्वात् समूलकत्वे तत्क्षेत्र-मध्ये एव भक्ष्यता तथाहि “प्रविशन्तस्तु तत्क्षेत्रंसर्वेः स्युर्विष्णुमूर्त्तयः । यत्रान्नपाचिका लक्ष्मर्भोक्तायत्र जनार्दनः । चण्डालेनापि संस्पृष्टं ग्राह्यं तत्रा-न्नमग्रजैः” ब्रह्मवैवर्त्तपुराणवचनस्य समूलत्वे तत्-क्षत्रप्रवेशमात्रेण सर्वेषाम् विष्णुमूर्त्तित्वनिर्देशेन तत्क्षेत्र-स्थे एवान्त्यजादिस्पर्शे न दुष्टत्वं नान्यत्री । “विष्ण्वालय-गतं तद्धि निर्माल्यं पतितादयः । स्पृशन्ति चेन्न दुष्टं हियथा विष्णुस्तथैव ते” इति उत्कलखण्डीयवाक्यस्य समू-लत्वे विष्ण्वालयगतमिति विशेषणात् तत्रैव तस्य स्पर्शदो-षराहित्यं नेतरत्र । यत्तु “चिरस्थमपि संशुष्कं नीतंवाऽदूरदेशतः । यथा तयोपयुक्तं तु सर्वपापापनोदनम्”तत्रत्यवाक्यान्तरम् तत्र नीतं वाऽदूरदेशत इत्यकारप्रश्नेषः वोध्यः वा एवार्थे अदूरत एव निकटेस्थितमेवनीतं केनापि दुष्टतामिति व्याख्येयम् पूर्व्वोक्तवचनद्वयैक-वाक्यत्वात् । वैष्णवास्तु तन्न मन्यन्ते । ते हि सर्वत्र तदन्न-स्योपयोगं कुर्वन्ति । वङ्गदेशीयानां स्मार्त्तानां तु अन्य-स्थानगतस्य पावनत्वेऽपि न भक्षणाचरणम् । “शाल्ग्रामोहरेर्मूर्त्तिर्जगन्नाथस्य भारत! । कलेर्दशसहस्रान्ते त्यक्त्वायायात् हरेः पदम्” ब्रह्मवै० । “कलेर्दश सहस्राणिविष्णुस्तिष्ठतिमेदिनीम् । तदर्द्धं जाह्नवीतोयं तदर्द्धंग्राम्यदेवता” इति च पठन्ति । “विमला तत्र देवः स्यात्जगन्नाथस्तु भैरवः” इति तन्त्रोक्ते तत्क्षेत्रस्थे पीठरक्षके३ भैरवभेदे । भामिनीविलासरसगङ्गाधरादिग्रन्थकारके४ विद्वद्भेदे । “जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः”तत्कृतगङ्गालहरी
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
