| YouTube Channel

छन्दःपर्ण्ण (chandaHparNNa)

 
वाचस्पत्यम्
Sanskrit
छन्दःपर्ण्ण
पु०
छन्दांसि वेदविहितकर्म्माणि पर्ण्णानीव यस्य ।मायामये संसारे “छन्दांसि यस्य पर्ण्णानि यस्तं वेद सवेदवित्” गीता छन्दांसि छादनात् तत्त्ववस्तुप्रावरणात्संसारवन्धनादीनि कर्म्माणि ऋग्यजुःसामवेदविहितानिपर्ण्णानीव यस्य यथा वृक्षस्य छादनार्थानि रक्षणार्थानि चपर्णानि एवं धर्म्माधर्म्मोपार्ज्जनेन कर्म्मभिः संसारवृक्षोरक्ष्यते इति तस्य तथात्वम्