| YouTube Channel

जगद्बल (jagadbala)

 
शब्दसागरः
English
जगद्बल
m.
(-लः) Air, wind.
E.
जगत् the universe, and बल surrounding.
Yates
English
जग-द्बल (लः) 1.
m.
Air, wind.
Monier Williams Cologne
English
जगद्—बल
m.
‘world-strength’, wind,
L.
Apte Hindi
Hindi
जगद्बलः
पुं*
जगत्-बलः -
हवा
Shabdartha Kaustubha
Kannada
जगद्बल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಾಯು/ಗಾಳಿ
व्युत्पत्तिः - > जगतां बलं यस्मात्
विस्तारः - > "वातस्तु नभः प्राणो जगद्बलः भोगिकान्तः कम्पलक्ष्मा" - त्रिकाण्ड०
L R Vaidya
English
jagat-bala {% m. %} wind.
शब्दकल्पद्रुमः
Sanskrit
जगद्बलः,
पुं,
(जगतां बलं यस्मात् ।) वायुः इतित्रिकाण्डशेषः
वाचस्पत्यम्
Sanskrit
जगद्बल
पु०
जगतां बलमस्मात् वायौ त्रिका० तस्यैवव्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्याछान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा “अथोयान्यन्या-नि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणंदृतस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्यहेतोर्व्यानमेवोद्गीथमुपासीत” बलस्य सर्वक्रियाहेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा “बलं वाव वि-ज्ञानाद्भूयोऽपि शतं विज्ञानवताभको वलवानाकम्प-यते यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिच-रिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवतिश्रीता भवति मन्ता भवति बोद्धा भवति कर्त्ता भवतिविज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षंबलेन द्यौर्वलेन पर्वा बलेन देवमनुष्या बलेन पशवश्च-वयांसि तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपी-लकं बलेन लोकस्तिष्ठति बलसुपास्स्वेति” सर्वक्रियाणांवायुकार्य्यत्वं सुश्रुते दर्शितं यथा “वायव्याः स्पर्शःस्पर्शेन्द्रियं सर्वचेष्टादयः सर्वशरीरस्पन्दनं लघुता च”तेन सर्ववष्टान्तां वायुकार्य्यत्वोक्त्या बलस्य तत्र हेतु-त्वोक्त्या वायोरेव बलहेतुत्वमवसीयते