| YouTube Channel

जक्ष (jakSa)

 
शब्दसागरः
English
जक्ष r. 1st cl. (जक्षिति) 3rd plu. जक्षति)
1. To eat.
2. To laugh. (इ) जक्षि
(जंक्षते) 1. To give.
2. To go भक्षे सक० हासे अक० जक्षादि स्वपादि पर० सेट्
दाने भ्वा० इदित् आत्म० सक० सेट्
Wilson
English
जक्ष r. 1st cl. (जक्षति 3rd plu. जक्षति)
1 To eat.
2 To laugh. (इ) जक्षि (जंक्षते)
1 To give.
2 To go.
Monier Williams 1872
English
जक्ष जक्ष, अस्, m. a Prākṛt form for यक्ष।
Shabdartha Kaustubha
Kannada
जक्ष - भक्षहसनयोः (अदा० पर० भक्षणे सक० हसने अक० से०) जक्षति
पदविभागः - > धातुः
कन्नडार्थः - > ಭಕ್ಷಿಸು /ತಿನ್ನು
जक्ष - भक्षहसनयोः (अदा० पर० भक्षणे सक० हसने अक० से०) जक्षति
पदविभागः - > धातुः
कन्नडार्थः - > ನಗು
प्रयोगाः - > "भ्रेमुर्ववल्गुर्ननृतुर्जजक्षुर्जगुः समुत्पुप्लुविरे निषेदुः"
उल्लेखाः - > भट्टि० १३-२८
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जक्ष्
मूलधातुः:
जक्ष
धात्वर्थः:
भक्ष-हसनयोः
गणः:
अदादिः
कर्मकत्वं:
भक्षणे सकर्मकः, हसने अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
जक्षिति
अनुबन्धादिविशेषः:
रुदादिः
धातुप्रदीपः
Sanskrit
जक्षँ जक्ष भक्ष, हसनयोः
- जक्षिति जक्षितः जक्षति जक्षत्, जक्षतौ जक्षः ।। 62 ।।
शब्दकल्पद्रुमः
Sanskrit
जक्ष, दाने गतौ इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) इ, जङ्क्ष्यते मध्य-पाठे नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।म, अजङ्क्षि अजाङ्क्षि जङ्क्षं जङ्क्षं जाङ्क्षं जाङ्क्षंअनुबन्धबलादनुपधाया अपि दीर्घः क्षमते तुअत्र दीर्घविधिरुपधां नापेक्षते ङ, जङ्क्षते ।इति दुर्गादासः
जक्ष, क्ष लु भक्षे हासे इति कविकल्प-द्रुमः
(अदां-परं-भक्षे सकं-हासे-अकञ्च-सेट् ।)केचित्तु विष्णुपुराणे यक्षराक्षसोत्पत्तिप्रसङ्गेयक्ष्यतामिति यैरुक्तं ते वै यक्षास्तु यक्षणादितिभक्षणार्थस्यैव यक्षशब्दव्युत्पादनादेतमन्तः-स्थादिं मन्यन्ते
तत्र अमरटीकायां वर्ग्य-जकारस्यान्तःस्थयकारश्छान्दसो द्रष्टव्य इत्युक्त्वावर्ग्यादिरयं निर्णीतः क्ष, जक्षति लु घ, जक्षिति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
जक्ष भक्षे मक० हासे अक० जक्षा० स्वपादि० प० सेट् ।स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट् ।जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति ।अजक्षीत् “उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्” शत० व्रा० १४ १४ “अश्नत्यांकश्चिदश्नाति जक्षत्यां सह जक्षिति” भाग० २५ ५७ ।“हविर्जक्षिति निःशङ्कोमखेषु मघवानसौ” जक्षिमो-ऽनपराधेऽपि” भट्टिः अस्यान्तःस्थादितां केचित्मन्यन्ते “यक्ष्यतामिति येऽप्युक्तास्ते वै यक्षास्वयक्षणात्” विष्णुपु० यक्षनामनिरुक्तौ तथादर्शनात्
जक्ष दाने
भ्वा०
इदित् आ०
सक०
सेट् इदित्करणसामथ्यासअनुपधस्यापि नुम् जङ्क्षते अजङ्क्षिष्ट मित् अजङ्क्षिअजाङ्क्षि (जा) जङ्क्षम् इदित्करणात् जङ्क्षयते
क्षीरतरङ्गिणी
Sanskrit
जक्षँ जक्ष भक्ष, हसनयोः
[जिक्षति], जक्षति अजक्षीत् , अजक्षत् जक्षित्यादयः षट् (616) अभ्यस्तः नाभ्यस्ताच्छतुः (7178 इति नुम्-जक्षत् वा नपुंसकस्य (71 79) जक्षति किलानि, जक्षन्ति सिजभ्यस्त(34109) इति झेर्जुस्-अजक्षुः लुङि-अजक्षिषुः 58
धातुवृत्तिः
Sanskrit
जक्षँ जक्ष (अर्थः) भक्ष, हसनयोः
( जक्षिति, जक्षितः, जक्षति, जक्षिषि, जक्षिमि, ) "जक्षित्यादयष्षट्'' इतिरिदमर्थे, जक्षिरिदमादयश्चान्ये षड् धातवोऽभ्यस्ता इत्यभ्यस्तत्वात् "अदभ्यस्तात्'' इति झेरद्भावः ( जजक्ष, जजक्षिथ, जजक्षिव जक्षिता जक्षिष्यति जक्षितु, जक्षितां, जक्षतु, जक्षिहि, जक्षाणि अजक्षीत्, अजक्षत्, अजक्षिताम्, अजक्षुः) "सिजभ्यस्त'' इति झेर्जुस् ( जक्ष्यात्, जक्ष्याताम्, ) अत्रापि चान्द्राः शपो लुकमनिच्छन्तो जक्षेदित्याहुः आशिषि, ( जक्ष्यात्, जक्ष्यास्ताम् अजक्षीत्, अजक्षिष्टाम्, अजक्षीः, अजक्षिषं, ) रुदिवदिडादयः ( जिजक्षिषति जाजक्ष्यते जाजक्षीति, जाजष्टि ) "स्कोः'' इति कलोपः ( जक्षयति अजिजक्षत् जक्षत्, जक्षतौ, ) "उगिदचाम्'' इति नुम् "नाभ्यस्ताच्छतुः'' इति निषिध्यते (जक्षति कुलानि, जक्षन्ति कुलानि)इत्यत्र जश्शसोः परयो "वा नपुंसकस्य'' इति नुम् अत्रात्रेयः के चिद्रामायणे यक्षशब्दस्य भक्षणार्थत्वेन व्युत्पादनादन्तस्थादिमाहुः, तच्चिन्त्यम् इत्युक्तम् रामायणोक्तिस्तु यक्ष पूजायामित्यस्यानेकार्थत्वाश्रयेण निर्वाह्या रुदादयः पञ्च गता 61
कृदन्तरूपमाला
Sanskrit
1 {@“जक्ष भक्षहसनयोः”@} 2 जक्षित्यादिः।
जक्षकः-क्षिका, जक्षकः-क्षिका, जिजक्षिषकः-षिका, 3 जाजक्षकः-क्षिका
जक्षिता-त्री, जक्षयिता-त्री, जिजक्षिषिता-त्री, जाजक्षिता-त्री
4 जक्षत् 5 -ती, 6 जक्षन्ति-जक्सति7, 8 जक्षयन्-न्ती, जिजक्षिषन्-न्ती
-- जक्षिष्यन्-न्ती-ती, जक्षयिष्यन्-न्ती-ती, जिजक्षिषिष्यन्-न्ती-ती
- -- -- -- जाजक्ष्यमाणः, जाजक्षिष्यमाणः
9 जट्-जड्-जक्षौ-जक्षः
-- -- -- 10 जक्षितम्-तः, जक्षितः, जिजक्षिषितः, जाजक्षितः-तवान्
जक्षः, जक्षः, जिजक्षिषुः, जाजक्षः
जक्षितव्यम्, जक्षयितव्यम्, जिजक्षिषितव्यम्, जाजक्षितव्यम्
11 जक्षणीयम्, जक्षणीयम्, जिजक्षिषणीयम्, जाजक्षणीयम्
जक्ष्यम्, जक्ष्यम्, जिजक्षिष्यम्, जाजक्ष्यम्
ईषज्जक्षः-दुर्जक्षः-सुजक्षः
-- -- -- जक्ष्यमाणः, जक्ष्यमाणः, जिजक्षिष्यमाणः, जाजक्ष्यमाणः
जक्षः, जक्षः, जिजक्षिषः, जाजक्षः, जक्षितुम्, जक्षयितुम्, जिजक्षिषितुम्, जाजक्षितुम्
12 जक्षा, जक्षणा, जिजक्षिषा, जाजक्षा
जक्षणम्, जक्षणम्, जिजक्षिषणम्, जाजक्षणम्
जक्षित्वा, जक्षयित्वा, जिजक्षिषित्वा, जाजक्षित्वा
प्रजक्ष्य, प्रजक्ष्य, प्रजिजक्षिष्य, प्रजाजक्ष्य
जक्षम् २, जक्षित्वा २, जक्षम् २, जक्षयित्वा २, जिजक्षिषम् २, जिजक्षिषित्वा २, जाजक्षम्
जाजक्षित्वा २।
प्रासङ्गिक्यः
01
=>
(५७८)
02
=>
(२-अदादिः-१०७१। सक। सेट्। पर।)
03
=>
[[३। यङि द्वित्वे, अभ्यासस्य ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[४। ‘जक्षित्यादयः षट्’ (६-१-६) इत्यभ्यस्तसंज्ञायां, ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति सर्वनामस्थाननिमित्तको नुम् भवति।]]
05
=>
[[आ। ‘उदश्वसन् प्राणमिवाप्य काश्चिद् दृष्ट्वा सलीलं मृदु जक्षतं तम्।।’ धा। का। २। ५१।]]
06
=>
[[५। नपुं सकलिङ्गे शत्रन्तात् जश्शासोः ‘वा नपुंसकस्य’ (७-१-७९) इति नुमागमो विकल्पेन भवति।]]
07
=>
[कुलानि]
08
=>
[[६। निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्तात् शतैव। तु शानच्।]]
09
=>
[[७। ‘क्विपि, पदान्ते, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति ककारलोपे जश्त्वे चर्त्वे रूपम्।]]
10
=>
[[८। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः--’ (३-४-७६) इति अधि- करणे, कर्मणि, कर्तरि यथासम्भवं क्तप्रत्ययो भवति।]]
11
=>
[पृष्ठम्०५४९+ २३]
12
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियाम् अकारप्रत्ययः।]]