| YouTube Channel

जगद्धातृ (jagaddhAtR)

 
Capeller Eng
English
जगद्धातृ
m.
creator of the world,
E.
of
sev.
gods.
Monier Williams Cologne
English
जगद्—धातृ
m.
‘world-creator’, Viṣṇu,
BrahmaP.
ii, 10, 18 and 18, 3
VarP.
clxix, 2.
Apte Hindi
Hindi
जगद्धातृ
पुं*
जगत्-धातृ -
सृष्टि को बनाने वाला
Shabdartha Kaustubha
Kannada
जगद्धातृ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು /ಪರಮೇಶ್ವರ /ಜಗತ್ತನ್ನು ಸೃಷ್ಟಿಸುವ ಬ್ರಹ್ಮ
व्युत्पत्तिः - > जगतां धाता
L R Vaidya
English
jagat-DAtf {% m. %} the creator of the world.
वाचस्पत्यम्
Sanskrit
जगद्धातृ
पु०
त० परमेश्वरे दुर्गामूर्त्तिभेदे स्त्रीङीप् तस्याः पूजाकालव्यवस्था ।निगमकल्पसारे ज्ञानसारस्वते ग्रन्थे दुर्गाकल्पे“श्रीशिव उवाच प्रसीद जगतां मातर्ज्जगन्निस्तारका-रिणि! अतएव महेशानि! तवाहं शरणागतः ।त्वया यत् कथितं पूर्वं तत्सर्वञ्च श्रुतं मया जग-द्धात्री महादुर्गा चतुर्वर्गफलप्रदा तम्याः पूजाविधि-दिनं कालस्तन्न प्रकाशितम् तदेव कथयेशानि ।श्रेतुमिच्छामि साम्प्रतम् श्रीदेव्युवाच कथयामिमहेशान! सावधानावधारय तस्याः पूजाविधि-दिनं समयं भावभेदतः कार्त्तिके शुक्लपक्षे यादुर्गानवमी तिथिः सा प्रशस्ता महादेव! महादुर्गा-प्रपूजने प्रातश्च सात्विकी पूजा मध्याह्ने राजसीमता सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता ।जपयज्ञादिभिर्देव! इति त्रैकालिकी मता अथान्यतमंप्रवक्ष्यामि शृणुष्व परमेश्वर! सप्तम्यादि नवम्यान्तंपूजाकाल इतीरितः त्रिदिने त्रिविधा पूजा दशम्याञ्चविसर्ज्जयेत् पूजा परेऽह्नि देवेश! तत्राप्यत्र विसर्जनम् ।वेधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता शिवउवाच, त्रिसन्ध्याऽव्यापिनी सा तु यदि स्यान्नवसी तिथिः ।त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि! कथयस्वमहेशानि! इति मे संशयोहृदि श्रीदेव्युवाच सा प्रातर्व्यापिनी यत्र वासरे नवमी तिथिः त्रिसन्ध्यं पूजये-त्तत्र वासरे जरदम्बिकाम् मुहूर्त्तव्यापिनी चापितत्र ग्राह्या महेश्वर! एककाले त्रिधा पूजां साधकोनैवकारयेत्” ।तत्पूजायां दशम्या बलिदाननिषेधः तन्त्रान्तरे “श्रीपार्वत्युवाच दशम्यां वलिदानन्तु निषिद्धं जगदी-श्वर! कथं त्रिकालं पूजा सा सम्भवत् परमेश्वर! ।शिव उवाच “नवमीतिथिमाश्रित्य यत्र पूजाविथि-र्भवेत् निषिद्धं बलिदानन्तुं दशम्यां तत्र सुन्दरि! ।नवमीदिनमाश्रित्य पूजाबिधिरिहोदितः दशम्यांबलिदानन्तु निषिद्धं नात्र पार्वति” ज्ञानामृतसारेपूर्वं प्रकारमुक्त्वा “मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमीतिथिः तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि! ।त्रिकालं पूजयेत्तत्र नैककाले कदाचन” कात्यायनीतन्त्रे७ पदले “कुम्भराशिगते चन्द्रे नवम्यां कार्त्ति-कस्य उषस्यर्द्धोदितो भानुर्दुर्गामाराध्य यत्न-वात् पुत्रारोग्यं बलं लेभे लोकसाक्षित्वमेव ।तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि प्रपूज-येन्महादुर्गां धर्म्मकामार्थमोक्षदाम्” शक्तिसङ्ग-मतन्त्रे “कार्त्तिकस्य सिते पक्षे नबम्यां जगदीश्वरीम् ।त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् मृण्मयीं प्रतिमांशक्त्या जयद्धात्र्या विधानतः पूजयित्वा परदिने प्रतिमांतां विसर्ज्जयेत् पुत्रपौत्रधनैश्वर्य्य संयुताऽस्य भवेत् पुरी” ।तन्त्रान्तरे “कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः ।प्रादुर्भूता महेशानी तत्र तां परिपूजयेत्” तन्त्रान्तरे “त्रि-कालं पूजयेद्दुर्गां मूलेनैकाक्षरेण च(दूँ) नानारत्नविधा-नेन गीतवाद्यपुरःसरम् कार्त्तिकस्य सिते पक्षे नवम्याञ्चविशेषतः कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम्” ।योगिनीरन्त्रे “कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशे-षतः उद्बुद्धान्तु जगद्धात्रीं पूजयेद्दीपमालया” आगमतत्त्वसारे “कार्त्तिकेऽमलपक्षे तु नवम्याः भौमवासरे ।धाविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी” उत्तरकामा-ख्यातन्त्रे “कार्त्तिके शुक्लपक्षे तु त्रेयायां प्रथमेऽ-हनि त्रिसन्ध्यं पूजयेद्देवीं दुर्गां मम्पत्प्रवृद्धये” ।कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां जगद-म्बिकाम् दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ।दुर्गाकल्पे विद्योत्पत्तौ “कार्त्तिके शुक्लपक्षेऽह्नि भौम-वारे जगत्प्रसूः सर्वदेवहितार्थाय दुर्वृत्तशमनाय ।आविरासीत् जगच्छान्त्यै युगादौ परमेश्वरी” व्रतकाल-विवेकधृतवचनम् “कार्त्तिकेऽमलपक्षस्य त्रेतायां नवमेऽ-हनि पूजयेत्तां जगद्धात्रीं सिंहपृष्ठे निषेदुषीम्” स्मृतिः ।“युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया रवेरुदयमी-क्षले तत्र तिथियुग्मता” कृत्यतत्त्वार्णवे “कार्त्तिके-ऽमलपक्षे तु युगाद्या नवमी स्मृता पूर्वाह्णसमये तत्रपूजाविधिरिहोदितः” कृत्यतत्त्वार्णवे भविष्यपुराणम्“कार्त्तिके शुक्लपक्षे तु युगाद्या नवमी स्मृता पूर्वाह्णसमये काष्ठाव्यिका परदिने यदि तत्प्व पूजादिकं कुर्य्यात्पिण्डनिर्वपणादृते” स्मृतिसागरे “कार्त्तिकस्य युगा-द्यायामृद्धिकामोऽर्च्चयेदुमाम्” ततश्च उक्तवचनेषुतत्तिथेर्युगादित्वेन कीर्त्तनात् तत्पूजायाश्च युगाद्यदिन-कर्त्तव्यत्वेन विधानात् पूर्वापरदिनयोस्तस्याः सम्बन्धेपरदिन एव कर्त्तुव्यता तु युग्मशास्त्रेण अष्टमीविद्धाया ग्राह्यता युगाद्या वर्षवृद्धिश्चेत्यादि वचनात्यत्तु “श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी ।पूर्बविद्धैव कर्त्तव्येत्यादि” वचनं तत् एतद्भिन्ननवमीकर्त्तव्यदुगन्नितपरम् तच्च व्रतं व्रतशब्दे वक्ष्यमाणंदृश्यम् जगद्धात्रीविद्योत्पत्तिमाह कात्यापनीतन्त्रे७६ पृ० “पार्वत्युवाच भगवन्! प्राणनाथेश! सर्वतत्त्वविशारद! श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रि-लोचन! महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः ।तत् सर्वं ब्रूहि मगवन्! कृपया परमेश्वर! इति देवीप्रश्ने “श्रीशिव उवाच शृणु पार्वति! वक्ष्यामिरहस्यं परमाद्भुतम् यत् श्रुत्वा लभते देवि! सौ-माग्यसुखमुत्तमम् पुरा पुरन्दरमुखाः स्वेश्वरत्वाभि-मानिनः पाहुः किमीश्वरोऽस्त्यस्मानतिरिच्य सुरा-निति अप्य दुर्गा जगन्माता नित्या चैतन्यरूपिणो ।एतेषां धर्मसेतूनामिन्द्रादीनां नियन्त्रणम् करिष्या-मीति निस्सिव्य ज्योतीरूपं दधावलम् तेषामाविरभूद्दुर्गा जगद्धात्री जगन्मयी कोटिसूर्य्यप्रतीकाशंचन्द्रकोटिसमप्रभाम् ज्वलन्तं पर्वतमिव सर्वलोकभयङ्करम् तद्ददृशुः सुराः सर्वे भयमापुर्महौजसः ।किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः वायुमाहुः समाहूय किमेतत् परमाद्भुतम् विजानीहि मरु-द्वीर मातरिश्वन्! दिशां पते! ततो वायुर्द्रुतं तत्र गतस्तेजोऽन्तिकं ततः तमन्तिकमुपायातं प्राह तेजोमयी ततः बलवन्! कस्त्वमायातो वीर्य्यं किञ्चास्तिवा त्वयि आदातुं शक्यते सर्वं पृथिवीतलसम्भवम् ।इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति आदत्स्वैतत्तृणमिति निदधौ वायवे तृणम् वायुः सर्वप्रयत्नेननादातुं तत्क्षमोऽभवत् ततो देवाः प्राहुरग्निं भीताउद्दिग्नमानसाः अग्ने! एतद्विजानीहि किमेतत् कर्मचाद्भुतम् इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः ।अमरो जातवेदा वा तेजोवागित्युवाच तम् प्रोक्तवा-नग्निरस्मि सर्वदाहकशक्तिकः दहैतत् तृणमत्यल्पमिति तस्मै तृणं ददौ अग्निः सर्वप्रयत्नेन दग्धुं नैत-तत्क्षमोऽभवत् ततो निववृते वह्निर्भूत्वा सोऽपत्र-पान्वितः एकत्रस्थाः सुराः सर्वे मन्त्रयामासुरुत्तमम् ।इयमेवेश्वरी नूनं स्तोष्यामोनेश्वरावयम् इति निश्चित्यसुधियस्तुष्टुवुः परमेश्वरीम् प्राहुर्द्देवगणाः सर्वे त्व-मीशा नेश्वरा वयम् ईश्वरत्वाभिमानेन यदस्माकं सुदु-ष्कृतम् क्षन्तुमर्हसि तत् सर्वं कृपया जगदम्बिके तव-रूपं सुगोप्यं यन्मङ्गल्यं सर्वमङ्गलम् तद्द्रष्टुं वय-मिच्छामो देहि दर्शनमुत्तमम् इत्युक्तानां सुबुद्धीनामा-विरासीच्छिवाम्बरे तेजस्यन्तर्हिते तस्मिन् चमत्कारिकलेवरे मृगेन्द्रोपरि सुस्मेरा सर्वालङ्कारभूषिता ।चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा वालार्कसदृशी देहे नागयज्ञोपवीतिनी त्रिनेत्रा कोटिचन्द्रा-भा देवर्षिगणसेविता दर्शयामास देवानामेबं रूपंजगन्मयी ततस्तां तुष्टुवुर्देवा जगद्धात्रीं महेश्वरीम् ।वरं प्रापुः सुरगणायथेष्टं त्रिदशालये तत्रैवान्तर्हितादेवी महादुर्गा जगन्मयी” इयमेव कथा प्रायशःकेनोपनिषदि स्थिता तद्वाक्यञ्च इन्द्रशब्दे ९४२ पृ०दर्शितम् इयांस्तु विशेषः तत्र इन्द्रादिप्रबोधनायप्रादुर्भूतया ब्रह्मशक्त्या हैमवत्या ब्रह्महात्म्येनैवइन्द्रादीनामसुरजयशक्तिरुक्ता अत्र तु शक्तिशक्तिम-तोरभेदेन जगद्धात्रीरूपेणाविर्भूताया देव्या माहा-त्म्योक्तिरिति