| YouTube Channel

छिद्रं (chidraM)

 
शब्दकल्पद्रुमः
Sanskrit
छिद्रं,
क्ली,
(छिद्यते भिद्यते यत् छिदिरौछेदने + “स्फायितञ्चिवञ्चीति ।” उणां १३ ।इति रक् ।) भेदः छेँदा इति भाषा तत्-पर्य्यायः कुहरम् शुषिरम् विवरम् ४विलम् निर्व्यथनम् रोकम् रन्ध्रम् ८श्वभ्रम् वपा १० शुषिः ११ इत्यमरः ।१
स्वभ्रम् १२ शुषी १३ इतितट्टीका
(यथा, महाभारते ८२ ५३ ।“ततो गच्छेत धर्म्मज्ञ ! हिमवत्सुतमर्व्वुदम् ।पृथिव्यां यत्र वै छिद्रं पूर्व्वमासीत् युधिष्ठिर !
”)दूषणम् इति मेदिनी रे, ३८
(यथा, महाभारते १२ २९ ।“बहुविघ्नश्च नृपते ! क्रतुरेष स्मृतो महान् ।छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः
”अवकाशः नवमसंख्या इति ज्योतिषम्
लग्नादष्टमस्थानम् “छिद्राख्यमष्टमं स्थान-मिति ।” इति ज्योतिस्तत्त्वम्
)