| YouTube Channel

छिदिँर् (chidi~r)

 
धातुप्रदीपः
Sanskrit
छिदिर् द्वैधीकरणे
- छिनत्ति छिन्ते चिच्छेद चिच्छिदे अच्छिदत् अच्छैत्सीत् अच्छित्त दधि चिच्छित्सति रज्जुच्छित् 3
क्षीरतरङ्गिणी
Sanskrit
छिदिर् द्वैधीकरणे
- (अर्थविवरणम्) अद्वैधस्य पृथक्त्वे
छिनत्ति, छिन्ते अच्छिदत् अच्छैत्सीत्, अच्छित्त छिदुरम्, रज्जुच्छित् रक् (द्र0 उ0 123)-छिद्रम् छिदिः पर्शुः छिदिरः, छित्वरः भिदादौ (33104 गणसूत्रम्) छिदा द्वैधीभावे, विच्छित्तिरन्यत्र 3
धातुवृत्तिः
Sanskrit
छिदिर् (अर्थः) द्वैधीकरणे
( छिनत्ति ) इत्यादि भिनत्तिवत् ( छिदुरम् ) "विदिभिदिच्छिदेः कुरच्'' इति कुरच् अयं कर्मकर्तरीति वृत्तिः करीन्द्रदर्पच्छिदुरं मृगेन्द्रं, रसज्ञाया इत्थं विदुरशशिधामभ्रमकरानित्यादिप्रयोगदर्शनात् कर्मकर्तरीति वृत्तिकारोक्तं प्रायिकमित्यात्रेयः ( 1 ) ( 1 ) वप्रच्छिदिति पुस्तकान्तरे पाठ ज्जुच्छित् ( प्रच्छित् ) "सत्सूद्विष'' इत्यादिना क्विप् ( छिदा ) छिदा द्वैधीकरण इति भिदादिपाठादङ् अन्यत्र ( छित्तिः, ) घञ् ( छेदः, ) ( छैदिकं ) "छेदादिभ्यो नित्यम्'' इति "तदर्हति'' इत्यस्मिन्नर्थे ठक् ( शीर्षच्छेद्यः शैर्षच्छेदिकः) "शीर्षच्छेदाद्यच्च'' इति तदर्हतीत्यर्थे यत्ठकौ, अत्रैव निर्देशात् प्रत्ययसन्नियोगेन शिरसः शीर्षभावः ( छिदिरम् ) "इषिमदि'' इत्यादिना किरच् ( छिद्रम् ) "स्फायितञ्चि'' इत्यादिना रक्, छेद द्वैधीकरणे चुरादौ 3