| YouTube Channel

जगद्धात्री (jagaddhAtrI)

 
शब्दसागरः
English
जगद्धात्री
f.
(-त्री) A name of DURGA.
E.
जगत्, and धात्री a nurse.
Yates
English
जगद्धात्री (त्री) 3.
f.
Durgā.
Spoken Sanskrit
English
जगद्धात्री - jagaddhAtrI -
f.
- sarasvatI
जगद्धात्री - jagaddhAtrI -
f.
- world-nurse
जगद्धात्री - jagaddhAtrI -
f.
- durgA
Wilson
English
जगद्धात्री
f.
(-त्री) A name of DURGĀ.
E.
जगत्, and घात्री a nurse.
Monier Williams Cologne
English
जगद्—धात्री
f.
‘world-nurse’, Sarasvatī,
MārkP.
xxiii, 30
Durgā,
W.
Shabdartha Kaustubha
Kannada
जगद्धात्री
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-६)
शब्दकल्पद्रुमः
Sanskrit
जगद्धात्री,
स्त्री,
(जगतां धात्री विधात्री ।) दुर्गा-विशेषः अस्याः पूजायाः कालो विधिश्च यथा, निगमकल्पसारज्ञानसारस्वते ग्रन्थे दुर्गाकल्पे ।श्रीशिव उवाच ।“प्रसीद जगतां मातर्ज्जगन्निस्तारकारिणि ! ।अतएव महेशानि ! तवाहं शरणागतः
त्वया यत् कथितं पूर्व्वं तत् सर्व्वञ्च श्रुतं मया ।जगद्धात्री महादुर्गा चतुर्व्वर्गफलप्रदा
तस्याः पूजाविधिदिनं कालं तन्न प्रकाशितम् ।तदेव कथयेशानि ! श्रोतुमिच्छामि साम्प्रतम्
श्रीदेव्युवाच ।कथयामि महेशान ! सावधानोऽवधारय ।तस्याः पूजाविधिदिनं समयं भावभेदतः
कार्त्तिके शुक्लपक्षे या दुर्गानवमी तिथिः ।सा प्रशस्ता महादेव महादुर्गाप्रपूजने
प्रातश्च सात्त्विकी पूजा मध्याह्ने राजसी मता ।सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता
जपयज्ञादिभिर्देव ! इति त्रैकालिकी मता ।अथान्यत् संप्रवक्ष्यामि शृणुष्व परमेश्वर !
सप्तम्यादिनवम्यान्तं पूजाकालमितीरितम् ।त्रिदिने त्रिविधा पूजा दशम्याञ्च विसर्ज्जयेत्
पूजापरेऽह्नि देवेश ! तत्राप्यत्र विसर्ज्जनम् ।बोधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता
श्रीशिव उवाच ।त्रिसन्ध्याव्यापिनी सा तु यदि स्यान्नवमी तिथिः ।त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि !
कथयस्व महेशानि ! इति मे संशयो हृदि
श्रीदेव्युवाच ।सा प्रातर्व्यापिनी यत्र वासरे नवमी तिथिः ।त्रिसन्ध्यं पूजयेत्तत्र वासरे जगदम्बिकाम्
मुहूर्त्तव्यापिनी चापि तत्र ग्राह्या महेश्वर ! ।एककाले त्रिधा पूजा साधको नैव कारयेत्
इति ते कथितं वत्स ! किमन्यत् श्रोतुमिच्छसि ।कथयिष्यामि तद्भक्त्या तव प्रीत्या त्रिलोचन !
”श्रीपार्व्वत्युवाच ।“दशम्यां बलिदानन्तु निषिद्धं जगदीश्वर ! ।कथं त्रिकालं पूजा सा सम्भवेत् परमेश्वर !
श्रीशिव उवाच ।नवमीतिथिमाश्रित्य यत्र पूजाविधिर्भवेत् ।निषिद्धं वलिदानन्तु दशम्यां तत्र सुन्दरि !
नवमीदिनमाश्रित्य पूजाविधिरिहोदितः ।दशम्यां वलिदानन्तु निषिद्धं नात्र पार्व्वति !
ज्ञानामृतसारे पूर्व्वं पूजाप्रकारं उक्त्राः ।“मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमी तिथिः ।तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि !
त्रिकालं पूजयेत्तत्र नैककाले कदाचन
”अथ कात्यायनीतन्त्रे अष्टसप्ततिपटले ।“कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य ।उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान्
पुत्त्रारोग्यबलं लेभे लोकसाक्षित्वमेव ।तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि
प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम्
”शक्तिसङ्गमतन्त्रे ।“कार्त्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम् ।त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत्
निर्म्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः ।पूजयित्वा परदिने प्रतिमां तां विसर्ज्जयेत्
एवं कृत्वा चक्रवर्त्ती भवेत् साघकसत्तमः ।पुत्त्रपौत्त्रधनैश्वर्य्यसंयुतास्य भवेत् पुरी
”तन्त्रान्तरे ।“कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः ।प्रादुर्भूता महेशानी तत्र तां परिपूजयेत्
”तन्त्रान्तरे ।“त्रिकालं पूजयेद्दुर्गां मूलेनैकाक्षरेण ।नानारत्नविधानेन गीतवाद्यपुरःसरम्
कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः ।कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम्
”योगिनीतन्त्रे ।“कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः ।प्रगल्भान्तु जगद्धात्रीं पूजयेद्दीपमालया
”आगमतत्त्वसारे ।“कार्त्तिकेऽमलपक्षे तु नवम्यां भौमवासरे ।आविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी
”उत्तरकामाख्यातन्त्रे ।“कार्त्तिके शुक्लपक्षे तु त्रेतायां प्रथमेऽहनि ।त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये
*
कुब्जिकातन्त्रे ।“कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् ।दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये
*
दुर्गाकल्पे विद्योत्पत्तिः ।“कार्त्तिके शुक्लपक्षेऽह्नि भौमवारे जगत्प्रसूः ।सर्व्वदेवहितार्थाय दुर्व्वृत्तशमनाय
आविरासीज्जगच्छान्त्यै युगादौ परमेश्वरी
”व्रतकालविवेकधृतवचनम् ।“कार्त्तिकेऽमलपक्षस्य त्रेतायां नवमेऽहनि ।पूजयेत्तां जगद्धात्रीं सिंहपृष्ठे निषेदुषीम्
*
स्मृतिः ।“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।रवेरुदयमीक्षन्ते तत्र तिथियुग्मता
*
कृत्यतत्त्वार्णवे ।“कार्त्तिकेऽमलपक्षे तु युगाद्या नवमी स्मृता ।पूर्व्वाह्णसमये तत्र पूजाविधिरिहोदितः
*
भविष्पपुराणकृत्यतत्त्वार्णवयोः ।“कार्त्तिके शुक्लपक्षे तु युगाद्या नवमी स्मृता ।पूर्व्वाह्णसमये काष्ठात्मिका परदिने यदि
तत्र पूजादिकं कुर्य्यात् पिण्डनिर्व्वपणादृते
”स्मृतिसागरे“कार्त्तिकस्य युगाद्यायामृद्धिकामोऽर्च्चयेदुमाम्
”इति जगद्धात्रीपूजाकालव्यवस्था
*
*
अथ जगद्धात्रीविद्योत्पत्तिः ।श्रीपार्व्वत्युवाच ।“भगवन् ! प्राणनाथेश ! सर्व्वतत्त्वविशारद ! ।श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रिलोचन !
महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः ।तत् सर्व्वं ब्रूहि भगवन् ! कृपया परमेश्वर !
यदि कथ्यते देव ! विमुञ्चामि तदा तनुम्
श्रीशिव उवाच ।शृणु पार्व्वति ! वक्ष्यामि रहस्यं परमाद्भुतम् ।यत् श्रुत्वा लभते देवि ! सौभाग्यं सुखमुत्तमम्
पुरा पुरन्दरमुखाः स्वेश्वरत्वाभिमानिनः ।प्राहुः किमीश्वरोऽस्त्यस्मदतिरिक्तः सुरानिति
अथ दुर्गा जगन्माता नित्या चैतन्यरूपिणी ।एतेषां धर्म्मसेतूनामिन्द्रादीनां नियन्त्रणम्
करिष्यामीति निश्चित्य ज्योतीरूपं दधात्यलम् ।तेषामाविरभूद्दर्गा जगद्धात्री जगन्मयी
कोटिसूर्य्यप्रतीकाशा चन्द्रकोटिसमप्रभा ।ज्वलन्तं पर्व्वतमिव सर्व्वलोकभयङ्करी
तद्ददृशुः सुराः सर्व्वे भयमापुर्म्महौजसः ।किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः
वायुमाहुः समाहूय किमेतत् परमाद्भुतम्
विजानीहि मरुद्वीर ! मातरिश्वा दिशःपते !
ततो वायुर्द्रुतं तत्र गतस्तेजोऽन्तिकं ततः ।तमन्तिकमुपायातं प्राह तेजोमयी ततः
बलवान् कस्त्वमायातो वीर्य्यं किञ्चास्ति वा त्वयि ।आदातुं शक्यते सर्व्वं पृथिवीतलसम्भवम्
इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति ।आदत्स्वैतत् तृणमिति निदधौ वायवे तृणम्
वायुः सर्व्वप्रयत्नेन नादातुं तत् क्षमोऽभवत् ।ततो देवाः प्राहुरग्निं भीता उद्बिग्नमानसाः
अग्ने ! एतद्बिजानीहि किमेतत् कर्म्म चाद्भुतम् ।इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः
अमरा जातवेदा वा तेजो वागित्युवाच तम् ।स प्रोक्तवानग्निरस्मि सर्व्वदाहकशक्तिकः
दहैतत्तृणमत्यल्पमिति तस्मै तृणं ददौ ।अग्निः सर्व्वप्रयत्नेन दग्धुं नैतत् क्षमोऽभवत्
ततो निववृते वह्निर्भूत्वा सोऽपत्रपान्वितः ।एकत्रस्थाः सुराः सर्व्वे मन्त्रयामासुरुत्तमम्
इयमेवेश्वरी नूनं स्तोष्यामो नेश्चरा वयम् ।इति निश्चित्य सुधियस्तुष्टुवुः परमेश्वरीम्
प्राहुर्द्देवगणाः सर्व्वे त्वमीशा नेश्वरा वयम् ।ईश्वरत्वाभिमानेन यदस्माकं सुदुष्कृतम्
क्षन्तुमर्हसि तत् सर्व्वं कृपया जगदम्बिके ! ।तव रूपं सुगोप्यं यन्मङ्गल्यं सर्व्वमङ्गलम्
तद्द्रष्टुं वयमिच्छामो देहि दर्शनमुत्तमम् ।इत्युक्तानां सुबुद्धीनामाविरासीच्छिवाम्बरे
तेजस्यन्तर्हिते तस्मिन् चमत्कारकलेवरे ।मृगेन्द्रोपरि सुस्मेरा सर्व्वालङ्कारभूषिता
चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा ।बालार्कसदृशीदेहा नागयज्ञोपवीतिनी
त्रिनेत्रा कोटिचन्द्राभा देवर्षिमुनिसेविता ।दर्शयामास देवानामेवं रूपं जगन्मयी
ततस्तां तुष्टुवुर्द्देवा जगद्धात्रीं महेश्वरीम् ।वरं प्रापुः सुरगणा यथेष्टं त्रिदशालये
तत्रैवान्तर्हिता देवी महादुर्गा जगन्मयी ।इति ते कथितं भद्रे ! विद्योत्पत्तिं सुदुर्ल्लभाम्
”इति कात्यायनीतन्त्रे ७६ पटलः
*
श्रीशिव उवाच ।“अथ दुर्गामनुं वक्ष्ये शृणुष्व हरवल्लभे ! ।यस्य प्रसादमात्रेण मुच्यते भवबन्धनात्
थान्तवर्णं समुद्धृत्य वामकर्णं विभूषितम् ।इन्दुबिन्दुसमायुक्तं बीजं परमदुर्ल्लभम्
चतुर्व्वर्गप्रदं साक्षान्महापातकनाशनम् ।एकाक्षरीसमा नास्ति विद्या त्रिभुवने प्रिये !
कूर्च्चाद्यां वा जपेद्विद्यां तदन्ते वह्निसुन्दरी ।लज्जाद्यां वा जपेद्विद्यां फडन्तं वा जपेत् सुधीः
बधूबीजयुतां वापि स्वाहान्तां वा जपेत् पुनः ।लक्ष्म्याद्यां वा जपेद्बिद्यां चतुर्व्वर्गफलाप्तये
वाग्भवाद्यां जपेद्बापि प्रणवाद्यां जपेत् पुनः ।कामबीजादिकां वापि फडन्तां वा जपेत् पुनः
त्र्यक्षरी विविधा विद्या कथिता ब्रह्मणा पुरा ।विना गन्धैर्विना पुष्पैर्विना होमपुरःसरैः
प्राणायामं विना देवि ! जपमात्रेण सिद्धिदामन्त्रस्यास्य ऋषिर्द्देवि ! नारदः परिकीर्त्तितःगायत्त्री छन्द आख्यातं जगद्धात्री देवताचतुर्व्वर्गप्रदा दुर्गा सर्व्वसत्त्वेषु संस्थिता
दीर्घस्वरसमायुक्तनिजबीजानि पार्व्वति ! ।विन्यसेदात्मनो देहे हृदयादिषु शङ्करि !
पूर्व्ववन्न्यासवर्णन्तु पूर्व्ववत् कर्म्म चाचरेत् ।कालीवदाचरेद्बिद्यां जपेद्बिद्यामहर्न्निशम्
लक्षद्वादशकैर्द्देवि ! पुरश्चरणमीरितम् ।यथास्थाने यथाकाले यथाचारविधानतः
प्रजपेत् परया भक्त्या दुर्गां दुर्गतिनाशिनीम्
*
ध्यानमस्याः प्रवक्ष्यामि शृणुष्व नगनन्दिनि !
सिंहस्कन्धाधिसंरूढां नानालङ्कारभूषिताम् ।चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम्
शङ्खचक्रधनुर्व्वाणलोचनत्रितयान्विताम् ।रक्तवस्त्रपरीधानां बालार्कसदृशीतनुम्
नारदाद्यैर्म्मुनिगणैः सेवितां भवसुन्दरीम् ।त्रिबलीबलयोपेतनाभिनालमृणालिनीम्
रत्नद्वीपे महाद्वीपे सिंहासनसमन्विते
प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीम् ।एवं ध्यात्वा जगद्धात्रीं पूर्व्वोक्तपूजनं चरेत्
यन्त्रमस्याः प्रवक्ष्यामि शृणुष्व हरवल्लभे ! ।त्रिकोणत्रितयञ्चादौ त्रैविम्बसहितन्ततः
अष्टपत्रं ततो लिख्य त्रिरेखासहितं ततः ।वज्रभूपुरसंयुक्तं विलिखेद्विधिनामुना
तत्र तां पूजयेद्देवीं मूलप्रकृतिरूपिणीम् ।प्रभाद्याः शक्तयः पूज्या गन्धाद्यैर्नवकोणके
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ।सुप्रभा विजया सर्व्वसिद्धिदा नव शक्तयः
ह्नीमाद्याः पूजयेत्तास्तु रक्तचन्दनदूर्व्वकैः ।शङ्खपद्मनिधी देव्या वामदक्षिणयोगतः
पूजयेत् परया भक्त्या रक्तचन्दनदूर्व्वकैः ।अर्घ्यदानं ततः कुर्य्यात् पूजान्ते नगनन्दिनि !
अङ्गावृतिः पुनः पूज्या पत्रकोणेषु मातरः ।वज्राद्यायुधसंयुक्ता भूपुरे लोकनायकाः
”इति कात्यायनीतन्त्रे ७७ पटोलः
*
श्रीशिव उवाच ।“पूजा तिथिविशेषेण चतुर्व्वर्गफलाप्तये ।कर्त्तव्या या तु दुर्गायास्तां शृणुष्व शुभानने !
अष्टम्याञ्च चतुर्द्दश्यां नवम्यां वापि यत्नतः ।यः पूजयेन्महादुर्गां सोऽभीष्टफलमाप्नुयात्
पौर्णमास्याममायां वा रविसंक्रमणे तथा ।शनिभौमदिने चैव पूजयेत् परमेश्वरीम्
सुखं सौभाग्यमारोग्यमैश्वर्य्यं लभते ध्रुवम् ।शनिभौमदिने चैव यदि स्यादष्टमी तिथिः
तत्र पूज्या जगद्धात्री पुत्त्रपौत्त्रधनप्रदा ।सोमवारेऽप्यमावास्या मघानक्षत्रसंयुता
उत्तरा सप्तमीयुक्ता आदित्याहे पार्व्वति ! ।चतुर्थ्यङ्गारवारे रोहिणीसंयुता यदि
गुर्व्वष्टम्यां तथा स्वाती यदि स्यात् परमेश्वरि ! ।एषु पूजा महादेव्याः कर्त्तव्या सर्व्वसिद्धये
मधुमासे सिताष्टम्यां वैशाखत्रितयेऽहनि ।पौर्णमास्यां तथा ज्यैष्ठे अमायाञ्च महेश्वरि !
मिथुनेऽर्के द्बितीयायां श्रावणे द्बादशीदिने ।भाद्रे मास्यसिताष्टम्यां आश्विने शुक्लपक्षके
सप्तम्यामेव चाष्टम्यां नवम्याञ्च विशेषतः ।अमायां कार्त्तिके चैव नवम्यां शुक्लपक्षके
नक्तं मार्गशिरे भूते पौषेऽष्टम्यां सितेतरे ।माघे सितपञ्चम्यां फाल्गुन्यां सुरेश्वरि !
एषु द्वादशमासेषु तिथिष्वेतासु पार्व्वतीम् ।पूजयेत् परया भक्त्या यथाविभवविस्तरैः
राजराजेश्वरो भूत्वा वसेत् कल्पायुतं दिवि ।पुत्त्रपौत्त्रधनर्द्धीनामधिपो जायते ऽचिरात्
अन्ते देवीपुरं याति भुक्त्रा भोगान् यथेप्मि-तान्
श्रीपार्व्वत्युवाच ।देवदेव ! महादेव ! विश्वनाथ ! महेश्वर ! ।श्रुता तव मुखाम्भोजाद्दुर्गापूजा महाफला
केन वा पूजिता देवी कस्य वा किञ्च सिध्यति ।केन प्रकाशिता मूर्त्तिस्तत् सर्व्वं कथय प्रभो !
श्रीशिव उवाच ।रामरावणयोर्युद्धे दुर्गा रामेण पूजिता ।अवधीद्रावणं राम इषे मासि प्रपूजनात्
तेन लोकाश्चरिष्यन्ति दुर्गायाः शारदोत्सवम् ।एवमाराध्य देवेशीमिन्द्रजिद्रावणात्मजः
अभवत् कार्त्तिके यो वै दुर्गामेवं समर्च्चयन् ।अमायां कार्त्तिके मासि तारकासुरनाशकः
कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य ।उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान्
पुत्रारोग्यवरं लेभे लोकसाक्षित्वमेव ।तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि
प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ।एवं मार्गशिरे मासि वृषराशिगते विधौ
चतुर्द्दश्यां निशायान्तु चन्द्रः संपूज्य पार्व्वतीम् ।महापापाद्विमुक्तोऽसौ रात्रीशत्वमवाप
तेन मार्गशिरे मासि चतुर्द्दश्यां प्रपूजयेत् ।इन्द्रत्वमेवमिन्द्रोऽसौ लेभे दुर्गां समर्च्चयन्
ब्रह्मत्वमपि विष्णुत्वं रुद्रत्वञ्च महेश्वरि ! ।देवत्वं सर्व्वदेवानामभवच्चण्डिकार्च्चनात्
भूतं भव्यं भविष्यं यत् स्थावराणि चराणि ।सर्व्वं दुर्गाप्रभावेण स्वस्वभोगमवाप्नुयुः
विना दुर्गां महेशानि ! किञ्चिदपि वर्त्तते ।इति ते कथितं देवि ! संक्षेपेण तवाग्रतः
महादुर्गाजगद्धात्रीविद्योत्पत्तिं सुदुर्ल्लभाम्
”इति कात्यायनीतन्त्रे ७८ पटलः
(सरस्वती यथा, मार्कण्डेये २३ ३० ।“जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम्
”)