| YouTube Channel

जगद्विनाशः (jagadvinAzaH)

 
शब्दकल्पद्रुमः
Sanskrit
जगद्विनाशः,
पुं,
(जगतां विनाशो ध्वंसः अखिल-कार्य्यनाश इत्यर्थः यस्मिन् ।) युगान्तः इतिहलायुधः
(प्रलयकाले अखिलकार्य्य-शून्यत्वं यथाह मनुः ५२ -- ५४ ।“यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति
तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरीरिणः ।स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति
युगपच्च प्रलीयन्ते तदा तस्मिन् महात्मनि ।तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः
”)