| YouTube Channel

छात्रं (chAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
छात्रं,
क्ली,
वरटीच्छत्रसम्भवं मधु तस्य गुणाः ।श्वित्रक्रिमिरोगरक्तपित्तनाशित्वम् गुरुत्वञ्च ।इति राजवल्लभः
(“वरटाः कपिलाः पीताः प्रायो हिमवतो वने ।कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम्
”छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु ।स्वादुपाकं क्रिमिश्वित्ररक्तपित्तप्रमेहजित् ।भ्रमतृण्मोहविषहृत् तर्पणञ्च गुणाधिकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)