| YouTube Channel

छात्रकं (chAtrakaM)

 
Apte 1890
English
छात्रकं Honey in the comb or hive.
शब्दकल्पद्रुमः
Sanskrit
छात्रकं,
क्ली,
(छात्र + स्वार्थे कन् ।) छात्रं मधु ।यथा, राजनिर्घण्टे ।“छत्राकारन्तु पटलं सरघाः पीतपिङ्गलाः ।ये कुर्व्वन्ति तदुत्पन्नं मधु च्छात्रकमीरितम् ।श्वित्रमेहकृमिघ्नञ्च विद्याच्छात्रं गुणोत्तरम्
”अपिच भावप्रकाशे ।“वरटाः कपिलाः पीताः प्रायो हिमवतो वने ।कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम्
छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु ।स्वादुपाकं कृमिश्वित्ररक्तपित्तप्रमेहजित्
भ्रमतृड्मोहविषहृत्तर्पणञ्च गुणाधिकम्