| YouTube Channel

छेदनं (chedanaM)

 
शब्दकल्पद्रुमः
Sanskrit
छेदनं,
क्ली,
(छिद् + भावे ल्युट् ।) अस्त्रेण द्विधाकरणम् तत्पर्य्यायः वर्द्वनम् इत्यमरः ।३
कर्त्तनम् कल्पनम् छेदः ।इति हेमचन्द्रः
(यथा, मनुः ११ १४२ ।“फलदानान्तु वृक्षाणांछेदने जप्यमृक्शतम्
”नाशः अपनोदनम् यथा, महाभारते ।३ १८५ २४ ।“श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् द्रुतम् ।सनत्कुमारं धर्म्मज्ञं संशयच्छेदनाय वै
*
)भेदः इति मेदिनी ने, ६५
(छिनत्तीति छिद् + ल्युः छेदके, त्रि यथा, महाभारते ५४ ।“प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रवाधते ।तद्वै शस्त्रं शस्त्रविदां शस्त्रं छेदनं स्मृतम्
”तथाच तत्रैव ३३ ।“ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्म्मितम्
”)