| YouTube Channel

छन्दश्चिति (chandazciti)

 
वाचस्पत्यम्
Sanskrit
छन्दश्चिति स्त्री त० छन्दसां समूहे तत्र छन्दोभेदेएकादिगुरुज्ञानाय करणसूत्रं लीला० उक्तं यथा“छन्दश्चित्यादौ करणसूत्रं श्लोकत्रयम् “एकाद्येकोत्त-राअङ्का व्यस्ता भाज्याः क्रमस्थितैः परः पूर्वेण सङ्गु-ण्यस्तत्परस्तत्परेण
एकद्वित्र्यादिभेदाः स्युरिदंसाधारणं स्मृतम् छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्यतद्विदाम्
मूषावहनभेदादौ खण्डमेरौ शिल्पके ।वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात् तत्र छन्दश्चि-त्युत्तरे किञ्चिदुदाहरणम् “प्रस्तारे मित्र! गायत्र्याःस्युः पादे व्यक्तयः कति एकादिगुरवश्चाशु कथ्यतांतत्पृथक् पृथक् इह हि षडक्षरगायत्रीचरणःअतः षडन्तानां एकाद्येकोत्तराङ्गाणां व्यस्तानां क्रमस्थानाञ्च न्यासः६ ११ ६६ १५ २० १५ यथोक्तकरणेन लब्धाःएकगुरुव्यक्तयः द्विगुरवः १५ त्रिगुरवः २० ।चतुर्गुरवः १५ पञ्चगुरवः षड्गुरवः ।१ तथैका सर्व्वलघुः एवमासामैक्यंपादव्यक्तिगितिः ६४ एवञ्चतुश्चरणाक्षरसङ्ख्यकान-ङ्कान् यथोक्तं विन्यस्य एकादिगुरुभेदानानीयतान् सैकानेकीकृत्य जाता गायत्रीवृत्तव्यक्तिसङ्ख्या ।१६७७७२१६ एवमुक्थाद्युत्कृतिपर्य्यन्तं छन्दसांव्यक्तिमितिर्ज्ञातव्या” ।अधिकं प्रस्तावशब्दे मर्कटीजालशब्दे मेरुशब्दे पता-काशब्दे दृश्यम्