| YouTube Channel

छृदी (chRdI)

 
Shabdartha Kaustubha
Kannada
छृदी - सन्दीपने (वा चुरा० उभ० सक० से०) छर्दयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಉರಿಸು /ಜ್ವಲಿಸುವಂತೆ ಮಾಡು
छृदी - सन्दीपने (वा चुरा० उभ० सक० से०) छर्दयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರಕಾಶಗೊಳಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
छृद्
मूलधातुः:
छृदी
धात्वर्थः:
दीपने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
छर्दयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
छृदीँ छृदी सन्दीपने
- छर्दयति च्छर्दति छर्द्दिष्यति कृतादिसाहचर्य्यादिड्विकल्पं नास्य मन्यन्ते (31) छृणः छृणवान् अन्यत्र च्छृणन्ति च्छृन्ते 264
धातुवृत्तिः
Sanskrit
छृदीँ छृदी (अर्थः) सन्दीपने
(छर्दयति छर्दति छर्दिता छर्दिष्यति ) "सेसिच'' इतीड्विकल्पः कृतादिसाहचर्याद्रौधादिकस्य, अत एवायं निष्ठायामनिडर्थमीदित्पठ्यते (छृण्णः छॄण्णवान्) इति छृन्ते छृणत्तीति दीप्तिदेवनयोः श्नमि धनपालशाकटायनौ तु छृदेत्यनिदितं पेठतुः तत्र निष्ठायां छर्दितमिति फले भेदः क्षीरस्वामिनस्तु पान्तोऽयं यदाहुः, चृप छृप तृप दृप संदीपने संदीपनक्रियायां चृपादयश्चत्त्वारो वर्तन्त इति ( चर्पयति छर्पयति तर्पयति दर्पयति ) 279
कृदन्तरूपमाला
Sanskrit
1 {@“छृदी सन्दीपने”@} 2 ‘छृद--’ इति केचित् पठन्ति।
‘छृदी सन्दीपने वा णौ छर्दयेच्छर्दतीत्युभे।
छृन्ते छृणत्तीति पदे दीप्तिदेवनयोः श्नमि।।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वेन णिज्विकल्पः।
ण्यन्तात्, णिजभावपक्षे शुद्धात् शुद्ध- प्रकृतिकसन्नन्तात्-यङन्ताच्च छर्दकः र्दिका, छर्दकः-र्दिका, 4 चिच्छर्दिषकः-षिका, चरीच्छृदकः-दिका
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकछर्दतिवत् 5 ज्ञेयानि।
निष्ठायाम्- 6 छर्दितः।
ण्यन्तात् सनि तु इमानि रूपाणीति विशेषः।
चिच्छर्दयिषकः-षिका, चिच्छर्दयिषिता-त्री, चिच्छर्दयिषन्-न्ती, चिच्छर्द- यिषिष्यन्-न्ती-ती, चिच्छर्दयिषमाणः, चिच्छर्दयिषिष्यमाणः, 7 चिच्छर्दयिट्- यिषौ-यिषः, चिच्छर्दयिषितः-तवान्, चिच्छर्दयिषुः, चिच्छर्दयिषितव्यम्, चिच्छर्दयिषणीयम्, चिच्छर्दयिष्यम्, ईषच्चिच्छर्दयिषः-दुश्चिच्छर्दयिषः- सुचिच्छर्दयिषः, चिच्छर्दयिष्यमाणः, चिच्छर्दयिषितुम्, चिच्छर्दयिषा, चिच्छर्दयिषणम्, चिच्छर्दयिषित्वा, प्रचिच्छर्दयिष्य, चिच्छर्दयिषम् २, चिच्छर्दयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५७४)
02
=>
(१०-चुरादिः-१८२१। सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। ११५)
04
=>
[[२। ‘सेऽसिचि--’ (७-२-५७) इति इड्विकल्पः नास्य धातोर्भवति। तत्र रुधादि- साहचर्येण, ‘उ छृदिर्--’ इति रौधादिकधातोरेव ग्रहणात्। अत एवात्र धातौ ईदित्करणं सार्थकम्। अन्यथा, णिजभावपक्षे, ‘सेऽसिचि-’ (७-२-५७) इतीड्वि- कल्पनेन, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे सिद्धे ईदित्करणं व्यर्थं स्यात्। प्रकृते तु णिजभावपक्षे शुद्धे ‘श्वीदितः--’ (७-२-१४) इतीण्णिषेधः।]]
05
=>
(५७३)
06
=>
[[आ। ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन्।।’ धा। का। ३। ४९।]]
07
=>
[[३। अतो लोपे जश्त्वचर्त्वयोः रूपम्।]]