| YouTube Channel

छम्यम् (chamyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“छमु अदने”@} 2 मित्।
3 4 छमकः-मिका, 5 छमकः-मिका, 6 चिच्छमिषकः-षिका, 7 चञ्छमकः-चंछमकः-मिका
छमिता-त्री, छमयिता-त्री, चिच्छमिषिता-त्री, चञ्छमिता-त्री
छमन्-न्ती, 8 छमयन्-न्ती, चिच्छमिषन्-न्ती
-- छमिष्यन्-न्ती-ती, छमयिष्यन्-न्ती-ती, चिच्छमिषिष्यन्-न्ती-ती
-- -- -- चञ्छम्यमानः, चञ्छमिष्यमाणः
9 प्रच्छान्-प्रच्छामौ-प्रच्छामः
-- -- -- 10 छान्तम् 11 -छान्तः-छान्तवान्, छमितः, चिच्छमिषितः, चञ्च्छमितः-तवान्
छमः, छमः, चिच्छमिषुः, चञ्छमः
-- छमितव्यम्, छमयितव्यम्, चिच्छमिषितव्यम्, चञ्छमितव्यम्
छमनीयम्, छमनीयम्, चिच्छमिषणीयम्, चञ्छमनीयम्
12 छम्यम्, छम्यम्, चिच्छमिष्यम्, चञ्छम्यम्
ईषच्छमः-दुश्छमः-सुच्छमः
-- -- -- छम्यमानः, छम्यमानः, चिच्छमिष्यमाणः, चञ्छम्यमानः
13 छमः, छमः, चिच्छमिषः, चञ्छमः
छमितुम्, छमयितुम्, चिच्छमिषितुम्, चञ्छमितुम्
14 छान्तिः, छमना, चिच्छमिषा, चञ्छमा
छमनम्, छमनम्, चिच्छमिषणम्, चञ्छमनम्
15 छमित्वा-छान्त्वा, छमयित्वा, चिच्छमिषित्वा, चञ्छमित्वा
प्रच्छम्य, 16 प्रच्छमय्य, प्रचिच्छमिष्य, प्रचञ्छम्य
छमम् २, छमित्वा २, छान्त्वा २, 17 छमम् २, छामम् २, छमयित्वा २, चिच्छमिषम् २, चिच्छमिषित्वा २, चञ्छमम्
चञ्छमित्वा २।
प्रासङ्गिक्यः
01
=>
(५६४)
02
=>
(१-भ्वादिः-४७०। सक। सेट्। पर।)
03
=>
[पृष्ठम्०५३८+ २७]
04
=>
[[१। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति, उपधावृद्धेर्निषेधः। एवम् घञि णमुल्यपि ज्ञेयम्।]]
05
=>
[[२। णौ परतः, ‘अत उपधायाः’ (७-२-११६) इति वृद्धौ सत्याम्, अमन्तत्वेन धातोः, ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादौ) इति मित्त्वेन, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। एवं ण्यन्ते सर्वत्र प्रक्रिया बोध्या।]]
06
=>
[[३। सनि, द्वित्वे, अभ्यासावयवस्य ह्रस्वस्य, ‘छे च’ (६-१-७३) इति तुगागमः। एवं, सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
07
=>
[[४। यङि, द्वित्वे, अभ्यासस्य, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया। परसवर्णविकल्पनाद् रूपद्वयम्।]]
08
=>
[[५। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्ताच्छतैव, तु शानच्।]]
09
=>
[[६। क्विपि, ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इत्युपधादीर्घे, ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नत्वम्।]]
10
=>
[[७। उदित्त्वेन, क्त्वायामिड्विकल्पनात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामि- ण्णिषेधः। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘नश्चापदान्तस्य झलि’ (८-३-२४) इति अनुस्वारे, ‘अनुस्वारस्य ययि परसवर्णः’ (८-४-५८) इति परसवर्णः।]]
11
=>
[[आ। ‘चान्तामिषश्छान्तजलः फलावलीं जान्त्वा झमञ्जेमनमक्रमीद्गुहाम्।।’ धा। का। १-६०।]]
12
=>
[[८। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
13
=>
[पृष्ठम्०५३९+ २१]
14
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधः। दीर्घे, अनुस्वारे, परसवर्णे रूपम्।]]
15
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयम्।]]
16
=>
[[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
17
=>
[[४। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]