| YouTube Channel

छागलाद्यं (chAgalAdyaM)

 
शब्दकल्पद्रुमः
Sanskrit
छागलाद्यं,
क्ली,
(छागल आद्यः प्रधानो यत्र ।)छागलादिघृतम् तच्च वातरोगस्यौषधम् यथा, “आजं चर्म्मविनिर्म्मुक्तं त्यक्तशृङ्गनखादिकम् ।पञ्चमूलीद्बयञ्चैव जलद्रोणे विपाचयेत्
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरी
छागलाद्यमिदं नाम्ना सर्व्ववातविकारणुत् ।अर्दिते कर्णशूले वाधिर्य्ये मूकमिन्मिने
जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः ।अपतानेऽपतन्त्रे सर्पिरेतत् प्रशस्यते
पृथगर्द्धतुलां पञ्चमूलद्बन्द्बाजमांसयोः ।निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते
”इति स्वल्पच्छागलाद्यं घृतम्
*
घृतारर्म्भ मन्त्रः ।“ओँ कालि वज्रेश्वरि अमुकस्य फलसिद्धं देहिरुद्रवचनेन खाहा ।स्नापयित्वा छागमादौ मधु दत्त्वा ललाटके ।उदङ्मुखः प्राङ्मुखो वा भिषगेनमुपालभेत्
छागमारणमन्त्रः ।ओँ हाँ ओँ गोँ गणपतये स्वाहा ।छागमांसतुलां गृह्य दशमूल्याः पलं शतम् ।अश्वगन्धापलशतं वाट्यालकशतं तथा
घृताढकं पचेत्तोयैश्चतुर्भागावशेषितैः ।क्षीरं स्नेहसमं दद्यात् शतावर्य्या रसं तथा
ताम्रपात्रे दृढे चैव शनैर्मृ द्वग्निना पचेत् ।अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम्
जीवन्ती मधुकं द्राक्षाकाकोल्यौ नीलमुत्पलम् ।मुस्तं सचन्दनं रास्ना पर्णिनीद्वयशारिवे
मेदे द्वे तथा कुष्ठं जीवकर्षभकौ शटी ।दार्व्वी प्रियङ्गु त्रिफला नतं तालीशपद्मकौ
एलापत्रं वरीनागजातीकुसुमधान्यकम् ।मञ्जिष्ठा दाडिमं दारु रेणुकं शैलवालुकम्
विडङ्गं जीरकञ्चैव पेषयित्वा विनिक्षिपेत् ।वस्त्रपूते शीते शर्कराप्रस्थसंयुतम्
निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे ।अस्यौषधस्य सिद्धस्य शृणु वीर्य्यमतःपरम्
देवदेवं नमस्कृत्य संपूज्य गणनायकम् ।पिबेत् पाणितलं तस्य व्याधिं वीक्ष्यानु-पानतः
सर्व्वबातविकारेषु अपस्मारे विशेषतः ।उन्मादे पक्षघाते आध्माने कोष्ठनिग्रहे
कर्णरोगे शिरोरोगे वाधिर्य्ये चापतन्त्रके ।भूतोन्मादे गृध्रस्यां सोद्गारे चाक्षिपातजे
पार्श्वशूले हृच्छूले वाह्यायामार्द्दिते तथा ।वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले
क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मनि मिन्मिने ।अपतानेऽन्तरायामे रक्तपित्ते तथोर्द्ध्वगे
आनाहेऽर्शोविकारेषु चातुर्थकज्वरेऽपि ।हनुग्रहे तथा शोषे क्षीणे चैवावबाहुके
दण्डापतानके भग्ने दाहे चाक्षेपके तथा ।जीर्णज्वरे विषे कुष्ठे शेफःस्तम्भे मदात्यये
आद्यवातेऽग्निमान्द्ये वातरक्तगदेषु ।एकाङ्गरोगिणे चैव तथा सर्व्वाङ्गरोगिणे
हस्तकम्पे शिरःकम्पे जिह्वाकम्पे जडे भ्रमे ।क्षीणेन्द्रिये नष्टशुक्रे शुक्रनिःसरणे तथा
स्त्रीणां वातास्रपाते पटले चाक्षिस्पन्दने ।एकाङ्गस्पन्दने चैव सर्व्वाङ्गस्पन्दने तथा
नगादिपतिते वाते स्त्रीणामप्राप्तिहेतुके ।आभिचारिकदोषे धनसन्तापसम्भवे
ये वातप्रभवा रोगा ये पित्तसमुद्भवाः ।शिरोमध्यगता ये जङ्घापार्श्वादिसंस्थिताः
मातृग्रहाभिभूतश्च शिशुर्यश्च विशुष्यति ।प्रक्षीणबलमांसश्च वर्त्मगमनक्षमः
घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान् ।निहन्ति सकलान् रोगान् घृतं परमदुर्लभम्
रसायनं वह्निबलप्रदञ्चवपुःप्रकर्षं विदधाति रूपम् ।दन्तावलेन्द्रेण समानतेजादीर्घायुषं पुत्त्रशतं करोति
स्त्रीणां शतं गच्छति वातिरेकंन याति तृप्तिं सरसः समाङ्गः ।अपुत्त्रिणीपुत्त्रशतं करोतिशतायुषं कामसमं बलिष्ठम्
महद्घृतं नाम तु छागलाद्यंविनिर्म्मितं वातनिसूदनञ्च ।शिवं शुभं रोगभयापहञ्चचकार हारीतमुनिर्व्विशिष्टः
शृगालवर्हिणः पाके पुमांसं तत्र दापयेत् ।मयूरी जम्बुकी छागी वीर्य्यहीनाः स्वभावतः
भाषितं काशिराजेन छागमेव नपुंसकम्
”घृतम् १६ शेर क्वाथार्थं छागमांसपलम् १०० ।पाकार्थंजलं शं ६४ शेषः शं १६ विल्वादि-दशमूलं प्रपलम् १० जलं शं ६४ शेषःशं १६ अश्वगन्धा १०० पलम् जलं शं ६४ ।शेषः शं १६ वाट्यालकं १०० पलम् ।जलं शं ६४ शेषः शं १६ दुग्धं शं १६ ।शतमूलीरसः शं १६ कल्कार्थं जीवन्त्या-दीनां जीरकपर्य्यन्तानां कल्कद्रव्याणां प्रं तो ।वस्त्रपूते शीते शर्कां शं इति बृहच्छागलाद्यंघृतम् इति भैषज्यरत्नावली
(“छागमांसं तुलार्द्धं स्यात् दशमूलं तथापरम् ।तोयद्रोणे पचेद्धीमान् यावत् स्यादंशशेषितम्
तैलप्रस्थद्वयञ्चैव क्षीरञ्चैव शतावरी ।जीवनीयं समधुकं बला रास्ना शैलजम्
मांसीस्याद्धेमतालीशनालुकाघनवालुकम् ।पृथक् पृथक् समादाय सर्व्वमेकत्र साधयेत्
मञ्जिष्ठालोध्रलाक्षा प्रत्येकं कुडवान्वितम् ।आढकञ्च जलञ्चैव विधिना विपाचयेत्
छागलाद्यमिदं तैलं हारीतेन महात्मना ।पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते ।सर्व्वज्वरगदं हन्ति सन्धिमज्जास्थिजन्तथा
”इति छागलाद्यं तैलम्
इति वैद्यकस्नेहमालिकायां वातरोगाधिकारे
)