छिन्नमस्ता (chinnamastA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaछिन्नमस्ता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದಶಮಾಹಾವಿದ್ಯೆಗಳಲ್ಲಿ ಸೇರಿರುವ ದೇವಿಯ ಒಂದು ರೂಪ
प्रयोगाः - > "भैरवी छिन्नमस्ता च विद्या धूमावती तथा"
उल्लेखाः - > तन्त्रसा०
Wordnet
Sanskrit छिन्नमस्ता
एका देवी या दुर्गायाः रूपं मता।
"बिहारे छिन्नमस्तायाः एकं प्रसिद्धं मन्दिरं वर्तते।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritछिन्नमस्ता, (छिन्नं मस्तं शिरो यस्याः ।)दशमहाविद्यान्तर्गतषष्ठमहाविद्या । सा चप्रचण्डचण्डिका । यथा, --“प्रचण्डचण्डिकां वक्ष्ये सर्व्वकामफलप्रदाम् ।यस्याः प्रसादमात्रेण सदाशिवो भवेन्नरः ॥
अपुत्त्रो लभते पुत्त्रं अधनो धनवान् भवेत् ।कवित्वञ्च सुपाण्डित्यं लभते नात्र संशयः ॥
”अथप्रचण्डचण्डिकामन्त्राः । विश्वसारे जामले च ।“लक्ष्मीं लज्जां ततो मायां मात्रां द्बादशिका-मपि ।वज्रवैरोचनीये द्वे माये फट्स्वाहया युतः ॥
लक्ष्मीबीजं यदाद्यं स्यात् तदा श्रीः सर्व्वतोमुखी ।लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः ॥
मायाबीजेन चाद्येन महापातकनाशनम् ।मात्रां द्बादशिकां बीजमाद्यं स्यान्मुक्तिदायकम् ॥
भैरवोऽस्य ऋषिर्द्देवि ! सम्राट् छन्द उदीरितम् ।छिन्नमस्ता स्मृता देवी बीजं कूर्च्चद्वयं पुनः ॥
स्वाहा शक्तिरभीष्टार्थे विनियोग उदाहृतः ॥
”“अत्र लज्जापदं कामबीजपरम् । तथा च ।अत्र लज्जापदे देवि ! कामबीजं वितन्यते ।महाकालमतं ज्ञेयं मन्त्रोद्धारं शुभावहम् ॥
”पूर्व्वमायापदे इति पाठे मायायाः पूर्व्वं लज्जा-बीजं तस्मिन्नित्यर्थः । तथा च । पूर्व्वमायापदेनलज्जाबीजमुच्यते । अन्यथा तापिन्यादिविरोधः ।तथा च ।“कामाद्यां वाग्भवाद्यां वा मायाद्यां वा जपेत्सुधीः ।लक्ष्म्याद्यां वा जपेद्विद्यां चतुर्व्वर्गफलप्रदाम् ॥
अन्येषाञ्च मुनीनां मते सर्व्वत्र मायापदं कूर्च्च-परम् । तत्रैव ।वान्तं वह्निसमायुक्तं रतिबिन्दुसमन्वितम् ।लक्ष्मीबीजमिदं प्रोक्तं सर्व्वकामार्थसिद्धये ॥
वामाक्षिवह्निसंयुक्तं बिन्दुनादविभूषितम् ।शिवबीजं महेशानि ! लज्जाबीजमुदाहृतम् ॥
ईशानमुद्धृत्य पुरारिबीजंसबिन्दुकं नादविभूषितञ्च ।सवामकर्णं परितः प्रकल्प्यमायां वदन्तीह मनीषिणस्ताम् ॥
द्वादशस्वरवर्णं स्यात् नादबिन्दुविभूषितम् ।वाग्भवं बीजमित्युक्तं सर्व्ववाक्यविशुद्धये ॥
इति मन्त्रे चतुर्ब्बीजव्याख्यानात् अयन्तुसमीचीनः । भैरवमते तु माया भुवनेश्वर्य्येव ॥
लक्ष्मीः प्रथमबीजेऽस्ति लज्जाबीजे मनोभवः ।तृतीयेऽस्मिन् सदा देवी महापातकनाशिनी ॥
चतुर्थे तु गुणातीता मुक्तिविद्याप्रदायिका ।बकारे बरुणः साक्षात् जकारे तु सुराधिपः ॥
रेफे हुताशनो देवो वकारे वसुधाधिपः ।ऐकारे त्रिपुरा देवी रेफे त्रिपुरसुन्दरी ॥
त्रैलोक्यविजया देवी सदैवौकारसंस्थिता ।चकारे चन्द्रमा देवो नकारे हि विनायकः ॥
ईकारे कमला साक्षात् यकारे च सरस्वती ।मायायुग्मे सदा देवी प्रकृत्या सह सङ्गता ॥
वैखरीं चैव फट्कारे स्वाकारे कुसुमायुधः ।हाकारे च रतिस्तिष्ठेदेवं मन्त्रसमुच्चयः ॥
”इति व्याख्यानाच्च ॥
* ॥
अस्याः पूजाप्रयोगः ।प्रातःकृत्यादिकं कृत्वा मन्त्राचमनं कुर्य्यात् ।यथा, --“लक्ष्मीमायाकूर्च्चबीजैस्त्रिभिः पीत्वाम्बु साधकः ।वाग्भवेनौष्ठौ संमृज्य मायाभ्यान्तु द्विरुन्मृजेत् ॥
कूर्च्चेन क्षालयेत् पाणी एभिर्म्मन्त्रैश्च विन्यसेत् ।श्रीमायाकूर्च्चवाक्कामत्रिपुटाभगवर्णकैः ॥
कामकलाङ्कुशाभ्याञ्च वक्त्रनासाक्षिकर्णकान् ।नाभिहृन्मस्तकं चांसौ स्पृष्ट्वा शम्भुर्भवेत् क्षणात् ॥
आचम्यैवं छिन्नमस्तां वत्सरात्तां प्रपश्यति ॥
ततः प्राणायामान्तं विधाय षोढान्यासं कुर्य्यात् ।मन्त्रषोढां ततः कुर्य्यात् त्रैलोक्यवशकारिणीम् ।श्रीबालात्रिपुटायोनिप्रासादप्रणवैस्तथा ॥
कालीबध्वङ्कुशैः कामकलाकूर्च्चास्त्रकैः क्रमात् ।षोडशीमनुवर्णैश्च पृथगष्टादशाक्षरी ॥
एभिर्बीजैर्म्मातृकार्णान् स्वेषु स्थानेषु विन्यसेत् ।एषा ब्रह्मस्वरूपा हि बीजषोढा प्रकीर्त्तिता ॥
अस्याः संन्यसनात् सर्व्वे वज्रदेहा भवन्ति हि ।सर्व्वैश्वर्य्ययुतास्तेहि जीवन्मुक्ता दशाब्दतः ॥
” * ॥
तत ऋष्यादिन्यासः ।अस्य मन्त्रस्य भैरव ऋषिः सम्राट् छन्दःछिन्नमस्ता देवता हुकारद्वयं बीजं स्वाहाशक्तिरभीष्टार्थसिद्धये विनियोगः । यथा, शिरसिभैरवऋषये नमः । मुखे सम्राट्छन्दसे नमः ।हृदि छिन्नमस्तायै देवतायै नमः । गुह्ये हूँहूँ बीजाय नमः । पादयोः स्वाहाशक्तयेनमः ॥
ततः कराङ्गन्यासौ । ओम् आंखड्गाय हृदयाय स्वाहा । इति कनीयसि ।ओम् ईं सुखड्गाय शिरसे स्वाहा । इतिपवित्राङ्गुलयोः । ओम् ऊं सुवज्राय शिखायैस्वाहा । इति मध्यमयोः । ओम् ऐं पाशायकवचाय स्वाहा । इति तर्ज्जन्योः । ओम् ओँअङ्कुशाय नेत्रत्रयाय स्वाहा । इत्यङ्गुष्ठयोः ।ओम् अः सुरक्षारक्षासुरक्षायास्त्राय फट् । इतिकरतलपृष्ठयोः । एवं हृदयादिषु । तदुक्तं भैरव-तन्त्रे ।“उच्चरेत् पूर्व्वमाकारं बिन्दुलाञ्छितमस्तकम् ।खड्गाय हृदयायेति स्वाहायुक्तं कनीयसि ॥
ईंकारञ्च ततो देवि ! चन्द्रकोटिसमप्रभम् ।सुखड्गाय ततो वाच्यं शिरसे तदनन्तरम् ॥
स्वाहायुक्तं ततो वाच्यं पवित्राङ्गुलिसंयुतम् ।ऊकारञ्च ततो वाच्यं बिन्दुलाञ्छितमस्तकम् ॥
सुवज्राय ततो वाच्यं शिखायै तदनन्तरम् ।स्वाहान्तं मध्यमायाञ्च विन्यसेत्तदनन्तरम् ॥
मात्रां द्वादशिकां देवीं विन्यसेच्च ततः परम् ।पाशायेति समुच्चार्य्य प्रवदेत् कवचाय च ॥
स्वाहान्तं विन्यसेन्मन्त्रं तर्ज्जन्यां तदनन्तरम् ।औङ्कारञ्च ततो देवि ! चाङ्कुशं तदनन्तरम् ॥
नेत्रत्रयाय स्वाहान्तमङ्गुष्ठे करयोर्द्बयोः ।अकारञ्च विसर्गान्तं सुरक्षारक्षसंयुतम् ॥
असुरक्षायसंयुक्तं अस्त्रायेति ततः परम् ।फडक्षरसमायुक्तं विन्यसेत् करयोर्द्वयोः ॥
हृदि मूर्द्ध्नि शिखायाञ्च कवचे नेत्रमण्डले ।यावदस्त्रं चतुर्द्दिक्षु विदिक्षु च यथाक्रमम् ॥
”त्रिशक्तितन्त्रे भैरववाक्यम् ।“उच्चरेत् प्रणवं पूर्व्वमाकारं बिन्दुसंयुतम् ।”इत्यादिवाक्यात् कराङ्गेषु प्रणवसम्बलितोन्यासः । ततो मूलेन मस्तकादिपादपर्य्यनपादादिमस्तकपर्य्यन्तं वारत्रयं न्यसेत् ॥
* ॥
ततो ध्यानम् ।“स्वनाभौ नीरजं ध्यायेदर्द्धं विकसितं सितम् ।तत्पद्मकोषमध्ये तु मण्डलं चण्डरोचिषः ॥
जवाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ।रजःसत्त्वतमोरेखायोनिमण्डलमण्डितम् ॥
मध्ये तु तां महादेवीं सूर्य्यकोटिसमप्रभाम् ।छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥
प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् ।पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥
विकीर्णकेशपाशाञ्च नानापुष्पसमन्विताम् ।दक्षिणे च करे कत्रीं मुण्डमालाविभूषिताम् ॥
दिगम्बरीं महाघोरां प्रत्यालीढपदे स्थिताम् ।अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ॥
रतिकामोपरिष्ठाञ्च सदा ध्यायन्ति मन्त्रिणः ।सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥
विपरीतरतासक्तौ ध्यायेद्रतिमनोभवौ ।डाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्व्वतीम् ।वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बरीम् ।कपालकर्त्तृकाहस्तां वामदक्षिणयोगतः ।नागयक्षोपवीताढ्यां ज्वलत्तेजोमयीमिव ॥
प्रत्यालीढपदां दिव्यां नानालङ्कारभूषिताम् ।सदा द्वादशवर्षोयामस्थिमालाविभूषिताम् ॥
डाकिनीं वामपार्श्वे तु कल्पसूर्य्यानलोपमाम् ।विद्युज्जटां त्रिनयनां दन्तपंक्तिवलाकिनीम् ॥
दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् ।महादेवीं महाघोरां मुक्तकेशीं दिगम्बरीम् ॥
लेलिहानमहाजिह्नां मुण्डमालाविभूषिताम् ।कपालकर्त्तृकाहस्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्व्वतीम् ।करस्थितकपालेन भीषणेनातिभीषणाम् ॥
आभ्यां निषेव्यमानां तां ध्यायेद्दवीं विचक्षणः ॥
”ध्यानस्यावश्यकत्वमाह । तन्त्रे ।“प्रचण्डचण्डिकामेवमध्यात्वा यस्तु पूजयेत् ।सद्यस्तस्य शिरश्छित्वा देवी पिबति शोणितम् ॥
”पिबन्तीमिति तेन मुखेनेति शेषः ।तथा च ।“स्वमस्तकं सखर्परं रक्तधाराभिपूरितम् ।ललज्जिह्वं महाभीमं धृतं वामभुजे तथा ॥
”इति भैरवतन्त्रे ।तत्रैव ।“सितं कुर्य्याद्दलं पूर्व्वमाग्नेयं रक्तवर्णकम् ।याम्यं कृष्णमतः पीतं शुक्लं रक्तं सितासितम् ॥
ततः पीतां प्रकुर्व्वीत कर्णिकां तस्य मध्यगाम् ।तन्मध्ये तु प्रकुर्व्वीत मण्डलं चण्डरोचिषः ॥
रजःसत्त्वतमोरेखा रक्ता शुक्लासिता क्रमात् ।मायायुग्मं ततो न्यस्य षडक्षरसमन्वितम् ॥
वाह्यं तस्य च चक्रस्य कुर्य्यात् प्राकारवेष्टितम् ।पूर्व्वं रक्तं ततः कृष्णं सितं पीतं यथाक्रमम् ॥
चतुर्द्वारसमायुक्तं क्षेत्रपालैरधिष्ठितम् ॥
”इत्यस्याः पूजायन्त्रम् ॥
* ॥
यथा वा ।“त्रिकोणं विन्यसेदादौ तम्मध्ये मण्डलत्रयम् ।तन्मध्ये विन्यसेद्योनिं द्वारत्रयसमन्विताम् ॥
वहिरष्टदलं पद्मं भूविम्बत्रितयं पुनः ।कूर्च्चबीजं लिखेम्मध्ये त्रिकोणे फट् समन्वितम् ॥
”यद्बा एतद्ध्व्यानोक्तं यन्त्रम् ।तथाच ।“अपरञ्च प्रवक्ष्यामि शृणु देवि ! यथाक्रमम् ।स्वनाभौ नीरजं ध्यायेद्भानुमण्डलसन्निभम् ॥
योनिचक्रसमायुक्तं गुणत्रितयसंज्ञितम् ।तत्र मध्ये महादेवीं छिन्नमस्तां स्मरेद्यतिः ॥
प्रदीपकलिकाकारामद्वितीयव्यवस्थिताम् ।योनिमुद्रासमायुक्तां हृदयस्थितलोचनाम् ॥
ध्येयमेतद्यतीनाञ्च गृहस्थानां निशामय ॥
”यथा, --“अन्तरे स्वशरीरस्य नाभिनीरजसङ्गताम् ।निर्लेपां निर्गुणां सूक्ष्मां बालचन्द्रसमप्रभाम् ॥
समाधिमात्रगम्यान्तु गुणत्रितयवेष्टिताम् ।कलातीतां गुणातीतां मुक्तिमात्रप्रदायिनीम् ॥
”एवं ध्यात्वा मानसैः संपूज्य तारिणीवच्छङ्ख-स्थापनं कुर्य्यात् । ततः पीठपूजा । आधारश-क्तये । प्रकृतये । कूर्म्माय । अनन्ताय । पृथिव्यै ।क्षीरसमुद्राय । रत्नद्बीपाय । कल्पवृक्षाय । तदधःस्वणसिंहासनाय । आनन्दकन्दाय । सम्बि-न्नालाय । सर्व्वतत्त्वात्मकपद्माय । सं सत्त्वाय ।रं रजसे । तं तमसे । आं आत्मने । अं अन्त-रात्मने । पं परमात्मने । ह्रीं ज्ञानात्मने नमः ।पद्ममध्ये रतिकामाभ्याम् ॥
भैरवमते तु ।“आधारशक्तिं कूर्म्मन्तु नागराजमतःपरम् ।पद्मनालञ्च पद्मञ्च पूजयेन्मन्त्रविन्नरः ॥
मण्डलं चतुरस्रञ्च रजः सत्त्वं तमस्तथा ।रतिकामौ च संपूज्य शक्तिपूजां समाचरेदिति ॥
रतिकामोपरि वज्रवैरोचनीये देहि देहिएहि एहि गृह्ण गृह्ण मम सिद्धिं देहि देहिमम शत्रून् मारय मारय करालिके हूँ फट्स्वाहेति पीठमन्त्रः ॥
सर्व्वत्र प्रणवादिनमो-ऽन्तन पूजयेत् । पुनर्ध्यात्वावाहयेत् । सर्व्व-सिद्धिवर्णनीये सर्व्वसिद्धिडाकिनीये वज्रवैरोच-नीये इहावह इहावह पुनस्तन्मन्त्रमुच्चार्य्य इहतिष्ठ इह तिष्ठ इह सन्निधेहि इह सन्निरुध्यस्वइत्यनेनावाह्य आं ह्रीँ क्रोँ हं सः इत्यनेन प्राण-प्रतिष्ठां कृत्वा । ओम् आं खड्गाय हृदयायस्वाहा इत्यादिना षडङ्गं विन्यस्य यथाशक्तिपूजां कृत्वा बलिं दद्यात् । यथा । वज्ववैरो-चनीये देहि देहि एहि एहि गृह्ण गृह्ण इमंबलिं मम सिद्धिं देहि देहि मम शत्रून् मारयमारय करालिके हूं फट् स्वाहा इति मन्त्रेण ।ततो देव्या दक्षिणे ओँ वर्णिन्यै नमः । वामेओँ डाकिन्यै नमः । ततो देव्यङ्गे षडङ्गंसंपूज्य दक्षिणे ओँ शङ्खनिधये नमः । वामेओँ पद्मनिधये नमः । पूर्व्वादिदिक्षु लक्ष्मींलज्जां मायां वाणीञ्च पूजयेत् । विदिक्षु ब्रह्म-विष्णुरुद्रेश्वरान् मध्ये सदाशिवं सर्व्वत्र प्रणवादिनमोऽन्तेन पूजयेत् । ततः पञ्च पुष्पाञ्जलिंदत्त्वा आवरणान् पूजयेत् । अग्नीशासुरवायुषुमध्ये दिक्षु च ओम् आं खड्गाय हृदयायस्वाहा इत्यादिना षडङ्गानि संपूज्य अष्टपत्रेषुपूर्व्वादिक्रमेण ओम् ह्रीं काल्यै नमः एवं वर्णिन्यैडाकिन्यै भैरव्यै महाभैरव्यै इन्द्राक्ष्यै पिङ्गाक्ष्यैसंहारिण्यै सर्व्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।यथा, --“एकां नामाभिधां कालीं वर्णिनीं डाकिनीं तथा ।भैरवीञ्च महापूर्व्वां भैरवीं तदनन्तरम् ॥
इन्द्राक्षीञ्च सपिङ्गाक्षीं ततः संहारकारिणीम् ।पूर्व्वादिके दले पूज्याः शक्तयश्च यथाक्रमम् ॥
प्रणवादिनमोऽन्तेन लज्जाबीजं समुच्चरन् ।”पद्ममध्ये हूं हूं फट् नमः स्वाहा नमः ।देव्या दक्षिणे सम्राट्छन्दसे नमः । देव्याउत्तरे सर्व्ववर्णेभ्यो नमः । पुनर्द्दक्षिणे ॐ बीज-शक्तिभ्यां नमः । पत्राग्नेषु पूर्व्वादिक्रमेण ब्राह्म्यैमाहेश्वर्य्यै कौमार्य्यै वैष्णव्यै वाराह्यै इन्द्राण्यैचामुण्डायै महालक्ष्म्यै सर्व्वत्र प्रणवादिनमो-ऽन्तेन पूजयेत् । ततश्चतुर्द्दिक्षु द्बारेषु ओम्करालाय नमः । विकरालाय नमः । एवं अति-करालाय महाकरालाय । यथा, भैरवीये ।“पूर्व्वद्वारे करालञ्च विकरालञ्च दक्षिणे ।पश्चिमेऽतिकरालञ्च महाकरालमुत्तरे ॥
”ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।विसर्ज्जने त्वयं विशेषः । संहारमुद्रां प्रदर्श्यअञ्जलावारोप्य वामनासापुटेन ।योनिमुद्रासमारूढां प्रदीपकलिकोज्ज्वलाम् ।कृष्णपक्षे विधुमिव क्रमेण क्षीणतां गताम् ॥
इमं मन्त्रं समुच्चार्य्य चण्डरश्मौ निवेशयेत् ।उत्तरे शिखरे इत्यादि । अस्य पुरश्चरणं लक्ष-जपः । सिद्धविद्यात्वात् ॥
* ॥
बलिदाने तुभैरवीये ।“रात्रौ बलिः प्रदातव्यो मत्स्यमांससुरादिभिः ।अथवा मधुपानाद्यैर्म्मधुरैर्व्विभवक्रमैः ॥
मन्त्रस्तु ।उच्चरेत् प्रणवं पूर्व्वं सर्व्वसिद्धिप्रदेऽन्वितम् ।वर्णिनीये ततो वाच्यं सर्व्वसिद्धिप्रदे ततः ॥
डाकिनीये ततो वाच्यं देवीनाम ततः परम् ।एह्येहीति ततो वाच्यं इमं बलिमनन्तरम् ॥
गृह्ण गृह्ण ततः प्रोक्त्वा मम सिद्धिमनन्तरम् ।देहि देहीति माये च ततः फट्स्वाहया युतः ॥
बलिमन्त्रः समाख्यातः पूजितोऽयं सुरेश्वरीति ॥
मन्त्रान्तरम् ।भुवनेशी कामबीजं कूर्च्चबीजञ्च वाग्भवम् ।भुवनेशी कूर्च्चबीजं वाग्भवं तदनन्तरम् ॥
वज्रवैरोचनीये च हूं फट् स्वाहा ततः परम् ॥
अस्य पूजाप्रयोगन्यासपूजादिकं षोडशीवत्कार्य्यम् ॥
* ॥
हृल्लेखा मादनं लक्ष्मीर्व्वाग्भवं कूर्च्चमेव च ।अस्त्रान्ता छिन्नमस्ताया महाविद्या प्रकीर्त्तिता ॥
अस्यापि सदृशी विद्या जगत्स्वपि न विद्यते ।षड्वर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः ॥
अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने ! ।प्रत्यालीढपदां रुदैव दधतीं छिन्नं शिरःकर्त्तृकांदिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तींमुदा ।नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतांरत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासन्नि-भाम् ॥
दक्षे चातिसिता विमुक्तचिकुरा कत्रीं तथास्वर्परंहस्ताभ्यां दधती रजोगुणभवा नाम्नापि सावर्णिनी ।देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदानागाबद्धशिरोमणिर्म्मनुविदा ध्येया सदासासुरैः ॥
वामे कृष्णतनुस्तथैव दधती खड्गं तथा खर्परंप्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा ।सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसीशक्तिः सापि परात्परा भगवती नाम्ना पराडाकिनो ॥
इति ध्यानम् ।अस्याः पूजादिकं सर्व्वं षोडशीवत् कार्य्यम् ॥
* ॥
मन्त्रान्तरम् ।तारं लज्जाद्वयं वज्रवैरोचनीये हूं फट् स्वाहा ।अस्यापि ध्यानपूजादिकं सर्व्वं षोडशीवत् ॥
* ॥
वियत्सूत्रयुतं बिन्दुनादयुक्तं ततः प्रिये ! ।एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी ॥
सूत्रं दीर्घ ऊकारः ॥
ठठान्तैषा महाविद्या त्रैलोक्यमोहकारिणी ।ताराद्यन्ता भवत्येषा चतुर्व्वर्गफलप्रदा ॥
* ॥
मन्त्रान्तरं यथा, --वज्रवैरोचनीये च कूर्च्चयुग्मं सफट्ठटः ।ताराद्यैषा महाविद्या सर्व्वतेजोऽपहारिणी ॥
त्रैलोक्याकर्षिणी विद्या चतुर्व्वर्गफलप्रदा ।ध्यानपूजादिकं सर्व्वं षोडशीवत् समाचरेत् ॥
* ॥
इदानीं षोडशीविद्याप्रशंसामाह ।तथा सर्व्वप्रयत्नेन सर्व्वापास्या च षोडशी ।लक्ष्मीबीजादिका सैव सर्व्वैश्वर्य्यप्रदायिनी ॥
लज्जाद्या स्वर्गभूनागयोषिदाकर्षिणी परा ।कूर्च्चाद्या सर्व्वजन्तूनां महापातकनाशिनी ॥
वाग्भवाद्या यदा देबी वागीशत्वप्रदायिनी ।एषा तु षोडशीविद्या वेद्या सप्तदशाक्षरी ॥
श्रीबीजपुटिता सा तु लक्ष्मीवृद्धिकरी सदा ।लज्जया पुटिता विद्या त्रैलोक्याकर्षिणी परा ॥
कूर्च्चेन पुटिता सर्व्वपापिनां पापहारिणी ।वाग्बीजपुटिता चैषा वागीशत्वप्रदायिनी ॥
चतुर्व्विधेति विद्यैषा प्रिये ! सप्तदशाक्षरी ।ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी ।एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा ।कमला भुवनेशानी कूर्च्चबीजं सरस्वती ॥
बज्रवैरोचनीये च पूर्व्वबीजानि चोच्चरेत् ।फट् स्वाहा च महाविद्या वसुचन्द्राक्षरी परा ।ताराद्येकोनविंशार्णा ब्रह्मविद्यास्वरूपिणी ।एते विद्योत्तमे देवि ! भुक्तिमुक्तिप्रदे शुमे ॥
* ॥
लक्ष्म्यादिपुटिता पूर्व्वा रन्ध्रचन्द्राक्षरी भवेत् ।चतुर्द्धा च महाविद्या चतुर्व्वर्गफलप्रदा ॥
प्रणवाद्या यदा चैषा भोगमोक्षकरी सदा । * ।विद्यान्तरं प्रवक्ष्यामि सावधानावधारय ।हृल्लेखाकूर्च्चवाग्बीजवज्रवैरोचनीये हूं ॥
अस्त्रं स्वाहा महाविद्या चतुर्द्दशाक्षरी मता ।सर्व्वैश्वर्य्यप्रदा चैषा सर्व्वसंमोहकारिणी ॥
* ॥
भुवनेशी त्रितत्त्वञ्च वाग्बीजं प्रणवं ततः ।वज्रवैरोचनीये च फट् स्वाहा च तथापरा ॥
चतुर्द्दशाक्षरी चैषा चतुर्व्वर्गफलप्रदा ।एषा विद्या महाविद्या जन्ममृत्युविनाशिनी ॥
* ॥
तन्त्रान्तरे ।रमाकामस्तथालज्जा वाग्भवं वज्र वै पदम् ।रोचनीये लज्जाद्बन्द्बमन्त्रं स्वाहासमन्वितम् ॥
इयं सा षोडशी प्रोक्ता सर्व्वकामफलप्रदा ।कथिताः सकला विद्याः सारात्सारतराः शुभाः ॥
आसां ऋषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः ।सम्राट् छन्दो देवता च छिन्नमस्ता प्रकीर्त्तिता ।षड्दीर्घभाक्खरेणैव प्रणवाद्येन सुन्दरि ! ।खड्गाद्येन ठठान्तानि षडङ्गानि प्रकल्पयेत् ॥
नारिदोषादिकञ्चासां ताः सुसिद्धाः सुरासुरैः ।सकलेषु च वर्णेषु सकलेष्वाश्रमेषु च ॥
अन्तिमेषु च वर्णेषु भुक्तिमुक्तिप्रदायिका ।प्रणवाद्याश्च या विद्या शूद्रादौ न समीरिताः ॥
अस्याञ्चैव विशेषोऽयं योषिच्चेत् समुपासयेत् ।डाकिनी सा भवत्येव डाकिनीभिः प्रजायते ॥
पतिहीना पुत्त्रहीना यथा स्यात् सिद्धयोगिनी ।इति ते कथितं तत्त्वं रहस्यमखिलं प्रिये ! ॥
अतिस्नेहतरङ्गेन भक्त्या दासोऽस्मि ते प्रिये ! ।एतासांध्यानपूजादिकं षोडशीवत् कार्य्यम् ॥
* ॥
नाभौ शुद्धारविन्दं तदुपरि कमलं मण्डलं चण्ड-रश्मेःसंसारस्यैकसारां त्रिभुवनजननीं धर्म्म-कामोदयाढ्याम् ।तस्मिन् मध्ये त्रिकोणे त्रितयतनुधरां छिन्नमस्तांप्रशस्तांतां वन्दे ज्ञानरूपां निखिलभयहरां योगिनींयोगमुद्राम् ॥
”इति छिन्नमस्ताप्रकरणम् । इति तन्त्रसारः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
