| YouTube Channel

छर्द्दि (charddi)

 
वाचस्पत्यम्
Sanskrit
छर्द्दि स्त्री छर्दयति छर्द--हेतौ णिच--इन् वमनरोगेतन्निरुक्तिनिदानादि सुश्रुते उक्तं यथा ।“अथातश्छर्द्दिप्रतिषेधमध्याय व्याख्यास्यामः अति-द्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि अकाले चातिमात्रैश्च त-थाऽसात्म्यैश्च भोजनैः श्रमात् क्षयात्ययोद्वेगादजीर्णा०त्कृमिदोषतः नार्य्याश्चापन्नसत्वायास्तथाऽतिद्रुतमश्नतः ।बीभत्सैहतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् छादय-न्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः निरुच्यते छर्दिरितिदोषो वक्त्रं प्रधावितः दोषानुदीरयन् वृद्धानुदानोव्यानसङ्गतः ऊर्द्ध्वमागच्छति भृशं विरुद्धाहारसेविनाम् ।हृल्लासोद्गाररोधौ प्रसेको लवणस्तनुः द्वेषोऽन्न-पाने भृशं वमीनां पूर्व्वलक्षणम् प्रच्छर्द्दयेत् फेनिल-मल्पमल्पं शूलार्द्दितोऽभ्यर्द्दितपार्श्वपृष्ठः श्रान्तः स-घोषं बहुशः कषायं जीर्णेऽधिवं साऽनिलजा वमिस्तु ।योऽम्लं भृश वा कटुतिक्तवक्त्रे पीतं सरक्तं हरितंवमेद्वा सदाहचोषज्वरवक्त्रशोषमूर्च्छान्विता पित्तनि-सित्तजा सा यो हृष्टरोमा मधुर पू० तं शुक्लं हिमंसान्द्रकफानुविद्धम अभक्तरुग्गौरवसादयुक्तोवमेद्वमीसा कफकोपजा स्यात् सर्व्वाणि रूपाणि भवन्तियस्यां सा सर्व्वदोषप्रभवा मता तु बीभत्सजा दौर्हृद-जाऽऽमजा याऽसात्म्यतोवा कृमिजा या हि सापञ्चमी ताश्च विभावयेत्तु दोषोच्छयणैव यथोक्तमादौ ।आमाशयोत्क्लेशभवाश्च सर्व्वास्तस्माद्धितं लङ्गनमेवतासु शूलहृक्कासबहुला कृमिजा विशेषतः कृमि-हृद्रोगतुल्येन लक्षणेन लक्षिता क्षीणम्योपद्रवैर्युक्तांसासृक्पूयां सतन्द्रिकाम् छर्दिं प्रसक्तां कुशलो नार-भेत चिकित्सितुम् वमीषु बहुदोषासु छर्दनं हित-मुच्यते विरेचनं वा कुर्व्वीत यथादोषोच्छ्रयं भिषक् ।संसर्गांश्चानुपूर्व्वेण यथास्वं भषजाय तान् लघूनिपरिशुष्काणि सात्म्यान्यन्नानि वाऽऽचरेत् यथास्वञ्चकषायाणि ज्वरघ्नानि प्रयोजयेत्” ।“कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव ।हृद्रीगस्तमकश्चैव ज्ञेयाश्छद्र्देरुपद्रवाः” इति माधवकरः ।वा ङीप् तत्रार्थे “आमाशयोत्क्लेशभवा हि सर्व्वाच्छ-र्दोमता लङ्घनमेव तस्मात्” सुत्रुतः