| YouTube Channel

छायाविप्रतिपत्ति (chAyAvipratipatti)

 
वाचस्पत्यम्
Sanskrit
छायाविप्रतिपत्ति स्त्री छायानां देहकान्तीना तत्प्रभृतीनांविप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः सुश्रुतोक्ते नॄणां म-रणसूचके देहकान्त्यादीनामन्यथाभावे यथाह सुश्रुतः ।“अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः श्यावालोहितिका नीला पीतिका वापि मानवम् अभि-द्रवति यं छाया परासुरसंशयम् ह्रीश्रियौ न-श्यतो यस्य तेज ओजः स्मृतिः प्रभा अकस्माद्यं भजन्तेनो परासुरमंशयम् यस्याधरौष्ठः पतितः क्षिप्त-श्चोर्द्धं तथोत्तरः उभौ वा जाम्बवाभासौ दुर्लभंतस्य जीवितम् आरक्ता दशना यस्य श्यावा वा स्युःपतन्ति खञ्जनप्रतिमा वापि तं गतायुषमादिशेत् कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना यस्यवै कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ।कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका ।अवस्फूर्जति मग्ना वा जीवति मानवः सङ्क्षिप्तेविषमे स्तब्धे रक्ते श्रस्ते लोचने स्यातां वा प्र-स्रुते यस्य गतायुर्नरो ध्रुवम् केशाः सीमन्तिनोयस्य संक्षिप्ते विनते भ्रुवौ लुनन्ति चाक्षिपक्ष्माणिसोऽचिराद्याति मृत्यवे नाहरत्यन्नमास्यस्थं धा-रयति यः शिरः एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्जहाति सः बलवान् दुर्बलो वापि सम्मोहं योऽधिगच्छति उत्थाप्यमानो बहुशस्त धीरः परिवर्जयेत्उत्तानः सर्व्वदा शेते पादौ विकुरुते या विप्र-सारणशीलो वा जीवति मानवः! शीतपादकरो-च्छ्वासश्छिन्नश्वासश्च यो भवेत् काकोच्छ्वासश्च यो म-र्त्यस्तं धीरः परिवर्जयेत् निद्रा च्छिद्यते यस्य योवा जागर्त्ति सर्व्वदा मुह्येद्वा वक्तुकामस्तु प्रत्याख्येयःस जानता उत्तरौष्ठञ्च यो लिह्यादुद्गारांश्च करोतियः प्रेतैर्व्वा भाषते सार्द्धं प्रेतरूपं तमादिशेत् ।खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्त्तते पुरुषस्याविषार्त्तस्य सद्यो जह्यात्स जीवितम् वाताष्ठीलातु हृदये यस्योर्द्धमनुयायिनी रुजान्नविद्वेषकरी सपरासुरसंशयम् अनन्योपद्रवकृतः शोफः पादसमु-त्थितः पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम् ।अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता श्वा-सिनः कासिनो वापि यस्य तं परिवर्जयेत् स्वेदोदाहश्च बलवान् हिक्का श्वासश्च मानवम् बलवन्त-मपि प्राणैर्व्वियुञ्जन्ति संशयः श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति भुखञ्च जायते पूतियस्य तं परिवर्जयेत् वक्त्रमापूर्य्यतेऽश्रूणां स्विद्यतश्चर-णावुभौ चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ।अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि यस्या-कस्मात्स विज्ञेयो गन्ता वैवस्वतालयम् पङ्क्यमत्स्य-वसातैलघृतगन्धांश्च ये नराः मृष्टगन्धांश्च ये वान्तिगन्तारस्ते यमालयम् यका ललाटमायान्ति वलिंनाश्नन्ति वायसाः येषां वापि रतिर्नास्ति यातारस्तेयमालयम् ज्वरातिसारशोफाः स्युर्यस्यान्योन्याव-सादिनः प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम् ।क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः पवाहिका शिरः-शूलं कोष्ठशूलञ्च दारुणामा पिपासा बलहानिश्चतस्य मृत्युरुपस्थितः विषमेणोपचारेण कर्म्मभिश्चपुराकृतैः अनित्यत्वाच्च जन्तूनां जीवितं निधवंव्रजेत् प्रेतभूतपिशाचाश्च रक्षांसि विविधानि ।मरणाभिभुखं नित्यमुपसर्पन्ति मानवम् तानि भेषज-वीर्य्याणि प्रतिघ्नन्ति जिघांसया तस्मान्मोघाः क्रियाःसर्व्वा भवन्त्येव गतायुषः”