| YouTube Channel

छायाव्यवहार (chAyAvyavahAra)

 
Monier Williams Cologne
English
छाया—व्यवहार
m.
measuring the shadow cast by the sun on the dial.
शब्दकल्पद्रुमः
Sanskrit
छायाव्यवहारः,
पुं,
ज्योतिःशास्त्रोक्ताङ्कविशेषः ।अथ छायाव्यवहारे करणसूत्रं वृत्तम् ।“छाययोः कर्णयोरन्तरे ये तयो-र्व्वर्गविश्ले षभक्ता रसाद्रीषवः ।सैकलब्धेः पदघ्नन्तु कर्णान्तरंभान्तरेणोनयुक्तं दले स्तः प्रभे
उदाहरणम् ।नन्दचन्द्रैर्मितं छाययोरन्तरंकर्णयोरन्तरं विश्वतुल्यं ययोः ।ते प्रभे वक्ति यो युक्तिमान् वेत्त्यसौव्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम्
न्यासःछां(७/२) छाया(४५/२)छायान्तरम् १९ कर्णान्तरम् १३ अनयो-र्व्वर्गान्तरेण १९२ भक्ता रसाद्रीषवः ५७६ ।लब्धम् सैकस्यास्य मूलम् ।अनेन कर्णान्तरम् १३ गुणितम् २६ ।द्विस्थम् २६ भान्तरेण १९ ऊनयुते ।७ ४५ तदर्द्धे लब्धे छाये (७/२ ४५/२) तत्कृत्यो-र्योगपदमित्यादिना जातौ कर्णौ (२५/२ ५१/२)छायान्तरे करणसूत्रं वृत्तार्द्धम् ।शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न-श्छाया भवेद्विनरदीपशिखौच्च्यभक्तः ।उदाहरणम् ।शङ्कुप्रदीपान्तरभूस्त्रिहस्तादीपोच्छ्रितिः सार्द्धकरत्रया चेत् ।शङ्कोस्तदार्काङ्गुलसम्मितस्यतस्य प्रभा स्यात् कियती वदाशु
भूः छाया(१/२)शङ्कुः(१/२)प्रदीपशङ्कुतलान्तरम् ३अनयोर्घातः (३/२) विनरदीपशिखौच्च्येन भक्तोलब्धानि छायाङ्गुलानि १२ ।अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्द्धम् ।छायाहृते तु नरदीपतलान्तरघ्नेशङ्कौ भवेन्नरयुते खलु दीपकौच्च्यम् ।उदाहरणम् ।प्रदीपशङ्क्वन्तरभूस्त्रिहस्ताछायाङ्गुलैः षोडशभिः समा चेत् ।दीपोच्छ्रितिः स्यात् कियती वदाशुप्रदीपशङ्क्वन्तरमुच्यतां मे
न्यासःशङ्कुः १२ छायाङ्गुलानि १६ शङ्कुप्रदीपान्तरहस्ताः लब्धं दीपकौच्च्यंहस्ताः (११/४)प्रदीपशङ्कन्तरभूमानानयनाय करणसूत्रंवृत्तार्द्धम् ।विशङ्कुदीपोच्छ्रयसंगुणा भाशङ्कूद्धृता दीपनरान्तरं स्यात्
उदाहरणम् पूर्व्वोक्त एव दीपोच्छ्रायः (११/४)शङ्क्वङ्गुलानि १२ छाया १६ लब्धाःशङ्कुप्रदीपान्तरहस्ताः ।छायाप्रदीपान्तरदीपौच्च्यानयनाय करणसूत्रंसार्द्धवृत्तम् ।छायाग्रयोरन्तरसंगुणाभाछायाप्रमाणान्तरहृद्भवेद्भूः ।भूशङ्कुघातः प्रभया विभक्तःप्रजायते दीपशिखौच्च्यमेवम्
त्रैराशिकेनैव यदेतदुक्तंव्याप्तं खभेदैर्हरिणेव विश्वम्
उदाहरणम् ।शङ्कोर्भार्कमिताङ्गुलस्य सुमते ! दृष्टा किलाष्टाङ्गुलाछायाग्राभिमुखे करद्वयमिते न्यस्तस्य देशे पुनः ।तस्यैवार्कमिताङ्गुला यदि तदा छायाप्रदीपान्तरंदीपौच्च्यञ्च कियद्वद व्यवहृतिं छायाभिधां वेत्सिचेत्
भूः (१३/३) छां (१/३) भूः छां (१/२)अत्र छायाग्रयोरन्तरमङ्गुलात्मकम् ५२ ।छाये १२ अनयोराद्या इय-मनेन ५२ गुणिता ४१७ छायाप्रमाणा-न्तरेण भक्ता लब्धं भूमानम् १०४ ।इदं प्रथमछायाग्रदीपतलयोरन्तरमित्यर्थः ।एवं द्वितीयच्छायाग्रमानम् १५६ भूशङ्कुघातःप्रभया विभक्त इति जातमुभयतोऽपि दीपौच्च्यंसममेव हस्ताः ६(१/२) ।एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनया-नयनं वर्त्तते तद्यथा प्रथमच्छायातो द्वितीय-च्छाया १२ यावताधिका तावता छाया-वयवेन यदि छायाग्रान्तरतुल्याभूर्लभ्यते तदाछायया किमिति एवं कृथक् पृथक् या-प्रदीपतलान्तरप्रमाणं लभ्यते ततो द्वितीयंत्रैराशिकं यदि छायातुले भुजे शङ्कुः कोटि-स्तदा भूतुल्ये भुजे किमिति लब्धं दीपकौच्च्य-मुभयतोऽपि तुल्यमेव एवं पञ्चराशिकादिक-मखिलं त्रैराशिककल्पनयैव सिद्ध्वं यथा भग-वता श्रीनारायणेन जननमरणक्लेशापहारिणानिखिलजगज्जननैकबीजेन सकलभुवनभावनेनगिरिसरित्सुरनरासुरादिभिः स्वभेदैरिदं जग-द्ब्याप्तं तथेदमखिलं गणितजातं त्रैराशिकेनव्याप्तं यद्येवं तद्वहुभिः किमित्याशङ्क्याह ।यत्किञ्चिद्गुणभागहारविधिना बीजेऽत्र वागण्यतेतत् त्रैराशिकमेव निर्म्मलधियामेवावगम्यंविदाम् ।एतद्यद्बहुधास्मदादिजडधीधीवृद्धिबुद्ध्या बुधै-स्तद्भेदान् सुगमान् विधाय रचितं प्राज्ञैःप्रकीर्णादिकम्
”इति श्रीभास्कराचार्य्यविरचितायां लीलावत्यांछपाधिकारः समाप्ततामगात्