छर्द्दिः (charddiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritछर्द्दिः, (छर्द्दयत्यनेनेति । छर्द्द वमने +इन् ।) वमिरोगः । वाँति इति भाषा ॥
तत्-पर्य्यायः । प्रच्छर्द्दिका २ छर्द्दम् ३ वमथुः ४वमनम् ५ वमिः ६ । इति हेमचन्द्रः । ३ । ३३ ॥
छर्द्दिका ७ छर्द्दीका ८ वान्तिः ९ उद्गारः १० ।इति राजनिर्घण्टः ॥
उत्कासिका ११ छर्द्द-नम् १२ । इति शब्दरत्नावली ॥
तस्या निदा-नादि यथा, --“दुष्टैर्दोषैः पृथक्सर्व्वैर्वीभत्सालोकनादिभिः ।छर्द्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति ।अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः ।श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः ।नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥
वीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ।छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ॥
निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥
”तस्याः पूर्व्वरूपं यथा, --“हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः ।भृशं द्वेषोऽन्नपाने च वमीनां पूर्व्वलक्षणम् ॥
”वातजायास्तस्या रूपं यथा, --“हृत्पार्श्वपीडामुखशोषशीर्ष-नाभ्यर्त्तिकासस्वरभेदतोदैः ।उद्गारशब्दप्रबलं सफेनंविच्छिन्नकृष्णं तनुकं कषायम् ॥
कृच्छ्रेण चाल्पं महता च वेगे-नार्त्तोऽनिलाच्छर्द्दयतीह दुःखम् ॥
”तस्याः पित्तजाया रूपं यथा, --“मूर्च्छा पिपासा मुखशोषमूर्द्ध-ताल्वक्षिसन्तापतमोभ्रमार्त्तः ।पीतं भृशोष्णं हरितं सतिक्तंधूम्रञ्च पित्तेन वमेत् सदाहम् ॥
”तस्याः श्लेष्मजाया रूपं यथा, --“तन्द्रास्यमाधुर्य्यकफप्रसेक-सन्तोषनिद्रारुचिगौरवार्त्तः ।स्निग्धं घनं स्वादु कफाद्बिशुद्धंसलोमहर्षोऽल्परुजं वमेच्च ॥
”तस्यास्त्रिदोषजाया रूपं यथा, --“शूलाविपाकारुचिदाहतृष्णा-श्वासप्रमोहप्रबलाप्रसक्तम् ।छर्द्दिस्त्रिदोषाल्लवणाम्लनील-सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥
”असाध्याया लक्षणं यथा, --“विट्स्वेदमूत्राम्बुवहानि वायुःस्रोतांसि संरुध्य यदोर्द्ध्वमेति ।उत्सन्नदोषस्य समाचितं तंदोषं समूद्धूय नरस्य कोष्ठात् ॥
विण्मूत्रयोस्तत्समगन्धवर्णंतृट्श्वासकासार्त्तियुतं प्रसक्तम् ॥
प्रच्छर्द्दयेद्दुष्टमिहातिवेगा-त्तयार्द्दितश्चाशु विनाशमेति ॥
”आगन्तुजाया लक्षणं यथा, --“वीभत्सजा दौर्हृदजामजा तुअसात्म्यजा या क्रिमिजा च या हि ।सा पञ्चमी ताञ्च विभावयेच्चदोषोच्छ्रयेणैव यथोक्तमादौ ॥
”क्रिमिजाया लक्षणं यथा, --“शूलहृल्लासबहुला क्रिमिजा च विशेषतः ।क्रिमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ॥
क्षीणस्य या च्छर्द्दिरतिप्रसक्तासोपद्रवा शोणितपूययुक्ता ।सचन्द्रिकां तां प्रवदेदसाध्यांसाध्याञ्चिकित्सेन्निरुपद्रवाञ्च ॥
”तस्या उपद्रवा यथा, --“कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्य-मेव च ।हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्द्देरुपद्रवाः ॥
”इति माधवकरः ॥
तस्यौषधं यथा, गारुडे १८७ अध्याये ।“अश्वगन्धाभया चैव उदकेन समं पिबेत् ।हरीतकीकुष्ठचूर्णं कृत्वा आस्यञ्च पूरयेत् ॥
शीतं पीत्वाथ पानीयं सर्व्वच्छर्द्दिनिवारणम् ।गुडूचीपद्मकारिष्टधन्याकं रक्तचन्दनम् ॥
पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥
”अपिच ।“विल्वमूलञ्च समधु गुडू चीक्वथितं जलम् ।पीतं हरेच्च त्रिविधां छर्द्दिं वै नात्र संशयः ॥
पीता दूर्व्वा च्छर्द्दिं नश्येत् पिष्टा तण्डुलवारिणा ॥
”इति च गारुडे १९४ अध्यायः ॥
* ॥
अथ छर्द्देश्चिकित्सा ।“आमाशयोत्क्लेशभवा हि सर्व्वा-श्छर्द्द्यो मता लङ्घनमेव तस्मात् ।विधीयते मारुतजां विना तुसंशोधनं वा कफपित्तहारि ॥
”अत्र च्छर्द्दीशब्दः ।“हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भवाम् ।मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥
क्षीरोदकं नाशितस्य क्षीरस्योदकम् ।गुडू चीत्रिफलानिम्बपटोलैः क्वथितं जलम् ।पिबेत् मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥
हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् ।अधोमार्गीकृते दोषे छर्द्दिः शीघ्रं निवर्त्तते ॥
विडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् ।विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥
प्लवं कैवर्त्तीमुस्तं गुडतजी इति लोके ।पिष्ट्वा धात्रीफलं लाजान् शर्कराञ्च पलोन्मितान् ।दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च ॥
वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोषजाम् ।गुडू च्या रचितं हन्ति हिमं मधुसमन्वितम् ॥
दुर्निवारामपि छर्द्दिं त्रिदोषजनितां बलात् ॥
एलालवङ्गगजकेशरकोलमज्जा-लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् ।चूर्णानि माक्षिकसितासहितादि लीढ्वाछर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥
इति एलादिचूर्णम् ॥
अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वापितं जले ।तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥
यथा त्रिकटुधान्याकजीरकाणां रजो लिहन् ।मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥
विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः ।छर्द्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥
आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः ।निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥
निर्यहः क्वाथः ।जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् ।शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति-मुग्राम् ॥
वीभत्सजां हृद्यतमैरिष्टैर्द्दौर्हृदजां फलैः ।लङ्घनैरामजां छर्द्दिं जयेत् सात्म्यै रसात्मजाम् ॥
कृमिहृद्रोगवद्धन्याद्वमिं कृमिसमुद्भवाम् ।तत्र तत्र यथा दोषं क्रियां कुर्य्याच्चिकित्सकः ॥
इति छर्द्द्यधिकारः ।” इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
