| YouTube Channel

छन्दः (chandaH)

 
Monier Williams Cologne
English
छन्दः in comp. for °दस्
Apte Hindi
Hindi
छन्दः
पुं*
- छन्द्-घञ्
"कामना, इच्छा, कल्पना, चाह, अभिलाषा"
छन्दः
पुं*
- -
"स्वतन्त्र इच्छा, अपनी छाँट, मन कि मौज, कामचार, स्वतन्त्र या इच्छानुकूल आचरण"
छन्दः
पुं*
- -
"वश्यता, नियन्त्रण"
छन्दः
पुं*
- -
"मतलब, इरादा, आशय"
छन्दः
पुं*
- -
जहर
Wordnet
Sanskrit
Synonyms:
छन्दः
noun
वर्णमात्रादीनां गणनायाः आधारेण काव्यस्य रचना।
"दोहा, सोरठा, चौपाई इत्येते छन्दसः प्रकाराः सन्ति।"
Synonyms:
मतम्, अभिप्रायः, सम्मतिः, दृष्टिः, बुद्धिः, पक्षः, भावः, मनः, धी, मतिः, आकुतम्, आशयः, छन्दः
noun
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
"सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।"
Synonyms:
श्रुतिः, आम्नायः, छन्दः, ब्रह्म, निगमः, प्रवचनम्
noun
तानि वेदवाक्यानि यैः यज्ञादीनि विधीयन्ते।
"प्राचीने काले श्रुतीनां विविधप्रकारकं पठनं क्रियते स्म।"
Synonyms:
वेदः, निगमः, श्रुतिः, आगमः, आम्नायः, छन्दः, ब्रह्म
noun
आर्याणां प्रधानः तथा सर्वमान्यः धर्मग्रन्थः।
"चत्वारः वेदाः सन्ति।"
Synonyms:
इच्छा, आकाङ्क्षा, वाञ्छा, दोहदः, स्पृहा, ईहा, तृट्, लिप्सा, मनोरथः, कामः, अभिलाषः, तर्षः, रुक्, इषा, श्रद्धा, तृष्णा, रुचिः, मतिः, दोहलम्, छन्दः, इट्
noun
मनोधर्मविशेषः।
"निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि।।"
शब्दकल्पद्रुमः
Sanskrit
छन्दः,
पुं,
(छन्द्यते इति छन्द + भावे घञ् ।)अभिप्रायः (यथा, रामायणे ।“मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ! ।श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम्
”)वशः इत्यमरः ८८
अभिलाषः इतिभरतः
विषम् इति शब्दचन्द्रिका
रहसित्रि इत्यमरटीकासारसुन्दरी
छन्दः, [स्]
क्ली,
(चन्दयति आह्लादयतिचन्द्यतेऽनेन वा चदि आह्लादे + “चन्देरा-देश्च छः ।” उणां २१८ इति असुन्चस्य छश्च ।) वेदः (यथा, रघुः ११ ।“आसीन्महीक्षितामाद्यः प्रणवच्छन्दसामिव
”)स्वैराचारः अभिलाषः (यथा, महाभारते ।१२ २०१ १२ ।“कामात्मकाश्छन्दसि कर्म्मयोगाएभिर्व्विमुक्तः परमश्नुवीत
”)पद्यम् इति मेदिनी से, २२
अस्य लक्षणंयथाह गङ्गादासः ।“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।समं समचतुष्पादं भवत्यर्द्धसमं पुनः
आदिस्तृतीयवद्यस्य पादस्तुर्य्यो द्वितीयवत् ।भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्
”एषामर्थः अक्षरसंख्यातं अक्षरगणनया परि-प्राप्तं वृत्तमुच्यते मात्राकृता मात्रागणनयानिर्णीता जातिर्जातिसंज्ञिका भवति समंसमचतुष्पादम् अर्द्धसमं यस्य प्रथमः पादःतृतीयेन पादेन तुल्यः चतुर्थः पादो द्वितीयेनपादेन तुल्यः विषमं पृथक्लक्षणचतुष्पादम्
(तत्र समवृत्तन्तु उक्थादिसंज्ञाभेदेन षड्-विंशतिप्रकारकम् यदुक्तं छन्दोमञ्जर्य्याम् ।“आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्द्धितैः ।पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम्
उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू-र्ब्बिका ।गायत्त्र्युष्णिगनुष्टुप् बृहती पङ्क्तिरेव
त्रिष्टुप् जगती चैव तथातिजगती मता ।शर्करी सातिपूर्व्वा स्थादष्ट्यत्यष्टी तथा स्मृते
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः
”छन्दोलक्षणोपयोगिगणास्तु दश यदुक्तं तत्रैव-“म्यरस्तजैभ्नगैर्लान्तैरेभिदशभिरक्षरैः ।समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना
मस्त्रिगुरुस्त्रिलघुश्च नकारोभादिगुरुः पुनरादिलघुर्यः ।जो गुरुमध्यगतो रलमध्यःसोऽन्तगुरुः कथितोऽन्तलघुस्तः
गुरुरेको गकारस्तु लकारो लघुरेककः ।क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा
”म ऽऽऽ,
।, ऽ॥
, ।ऽऽ, ।ऽ।, ऽ।ऽ,
ऽ, ऽऽ।, ऽ, ।)छन्दस्तु नानाविधम् तस्य ग्रन्थाः छन्दो-विचितिपिङ्गलच्छन्दोमञ्जरीवृत्तरत्नाकरश्रुत-वोधादयः सन्ति तेषु छन्दोमञ्जर्य्याद्युक्तलक्षणोदाहरणादीनि लिख्यन्ते
छन्दसां वृत्तिनामानि ।एकाक्षरा वृत्तिः उक्था ।श्रीःद्ब्यक्षरा वृत्तिः अत्युक्था ।स्त्रीत्र्यक्षरा वृत्तिः मध्या ।नारीमृगीचतुरक्षरा वृत्तिः प्रतिष्ठा ।कन्यासतीपञ्चाक्षरा वृत्तिः सुप्रतिष्ठा ।पङ्क्तिःप्रियाषडक्षरा वृत्तिः गायत्त्री ।तनुमध्याशशिवदनासोमराजीविद्युल्लेखावसुमतीसप्ताक्षरा वृत्तिः उष्णिक् ।मधुमतीकुमारललितामदलेखाहंसमालाअष्टाक्षरा वृत्तिः अनुष्टुप् ।चित्रपदामाणवकम्माणवकक्रीडमिति केचित् ।विद्युन्मालासमानिकाप्रमाणिकानगस्वरूपिणी इति कुत्रापि ।गजगतिःहंसरुतम्नाराचिकानवाक्षरा वृत्तिः बृहती ।भुजगशिशुभृताभृतेत्यत्र सृतेति युतेति केचित् ।छन्दसां लक्षणगणाः ।ग्श्री ऽगौ स्त्री ऽ, ऽमो नारी ऽऽऽरो मृगी ऽ।ऽग्मौ चेत् कन्या ऽ, ऽऽऽनगि सती
।, ऽभ्गौ गिति पङ्क्तिः ऽ॥
, ऽ, ऽसलगैः प्रिया
ऽ, ।, ऽत्यौ चेत् तनुमध्या ऽऽ।, ।ऽऽशशिवदना न्यौ
।, ।ऽऽद्विया सोमराजी ।ऽऽ, ।ऽऽविद्यल्लेखा मो मः ऽऽऽ, ऽऽऽत्सौ चेद् वसुमती ऽऽ।,
ऽननगि मधुमती
।,
।, ऽकुमारललिता ज्स्गाः ।ऽ।,
ऽ, ऽमस्गौ स्यात् मदलेखा ऽऽऽ,
ऽ, ऽसरगैर्हंसमाला
ऽ, ऽ।ऽ, ऽचित्रपदा यदि भौ गौ ऽ॥
, ऽ॥
, ऽ, ऽभात्तलगा माणवकम् ऽ॥
, ऽऽ।, ।, ऽमो मो गो गो विद्युन्माला ऽऽऽ, ऽऽऽ, ऽ, ऽग्लौ रजौ समानिका तु ऽ, ।, ऽ।ऽ, ।ऽ।प्रमाणिका जरौ लगौ ।ऽ।, ऽ।ऽ, ।, ऽनभलगा गजगतिः
।, ऽ॥
, ।, ऽम्नौ गौ हंसरुतमेतत् ऽऽऽ,
।, ऽ, ऽनाराचिका तरौ लगौ ऽऽ।, ऽ।ऽ, ।, ऽभुजगशिशुभृता नौ मः
।,
।, ऽऽऽछन्दसामुदाहरणानि ।श्रीस्ते सास्ताम्
गोपस्त्रीभिः कृष्णो रेमे
गोपानां नारीभिः श्लिष्टोऽव्यात् कृष्णो वः
सा मृगीलोचना राधिका श्रीपतेः
भास्वत्कन्या सैका धन्या यस्याः कूले कृष्णोऽस्वेलत्
मुररिपो ! तव पदम् नमति सा ननु सती
कृष्णसनाथा तर्णकपङ्क्तिः यामुनकच्छे चारु चचार
व्रजसुभ्रुवो विलसत्कलाः अभवन् प्रिया मुरवैरिणः
मूर्त्तिर्मुरशत्रोरत्यद्भुतरूपा ।आस्तां मम चित्ते नित्यं तनुमध्या
शशिवदनानां व्रजतरुणीनाम् ।अधरसुधोर्म्मिं मधुरिपुरैच्छत्
हरे ! सोमराजीसमा ते यशःश्रीः ।जगन्मण्डलस्य च्छिनत्त्यन्धकारम्
रविदुहितृतटे नवकुसुमततिः ।व्यधित मधुमती मधुमथनमुदम्
मुरारितनुवल्ली कुमारललिता सा ।व्रजैणनयनानां ततान मुदमुच्चैः
रङ्गे बाहुविलग्नाद्दन्तीन्द्रान्मदलेखा ।लग्नाभून्मुरशत्रौ कस्तूरीरसचर्च्चा
यामुनसैकतदेशे गोपवधूजलकेलौ ।कंसरिपोर्गतिलीला चित्रपदा जगदव्यात्
चञ्चलचूडञ्चपलैर्वत्सकुलैः केलिपरम् ।ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम्
वासो वल्लीविद्युन्माला वर्हश्रेणी शाक्रश्चापः ।यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः
यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म ।धीः समानिका परेण नोचितात्र मत्सरेण
पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः ।श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका
रविसुतापरिसरे विहरतो दृशि हरेः ।व्रजबधूगजगतिमुदमलं व्यतनुत
ह्रदतटनिकटक्षौणी भुजगशिशुभृता यासीत् ।मुररिपुदलिते नागे व्रजजनसुखदा साभूत्
छन्दसां वृत्तिनामानि ।मणिमध्यम्भुजङ्गसङ्गताहलमुखीभद्रिकादशाक्षरा वृत्तिः पङ्क्तिः ।रुक्मवतीरूपवती क्वचित् चम्पकमालाइति क्वापि ।मत्तात्वरितगतिःमनोरमाशुद्धविराट्पणवम्मयूरसारिणीउपस्थितादीपकमालाहंसीएकादशाक्षरा वृत्तिः त्रिष्टुप् ।इन्द्रवज्राउपेन्द्रवज्राउपेन्द्रवज्राया इन्द्रवज्रायाश्चचरणघटिता उपजातयः ताश्चचतुर्व्वर्णप्रस्तारभेदादाद्यन्त्यौ त्यक्त्राचतुर्द्दशप्रकारा भवन्ति ।सुमुखीशालिनीअस्याश्चतुर्थे ततः सप्तमे यतिः ।वातोर्म्मीभ्रमरविलसिताभ्रमरविलसितमिति केचित् ।अनुकूलारथोद्धतास्वागताछन्दसां लक्षणगणाः ।स्यान्मणिमध्यं चेत् भमसाः ऽ॥
, ऽऽऽ,
ऽसजरैर्भुजङ्गसङ्गता
ऽ, ।ऽ।, ऽ।ऽरान्नसाविह हलमुखी ऽ।ऽ,
।,
ऽभद्रिका भवति रो नरौ ऽ।ऽ,
।, ऽ।ऽरुक्मवती सा यत्र भमस्गाः ऽ॥
, ऽऽऽ,
ऽ, ऽज्ञेया मत्ता मभसगसृष्ट ऽऽऽ, ऽ॥
,
ऽ, ऽत्वरितगतिश्च नजनगैः
।, ।ऽ।,
।, ऽनरजगैर्भवेन्मनोरमा
।, ऽ।ऽ, ।ऽ।, ऽम्सौ ज्गौ शुद्धविराडिदं मतम् ऽऽऽ,
ऽ, ।ऽ।, ऽम्नौ य्गौ चेति पणवनामेदम् ऽऽऽ,
।, ।ऽऽ, ऽर्जौ रगौ मयूरसारिणी स्यात् ऽ।ऽ, ।ऽ।, ऽ।ऽ, ऽतो जौ गुरुणेयमुपस्थिता ऽऽ।, ।ऽ।, ।ऽ।, ऽदीपकमाला भ्मौ मता जगौ ऽ॥
, ऽऽऽ, ।ऽ।, ऽज्ञेया हंसी मभनगयुता ऽऽऽ, ऽ॥
,
।, ऽस्यादिन्द्रवज्रा यदि तौ जगौ गः ऽऽ।, ऽऽ।, ।ऽ।, ऽ, ऽउपेन्द्रवज्रा जतजास्ततो गौ ।ऽ।, ऽऽ।, ।ऽ।, ऽ, ऽअनन्तरोरितलक्ष्मभाजौपादौ यदीयावुपजातयस्ताः ।इत्थं किलान्यास्वपि मिश्रितासुवदन्ति जातिष्विदमेव नाम
नजजलगैर्गदिता सुमुखी
।, ।ऽ।, ।ऽ।, ।, ऽमात्तौ गौ चेत् शालिनी वेदलोकैःऽऽऽ, ऽऽ।, ऽऽ।, ऽ, ऽवातोर्म्मीयं गदिता म्भौ तगौ गःऽऽऽ, ऽ॥
, ऽऽ।, ऽ, ऽमो गो नौ गो भ्रमरविलसिता ऽऽऽ, ऽ,
।,
।, ऽस्यादनुकूला भतनगगाश्चेत् ऽ॥
, ऽऽ।,
।, ऽ, ऽरात् परैर्नरलगै रथोद्धता ऽ।ऽ,
।, ऽ।ऽ, ।, ऽस्वागता रनभगैर्गुरुणा ऽ।ऽ,
।, ऽ॥
, ऽ, ऽछन्दसामुदाहरणानि ।कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा ।चित्रपदाभो नन्दसुतश्चारु ननर्त्त स्मेरमुखः
तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता ।कथमेतु वत्सचारकश्चपलः सदैव तां हरिः
कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंशद्बिषि भक्तिः ।राज्यपदे हर्म्म्यालिरुदारा रुक्मवती विघ्नः खलु तस्य
पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्जे ।उद्दीव्यन्तीर्व्रजजनरामाः कामासक्ता मधुजिति चक्रे
त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता ।मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता
तरणिजातटे विहारिणी व्रजविलासिनी विलासतः ।मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा
गोष्ठे गिरिं सव्यकरेण धृत्वा रुष्टेन्द्रवज्राहतियुक्तवृष्टौ ।यो गोकुलं गोपकुलञ्च सुस्थं चक्रे नोरक्षतु चक्रपाणिः
उपेन्द्रवज्रादिमणिच्छटाभिर्विभूषणानां छुरितं वपुस्ते ।स्मरामि गोपीभिरुपास्यमानं सुरद्रुमूले मणिमण्डपस्थम्
तरणिसुतातटकुञ्जगृहे वदनविधुस्मितदीधितिभिः ।तिमिरमुदस्य मुखं सुमुखी हरिमवलोक्य चुचुम्ब चिरम्
अंहो हन्ति ज्ञानवृद्धिं विधत्ते धर्म्मं घत्ते काममर्थञ्च सूते ।मुक्तिंदत्ते सर्व्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः
ध्याता मूर्त्तिः क्षणमप्यच्युतस्यश्रेणी नाम्नां गदिता हेलयापि ।संसारेऽस्मिन् दुरितं हन्ति पुंसांवातोर्म्मीपोतमिवाम्भोधिमध्ये
मुग्धे ! मानं परिहर चिरात्तारुण्यन्ते सफलयतु हरिः ।फुल्लावल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम्
वल्लववेशा मुररिपुमूर्त्तिर्गोपमृगाक्षीकृतरतिपूर्त्तिः ।वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति कस्य
राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैरथोद्धता ।यामुनं तटनिकुञ्जमञ्जसा सा जगामसलिलाहृतिच्छलात्
यस्य चेतसि सदा मुरवैरी वल्लवीजनविलासविलोलः ।तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः
छन्दसां वृत्तिनामानि ।दोधकम्मोटनकम्श्येनीश्येनिका इति क्वचित् ।श्रीःवृत्ताभद्रिकामौक्तिकमालाउपस्थितम्उपचित्रम्कुपुरुषजनिताअनवसिताविध्वङ्कमालासान्द्रपदम्शिखण्डितम्द्वादशाक्षरा वृत्तिः जगती ।चन्द्रवर्त्मवंशस्थविलम्वंशस्तनितमिति क्वापि ।इन्द्रवंशावंशस्थविलेन्द्रवंशचरणोभयघटिता-श्चतुर्व्वर्णप्रस्तारीयाद्यन्तव्यतिरिक्त-चतुर्द्दशप्रकारा उपजातयो भवन्ति ।जलोद्धतगतिःभुजङ्गप्रयातम्तोटकम्स्रग्विणीवैश्वदेवीछन्दसां लक्षणगणाः ।दोधकमिच्छति भत्रितयाद्गौ ऽ॥
, ऽ॥
, ऽ॥
, ऽ, ऽस्यान्मोटनकं तजजाश्च लगौ ऽऽ।, ।ऽ।, ।ऽ।, ।, ऽश्येन्युदीरिता रजौ रलौ गुरुः ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।, ऽबाणरसैः स्यात् भतनगगैः श्रीः ऽ॥
, ऽऽ।,
।, ऽ, ऽननसगगुरुरचिता वृत्ता
।,
।,
ऽ, ऽ, ऽननरलगुरुभिश्च भद्रिका
।,
।, ऽ।ऽ, ।, ऽमौक्तिकमाला यदि भतनात् गौ ऽ॥
, ऽऽ।,
।, ऽ, ऽउपस्थितमिदं ज्सौताद् गकारौ ।ऽ।,
ऽ, ऽऽ।, ऽ, ऽउपचित्रमिदं सससाल्लगौ
ऽ,
ऽ,
ऽ, ।, ऽकुपुरुषजनिता ननौ र्गौ गः
।,
।, ऽ।ऽ, ऽ, ऽअनवसिता न्यौ भ्गौ गुरुरन्ते
।, ।ऽऽ, ऽ॥
, ऽ, ऽविध्वङ्कमाला भवेत्तौ तगौ गः ऽऽ।, ऽऽ।, ऽऽ।, ऽ, ऽसान्द्रपदं स्याद्भतनगलैश्च ऽ॥
, ऽऽ।,
।, ऽ, ।शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत्।ऽ।,
ऽ, ऽऽ।, ऽ, ऽचन्द्रवर्त्म निगदन्ति रनभसैः ऽ।ऽ,
।, ऽ॥
,
ऽवदन्ति वंशस्थविलं जतौ जरौ ।ऽ।, ऽऽ।, ।ऽ।, ऽ।ऽस्यादिन्द्रवंशा ततजैरसंयुता ऽऽ।, ऽऽ।, ।ऽ।, ऽ।ऽजसौ जसयुतौ जलोद्धतगतिः ।ऽ।,
ऽ, ।ऽ।,
ऽभुजङ्गप्रयातं चतुर्भिर्यकारैः ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽवद तोटकमब्धिसकारयुतम्
ऽ,
ऽ,
ऽ,
ऽकीर्त्तितैषा चतूरेफिका सग्विणीऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽबाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौऽऽऽ, ऽऽऽ, ।ऽऽ, ।ऽऽछन्दसामुदाहरणानि ।देव ! सदोधकदम्बतलस्थ ! श्रीधर ! तारकनामपदं मे ।कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम्
रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम् ।यः केलिलवेन चकार मे संसाररिपुं प्रतिमोटयतु
यस्य कीर्त्तिरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा ।जाह्नवीवविश्वबन्द्यविभ्रमा तं भजामि भावगम्यमच्युतम्
चन्द्रवर्त्म पिहितं घनतिमिरै राजवर्त्म रहितं जनगमनैः ।इष्टवर्त्म तदलङ्कुरु सरसे ! कुञ्जवर्त्मनि हरिस्तव कुतुकी
विलासवंशस्थविलं मुखानिलैःप्रपूर्य्य यः पञ्चमरागमुद्गिरन् ।व्रजाङ्गनानामपि गानशालिनांजहार मानं हरिः पुनातु नः
दैत्येन्द्रवंशाग्निरुदीर्णदीधितिःपीताम्बरोऽसौ जगतीतमोहरः ।यस्मिन् ममज्जुः शलभा इव स्वयंते कंसचाणूरमुखा मखद्बिषः
यदीयहलतो विलोक्य विपदंकलिन्दतनया जलोद्धतगतिः ।विलासविपिनं विवेश सहसाकरोतु कुशलं हली जगताम्
सदारात्मजज्ञातिभृत्यो विहायस्वमेतं ह्रदं जीवनं लिप्समानः ।मया क्लेशितः कालियेत्थं कुरु त्वंभुजङ्ग ! प्रयातं द्रुतं सागराय
यमुनातटमच्युतकेलिकला-लसदङ्घ्रिसरोरुहसङ्गरुचिम् ।मुदितोऽट कलेरपनेतुमघंयदि चेच्छसि जन्म निजं सफलम्
इन्द्रनीलोपलेनेव या निर्म्मिताशातकुम्भद्रवालङ्कृता शोभते ।नव्यमेघच्छविः पीतवासा हरे-र्मूर्त्तिरास्तां ममैवोरसि स्रग्विणी
अर्च्चामन्येषां त्वं विहायामराणा-मद्वैतेनैकं कृष्णमभ्यर्च्च भक्त्या ।तत्राशेषात्मन्यर्च्चिते भाविनी तेभ्रातः ! सम्पन्नाराघना वैश्वदेवी
छन्दसां वृत्तिनामानि ।प्रमिताक्षराद्रुतविलम्बितम्मन्दाकिनीकुसुमविचित्रातामरसम्मालतीयमुनेति क्वापि ।मणिमालाअस्याः षड्वर्णैर्य्यतिः ।जलधरमालाअस्याश्चतुर्भिरष्टाभिश्च यतिः ।पुटःप्रमुदितवदनाप्रभेति मल्लिनाथः गौरीतिकौमुदीकारः ।प्रियंवदाललिताउज्ज्वलानवमालिकाललनाललितम्द्रुतपदम्विद्याधारःपञ्चचामरम्सारङ्गम्मौक्तिकदामछन्दसां लक्षणगणाः ।प्रमिताक्षरा सजससैः कथिता
ऽ, ।ऽ।,
ऽ,
ऽद्रुतविलम्बितमाह नभौ भरौ
।, ऽ॥
, ऽ॥
, ऽ।ऽननररघटिता तु मन्दाकिनी
।,
।, ऽ।ऽ, ऽ।ऽनयसहितौ न्यौ कुसुमविचित्रा
।, ।ऽऽ,
।, ।ऽऽइह वद तामरसं नजजा यः
।, ।ऽ।, ।ऽ।, ।ऽऽभवति नजावथ मालती जरौ
।, ।ऽ।, ।ऽ।, ऽ।ऽत्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैःऽऽ।, ।ऽऽ, ऽऽ।, ।ऽऽमो भ, स्मौ चेज्जलधरमालाब्ध्यन्त्यैःऽऽऽ, ऽ॥
,
ऽ, ऽऽऽवसुयुगविरतिर्नौ म्यौ पुटोऽयम्
।,
।, ऽऽऽ, ।ऽऽप्रमुदितवदना भवेन्नौ रौ
।,
।, ऽ।ऽ, ऽ।ऽभुवि भवेन्नभजरैः प्रियंवदा
।, ऽ॥
, ।ऽ।, ऽ।ऽधीरैरभाणि ललिता तभौ जरौ ऽऽ।, ऽ॥
, ।ऽ।, ऽ।ऽननभरसहिता गदितोज्ज्वला
।,
।, ऽ॥
, ऽ।ऽइह नवमालिका नजभयैः स्यात्
।, ।ऽ।, ऽ॥
, ।ऽऽपञ्चमुनि भमौ सात् सयुता ललनाऽ॥
, ऽऽऽ,
ऽ,
ऽललितमभिहितं नौ म्रौ नामतः
।,
।, ऽऽऽ, ऽ।ऽद्रुतपदं भवति नभनयाश्चेत्
।, ऽ॥
,
।, ।ऽऽसर्व्वे मा यस्मिन् सोऽयं विद्याधारः स्यात्ऽऽऽ, ऽऽऽ, ऽऽऽ, ऽऽऽलघुर्गुरुर्वदन्ति पञ्चचामरम् ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽसारङ्गसंज्ञं समस्तैस्तकारैस्तु ऽऽ।, ऽऽ।, ऽऽ।, ऽऽ।समस्तजमीरय मौक्तिकदाम ।ऽ।, ।ऽ।, ।ऽ।, ।ऽ।, छन्दसामुदाहरणानि ।अमृतस्य शीकरमिवोद्गिरतीरदमौक्तिकांशुलहरीच्छुरिता ।प्रमिताक्षरा मुररिपोर्भणिति-र्व्रजसुभ्रुवामभिजहार मनः
तरणिजापुलिने नववल्लवी-परिषदा सह केलिकुतूहलात् ।द्रुतविलम्बितचारुविहारिणंहरिमहं हृदयेन सदा वहे
बलिदमनविधौ बभौ सङ्गतापदजलरुहि यस्य मन्दाकिनी ।सुरनिहितसिताम्बुजस्रङ्निभाहरतु जगदघं पीताम्बरः
विपिनविहारे कुसुमविचित्राकुतुकितगोपीमहितचरित्रा ।मुररिपुमूर्त्तिर्मुखरितवंशाचिरमवताद्वस्तरलवतंसा
स्फुटसुषमामकरन्दमनोज्ञंव्रजललनानयनालिनिपीतम् ।तव मुखतामरसं मुरशत्रो !हृदयतडागविकाशि ममास्तु
इह कलयाच्युतकेलिकाननेमधुरससौरभसारलोलुपः ।कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालतीं मुहुः
प्रह्वामरमौलौ रत्नोपलकॢप्तेजातप्रतिविम्बा शोणा मणिमाला ।गोविन्दपदाब्जे राजी नखराणा-मास्तां मम चित्ते ध्वान्तं शमयन्ती
या भक्तानां कलिदुरितोत्तप्तानांतापोच्छेदे जलधरमाला नव्या ।भव्याकारा दिनकरपुत्त्रीकूलेकेलीलोला हरितनुरव्यात् सा वः
छन्दसां वृत्तिनामानि ।मोटकम्तरलनयनम्त्रयोदशाक्षरावृत्तिः अतिजगती ।प्रहर्षिणीत्रिभिर्दशभिश्च यतिः ।रुचिराचतुर्भिर्नवभिश्च यतिः ।मत्तमयूरःचतुर्भिर्नवभिश्च यतिः ।चण्डीमञ्जुभाषिणीसुनन्दिनीति शम्भौचन्द्रिकाउत्पलिनीति क्वापि विद्युदितिक्षमेति क्वापि सप्तभिः षड्-भिश्च यतिः ।कलहंसःसिंहनादः क्वापि ।प्रबोधितामृगेन्द्रमुखम्चञ्चरीकावलीचन्द्ररेखाकन्दुकम्मृगेन्द्रमुखम्उपस्थितम्मञ्जुहासिनीनन्दिनीछन्दसां लक्षणगणाः ।मोटकनाम समस्तभमीरय ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
वरिलघु तरलनयनमिह
त्र्यशाभिर्मनजरगाः प्रहर्षिणीयम्ऽऽऽ,
।, ।ऽ।, ऽ।ऽ, ऽजभौ सजौ गिति रुचिरा चतुर्ग्रहैः।ऽ।, ऽ॥
,
ऽ, ।ऽ।, ऽवेदरन्ध्रैर्म्तौ यसगा मत्तमयूरःऽऽऽ, ऽऽ।, ।ऽऽ,
ऽ, ऽनयुगलसयुगलगैरिति चण्डी
।,
।,
ऽ,
ऽ, ऽसजसा जगौ यदि मञ्जुभाषिणी॥
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽननततगुरुभिश्चन्द्रिकाऽश्वर्तुभिः
।,
।, ऽऽ।, ऽऽ।, ऽसजसाः सगौ कथितः कलहंसः॥
ऽ, ।ऽ।,
ऽ,
ऽ, ऽसजसा जगौ भवति प्रबोधिता
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽभबति मृगेन्द्रमुखं नजौ जरौ गः
।, ।ऽ।, ।ऽ।, ऽ।ऽ, ऽयमौ रौ विख्याता चञ्चरीकावली गः।ऽऽ, ऽऽऽ, ऽ।ऽ, ऽ।ऽ, ऽनसरयुगगैश्चन्द्ररेखर्त्तुलोकैः
।,
ऽ, ऽ।ऽ, ऽ।ऽ, ऽइदं कन्दुकं यत्र येभ्यश्चतुर्भ्यो गः ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ऽभवति मृगेन्द्रमुखं नजौ जरौ गः
।, ।ऽ।, ।ऽ।, ऽ।ऽ, ऽउपस्थितमिदं ज्सौ त्सौ यदि गुरुः स्यात्।ऽ।,
ऽ, ऽऽ।,
ऽ, ऽजतौ सजौ गो भवति मञ्जुहासिनी।ऽ।, ऽऽ।,
ऽ।ऽ।, ऽइह नन्दिनी सजससैर्गुरुयुक्तैः
ऽ, ।ऽ।,
ऽ,
ऽ, ऽछन्दसामुदाहरणानि ।गोपीनामधरसुधारसस्य पानै-रुत्तुङ्गस्तनकलसोपगूहनैश्च ।आश्चर्य्यैरपि रतिविभ्रमैर्मुरारेःसंसारे मतिरभवत् प्रहर्षिणीह
पुनातु वो हरिरतिरासविभ्रमीपरिभ्रमन् व्रजरुचिराङ्गनान्तरे ।समीरणोल्लसितलतान्तरालगोयथा मरुत्तरलतमालभूरुहः
लीलानृत्यन्मत्तमयूरध्वनिकान्तंनृत्यन्नीपामोदिपयोदानिलरम्यम् ।कामक्रीडाकृष्टमना गोपबधूभिःकंसध्वंसी निर्ज्जनवृन्दावनमाप
जयति दितिजरिपुताण्डवलीला-कुपितकवलकरकालियमौलौ ।चरणकमलयुगचापलचण्डीपदनखरुचिजितभोगमणिश्रीः
अमृतोर्म्मिशीतलकरेण लालयं-स्तनुकान्तिचोरितविलोचनो हरे ! ।नियतं कलानिधिरसीति वल्लवीमुदमच्युते व्यधित मञ्जुभाषिणी
शरदमृतरुचश्चन्द्रिकाक्षालितेदिनकरतनयातीरदेशे हरिः ।विहरति रभसाद्वल्लवीभिः समंत्रिदिवयुवतिभिः कोऽपि देवो यथा
यमुनाविहारकुतुके कलहंसोव्रजकामिनीकमलिनीकृतकेलिः ।जनचित्तहारिकलकण्ठनिनादःप्रमदं तनोतु तव नन्दतनूजः
शयिता मृषा चटुलमाननिद्रयारतिकेलिकुञ्जनिलये विलासिनी ।मुरवैरिणा वदनचुम्बनादिनास्मितमाततान सपदि प्रबोधिता
गुरुभुजवीर्य्यभरं हरिं मदान्धायुधि समुपेत्य दानवा जिजीवुः ।क्षुधितमृगेन्द्रमुखं मृगा उपेत्यक्व नु खलु बिभ्रति जीवनस्य योगम्
छन्दसां वृत्तिनामानि ।कुटजगतिःप्रभावती ।चतुर्द्दशाक्षरा वृत्तिः शर्करीं ।असम्बाधापञ्चभिर्नवभिश्च यतिः ।वसन्ततिलकम्अष्टाभिः षड्भिश्च यतिः सिंहो-द्धता क्वापि सिंहोन्नता इतिमुनिकाश्यपः उद्धर्षिणी इतिमुनिसैतवः
अपराजितासप्तभिर्यतिः ।प्रहरणकलिकासप्तभिर्व्वर्णैर्यतिः ।वासन्तीलोलाअस्याः सप्तभिर्यतिः ।नान्दीमुखीअस्याः सप्तभिर्यतिः ।इन्दुवदनानदीसमभिर्यतिः ।लक्ष्मीःसुपवित्रम्मध्यक्षामाकुटिलम्प्रमदाछन्दसां लक्षणगणाः ।कुटजगतिर्नजौ सप्तर्त्तु म्तौ गुरुः॥
।, ।ऽ।, ऽऽऽ, ऽऽ।, ऽयस्यां प्रिये ! प्रथमकमक्षरद्वयंतुर्य्यं तथा गुरु नवमं दशान्तिमम् ।सान्त्यं भवेद्यतिरपि चेद्युगग्रहैःसा लक्ष्यताममृतरुते ! प्रभावती
मो गो गो नौ मः शरनवभिरसम्बाधाऽऽऽ, ऽ, ऽ,
।,
।, ऽऽऽज्ञेयं वसन्ततिलकं तभजा जगौ गःऽऽ।, ऽ॥
, ।ऽ।, ।ऽ।, ऽ, ऽननरसलघुगैः स्वरैरपराजिता
।,
।, ऽ।ऽ,
ऽ, ।, ऽननभनलगिति प्रहरणकलिका
।,
।, ऽ॥
,
।, ।, ऽमात्तो नो मो गौ यदि गदिता वासन्तीयम्ऽऽऽ, ऽऽ।,
।, ऽऽऽ, ऽ, ऽद्बिःसप्तच्छिदि लोला म्सौ म्भौ गौ चरणे चेत्ऽऽऽ,
ऽ, ऽऽऽ, ऽ॥
, ऽ, ऽस्वरभिदि यदि नौ तौ नान्दीमुखी गौ॥
।,
।, ऽऽ।, ऽऽ।, ऽ, ऽ, इन्दुवदना भजसनैः सगुरुयुग्मैः ऽ॥
, ।ऽ।,
ऽ,
।, ऽ, ऽननतजगुरुगैः सप्तयतिर्नदी स्यात्॥
।,
।, ऽऽ।, ।ऽ।, ऽ, ऽलक्ष्मीरन्तविरामा म्सौ तभौ गुरुयुग्मम्ऽऽऽ,
ऽ, ऽऽ।, ऽ॥
, ऽ, ऽत्रिननगागति वसुयति सुपवित्रम्॥
।,
।,
।,
।, ऽ, ऽमध्यक्षामा युगदशविरमा म्भौ न्यौ गौऽऽऽ, ऽ॥
,
।, ।ऽऽ, ऽ, ऽयुगदिग्भिः कुटिलमिति सभौ न्यौ गौ चेत्॥
ऽ, ऽ॥
,
।, ।ऽऽ, ऽ, ऽनजभजला गुरुश्च भवति प्रमदा॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ।, ऽछन्दसामुदाहरणानि ।वीर्य्याग्नौ येन ज्वलति रणरसात् क्षिप्तेदैत्येन्द्रे जाता धरणिरियमसम्बाधा ।धर्म्मस्थित्यर्थं प्रकटिततनुसम्बन्धःसाधूनां वाधां प्रशमयतु कंसारिः
फुल्लं वसन्ततिलकं तिलकं वनाल्यालीलापरं पिककुलं कलमत्र रौति ।वात्येष पुष्पसुरभिर्मलयाद्रिवातोयातो हरिः मथुरां विधिना हताः स्मः
यदनवधिभुजप्रतापकृतास्पदायदुनिचयचमूः परैरपराजिता ।व्यजयत समरे समस्तरिपुव्रजंस जयति जगतां गतिर्गरुडध्वजः
व्यथयति कुसुमप्रहरण ! कलिकाप्रमदवनभवा तव धनुषि तता ।विरहविपदि मे शरणमिह ततोमधुमथनगुणस्मरणमविरतम्
भ्राम्यद्भृङ्गीनिर्भरमधुरालापोद्गीतैःश्रीखण्डाद्रेरद्भुतपवनैर्मन्दान्दोला ।लीलालोला पल्लवविलसद्धस्तोल्लासैःकंसारातौ नृत्यति सदृशी वासन्तीयम्
मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोलात्रैलोक्याद्भतरूपो गोविन्दोऽतिदुरापः ।तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथेश्रीनाथेन समेता स्वच्न्दं कुरु केलिम्
सरसखगकुलालापनान्दीमुखीयंलहरिभुजलता चारुफेनस्मितश्रीः ।मुरहरकलयासत्तिमासाद्य किन्तेप्रमुदितहृदया भानुजा नृत्यतीह
छन्दसां वृत्तिनामानि ।मञ्जरीपञ्चमे नवमे यतिः ।कुमारीअष्टमे नवमे यतिः ।सुकेसरम्चन्द्रौरसःचक्रपदम्वासन्तीपञ्चदशाक्षरा वृत्तिः अतिशर्करी ।शशिकलास्रक्अस्याः षड्भिर्नवभिश्च यतिः ।मणिगुणनिकरःअष्टभिः सप्तभिश्च यतिः ।मालिनीअष्टभिः सप्तभिश्च यतिः ।लीलाखेलःविपिनतिलकम्तूणकम्चन्द्रलेखासप्तमे अष्टमे यतिः ।चित्राछन्दसां लक्षणगणाः ।सजसा यलौ गिति शरग्रहैर्मञ्जरी॥
ऽ, ।ऽ।,
ऽ, ।ऽऽ, ।, ऽनजभजगैर्गुरुश्च वसुषट् कुमारी॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ, ऽनरनरैर्लगौ रचितं सुकेसरम्॥
।, ऽ।ऽ,
।, ऽ।ऽ, ।, ऽम्भौ न्यौ ल्गौ चेदिह भवति चन्द्रौरसःऽऽऽ, ऽ॥
,
।, ।ऽऽ, ।, ऽचक्रपदमिह भनननलगुरुभिःऽ॥
,
।,
।,
।, ।, ऽवासन्तीयं स्यादिह खलु मतौ म्यौ गौ चेत्ऽऽऽ, ऽऽ।,
।, ।ऽऽ, ऽ, ऽगुरुनिधनमनुलघुरिह शशिकला॥
, ऽस्रगियमपि रसनव-रचितयतिः॥
,
।,
।, ऽवसुमुनियतिरिति मणिगुणनिकरः॥
।, ।,
, ऽननमयययुतेयं मालिनी भोगिलोकैः॥
।,
।, ऽऽऽ, ।ऽऽ, ।ऽऽएकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलःऽऽऽ, ऽऽऽ, ऽ, ऽ, ऽऽऽ, ऽऽऽ, ऽविपिनतिलकं नसनरेफयुग्मैर्भवेत्॥
।,
ऽ,
।, ऽ।ऽ, ऽ।ऽतूणकं समानिकापदद्वयं विनान्तिमम्ऽ, ।, ऽ।ऽ, ।ऽ।, ऽ, ।, ऽ।ऽ, ।ऽम्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखाऽऽऽ, ऽ।ऽ, ऽऽऽ, ।ऽऽ, ।ऽऽ, चित्रा नामच्छन्दश्चित्रञ्चेत् त्रयो मा यकारौऽऽऽ, ऽऽऽ, ऽऽऽ, ।ऽऽ, ।ऽऽछन्दसामुदाहरणानि ।मलयजतिलकसमुदितशशिकलाव्रजयुवतिलसदलिकगगनगता ।सरसिजनयनहृदयसलिलनिधिंव्यतनुत विततरभसपरितरलम्
अयि सहचरि ! रुचिरतरगुणमयीम्रदिमवसतिरनपगतपरिमला ।स्रगिव निवस विलसदनुपमरसासुमुखि ! मुदितदनुजदलनहृदये
नरकरिपुरवतु निखिलसुरगति-रमितमहिमभरसहजनिवसतिः ।अनवधिमणिगुणनिकरपरिचितःसरिदधिपतिरिव धृततनुविभवः
मृगमदकृतचर्च्चा पीतकौषेयवासारुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा ।अनृजुनिहितमंशे वंशमुत्क्वाणयन्तीधृतमधुरिपुलीला मालिनी पातु राधा
पायाद्वो गोविन्दः कालिन्दीकूलक्षौणीचक्रेरासोल्लासक्रीडद्गोपीभिः सार्द्धं लीलाखेलः ।मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलोयद्वद्देवानामीशः स्वर्व्वेश्याभिः खेलन्तीभिः
विपिनतिलकं विकसितं वसन्तागमेमधुकृतमदैर्मधुकरै रणद्भिर्वृतम् ।मलयमरुता रचितलास्यमालोकयन्व्रजयुवतिभिर्विहरति स्म मुग्धो हरिः
सा सुवर्णकेतकं विकाशि भृङ्गपूरितंपञ्चबाणबाणजालपूर्णहेमतूणकम् ।राधिका वितर्क्य माधवाद्य मासि माधवेमोहमेति निर्भरं त्वया विना कलानिधे !
विच्छेदे ते मुरारे ! पाण्डुप्रकाशा कृशाङ्गीम्लानच्छायं दुकूलं भ्राजते बिभ्रती सा ।राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखाकिञ्चार्त्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम्
गोपाली लीलालोला यद्वत् कलिन्दात्मजान्तेखेलन्मुक्ताहारा वन्यस्रग्लसन्मूर्द्धचित्रा ।कंसारातेर्मूर्त्तिस्तद्बन्मे हृदि क्रीडतीयंकोऽन्यः स्वर्गो मोक्षो वास्माद्बिद्यते तन्न जाने
छन्दसां वृत्तिनामानि ।प्रभद्रकम्एलापञ्चभिर्दशभिश्च यतिः ।कामक्रीडासुखेलकम्चन्द्रकान्तासप्तभिरष्टाभिश्च यतिः ।उपमालिनीअष्टाभिः सप्तभिश्च यतिः ।ऋषभःमानसहंसःनलिनीनिशिपालकम्षोडशाक्षरा वृत्तिः अष्टिः ।चित्रम्ऋषभगजविलसितम्गजतुरगविलसितमिति शम्भौ ।सप्तभिर्नवभिश्च यतिः ।चकिताअस्या अष्टमे यतिः ।पञ्चचामरम्मदनललिताचतुर्थे षष्ठे यतिः ।वाणिनीप्रवरललितम्छन्दसां लक्षणगणाः ।भवति नजौ भजौ रसहितौ प्रभद्रकम्॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ।ऽसजना नयौ शरदशयतिरियमेला॥
ऽ, ।ऽ।,
।,
।, ।ऽऽमाः पञ्च स्युयस्यां सा कामक्रीडासंज्ञा ज्ञेयाऽऽऽ, ऽऽऽ, ऽऽऽ, ऽऽऽ, ऽऽऽनजभजरैर्विराजितमिदं सुखेलकम्॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ।ऽचन्द्रकान्ताभिधा रौ म्सौ यो विरमः स्वराष्टौऽ।ऽ, ऽ।ऽ, ऽऽऽ,
ऽ, ।ऽऽननतभरकृताष्टस्वरैरुपमालिनी॥
।,
।, ऽऽ।, ऽ॥
, ऽ।ऽऋषभाख्यमेतदुदितं सजसा सयौ चेत्॥
ऽ, ।ऽ।,
ऽ,
ऽ, ।ऽऽकथयन्ति मानसहंसनाम सजौ ज्भराः॥
ऽ, ।ऽ।, ।ऽ।, ऽ॥
, ऽ।ऽसगणैः शिववक्त्रमितैर्गदिता नलिनी॥
ऽ,
ऽ,
ऽ,
ऽ,
ऽ, शंस निशिपालकमिदं भजसनाश्च रःऽ॥
, ।ऽ।,
ऽ,
।, ऽ।ऽचित्रसंज्ञमीरितं समानिका पदद्बयन्तुऽ, ।, ऽ।ऽ, ।ऽ।, ऽ, ।, ऽ।ऽ, ।ऽ।भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम्ऽ॥
, ऽ।ऽ,
।,
।,
।, ऽभात् समतनगैरष्टच्छेदे स्यादिह चकिताऽ॥
,
ऽ, ऽऽऽ, ऽऽ।,
।, ऽप्रमाणिका पदद्बयं वदन्ति पञ्चचामरम्।ऽ।, ऽ।ऽ, ।, ऽ, ।ऽ।, ऽ।ऽ, ।, ऽम्भौ नो म्नौ गो मदनललिता वेदैः षडृतुभिःऽऽऽ, ऽ॥
,
।, ऽऽऽ,
।, ऽनजभजरैर्यदा भवति वाणिनी गयुक्तैः॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ।ऽ, ऽयमौ नः स्रौ गश्च प्रवरललितं नाम वृत्तम्।ऽऽ, ऽऽऽ,
।,
ऽ, ऽ।ऽ, ऽछन्दसामुदाहरणानि ।विद्रुमारुणाधरोष्ठशोभिवेणुवाद्यहृष्ट-वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग ! ।त्वां सदैव वासुदेव ! पुण्यलभ्यपादसेव !वन्यपुष्पचित्रकेश ! संस्मरामि गोववेश !
यो हरिरुच्चखान खरतरनखरशरै-र्दुर्ज्जयदैत्यसिंहसुविकटहृदयतटम् ।किन्त्विह चित्रमेष यदखिलमपहृतवान्कंसनिदेशदृप्यदृषभगजविलसितम्
दुर्ज्जयदनुजश्रेणीदुश्चेष्टाशतचकितायद्भुजपरिघत्राता याता साध्वसविगमम् ।दीव्यति दिवि यन्माला स्वेच्छं नन्दनविपिनेगच्छत शरणं कृष्णं तं भीता भवरिपुतः
सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मितेलसद्बितानभूषिते सलीलविभ्रमालसम् ।सुराङ्गनाभवल्लवीकरप्रपञ्चचामर-स्फुरत्समीरवीजितं सदाच्युतं भजामि तम्
विभ्रष्टस्रग्गलितचिकुरा धौताधरपुटाग्लायत्पत्रावलिकुचतटोच्छ्वासोर्म्मितरला ।राधात्यर्थं मदनललितान्दोलालसवपुःकंसारातेरतिरसमहो चक्रेऽतिचटुलम्
स्फुरतु ममाननेऽद्य ननु वाणि ! नीतिरम्यंतव चरणप्रसादपरिपाकतः कवित्वम् ।भवजलराशिपारकरणक्षमं मुकुन्दंसततमहं स्तवैः स्वरचितैः स्तवानि नित्यम्
भुजोत्क्षेपः शून्ये चलबलयझङ्कारयुक्तोमुधा पादन्यासः प्रकटिततुलाकोटिनादः ।स्मितं वक्त्रेऽकस्माद्दृशि पटुकटाक्षोर्म्मिलीलाहरौ जीयादीदृक् प्रवरललितं वल्लवीनाम्
छन्दसां वृत्तिनामानि ।अचलधृतिःगरुडरुतम्धीरललिताअश्वगतिःमणिकल्पलतारूपम्वरयुवतिःसप्तदशाक्षरा वृत्तिः अत्यष्टिः ।शिखरिणीषष्ठे एकादशे यतिः ।पृथ्वीअष्टमे नवमे यतिः ।वंशपत्रपतितम्वंशदलमिति शम्भौ वंशपत्रपतिताइति केचित् अस्य दशमे सप्तमेच यतिः ।मन्दाक्रान्ताअस्याञ्चतुर्थे षष्ठे सप्तमे यतिः ।इयं दौत्यवर्णनोपयोगिनी शस्ता ।हरिणीषष्ठे चतुर्थे सप्तमे यतिः ।नर्द्दटकम्कोकिलकम्अस्य सप्तमे षष्ठे चतुर्थे यतिः ।छन्दसां लक्षणगणाः ।द्विगुणितवसुलघुभिरचलधृतिरिह॥
,
गरुडरुतं नजौ भजतगा यदा स्युस्तदा॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽऽ।, ऽसंकथिता भरौ नरनगाश्च धीरललिताऽ॥
, ऽ।ऽ,
।, ऽ।ऽ,
।, ऽपञ्चभकारयुताऽश्वगतिर्यदि चान्त्यगुरुःऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽनजरभभेन गेन स्यान्मणिकल्पलता॥
।, ।ऽ।, ऽ।ऽ, ऽ॥
, ऽ॥
, ऽयस्मिन् सर्व्वे गा राजन्ते ब्रह्माद्यं तद्रूपं नामऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽ, ऽभो रयना नगौ यस्यां वरयुवतिरियम्ऽ॥
, ऽ।ऽ, ।ऽऽ,
।,
।, ऽरसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी।ऽऽ, ऽऽऽ,
।,
ऽ, ऽ॥
, ।, ऽजसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः।ऽ।,
ऽ, ।ऽ।,
ऽ, ।ऽऽ, ।, ऽदिङ्मुनि वंशपत्रपतितं भरनभनलगैःऽ॥
, ऽ।ऽ,
।, ऽ॥
,
।, ।, ऽमन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम्ऽऽऽ, ऽ॥
,
।, ऽऽ।, ऽऽ।, ऽ, ऽनसमरसला गः षड्वेदैर्हयैर्हरिणी मता॥
।,
ऽ, ऽऽऽ, ऽ।ऽ,
ऽ, ।, ऽयदि भवतो नजौ भजजला गुरु नर्द्दटकम्॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ।ऽ।, ।, ऽहयऋतुसागरैर्यतियुतं यदि कोकिलकम्॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ।ऽ।, ।, ऽछन्दसामुदाहरणानि ।तरणिदुहितृतटरुचिरतरवसति-रमरमुनिमुखजनविहितधृतिरिह ।मधुरिपुरभिनवजलधररुचितनु-रचलधृतिरुदयति सुकृतिहृदि खलु
अमरमयूरमानसमुदे पयोदध्वनि-र्गरुडरुतं सुरारिभुजगेन्द्रसन्त्रासने ।धरणिभरावतारविधिडिण्डिमाडम्बरःस जयति कंसरङ्गभुवि सिंहनादो हरेः
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो-र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ।इति त्रस्यद्गोपानुचितनिभृतालापजनितंस्मितं बिभ्रद्देवो जगदवतु गोवर्द्धनधरः
दुरन्तदनुजेश्वरप्रकरदुःस्थपृथ्वीभरंजहार निजलीलया यदुकुलेऽवतीर्य्याशु यः ।स एष जगतीगतिर्दुरितभारमस्मादृशांहरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः
नूतनवंशपत्रपतितं रजनिजललवंपश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ।एष तं चकोरनिकरः प्रपिबति मुदितोवान्तमवेत्य चन्द्रकिरणैरमृतकणमिव
प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनाद्यै-र्मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ।एवं शिक्षावचनसुधया राधिकायाः सखीनांप्रीतः पायात् स्मितसुवदनो देवकीनन्दनो नः
व्यधित विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणाद्-व्रजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ।यदयमनिशं दूर्व्वाश्यामे मुरारिकलेवरेव्यकिरदधिकं बद्धाकाङ्क्षे विलोलविलोचनम्
व्रजवनिता वसन्तलतिका विलसन्मधुपंमधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ।विभुमभिनौति कोऽपि सुकृती मुदितेन हृदारुचिरपदावलीघटितनर्द्दटकेन कविः
लसदरुणेक्षणं मधुरभाषणमोदकरंमधुसमयागमे सरसकेलिभिरुल्लसितम् ।अलिललितद्युतिं रविसुतावनकोकिलकंननु कलयामि तं सखि ! सदा हृदि नन्द्सुतम्
छन्दसां वृत्तिनामानि ।हारिणीअस्याश्चतुर्थे षष्ठे सप्तमे यतिः ।भाराक्रान्ताचतुर्थे षष्ठे सप्तमे यतिः ।हरिःकान्ताचित्रलेखादशमे सप्तमे यतिः ।अतिशायिनीपञ्चचामरम्अष्टादशाक्षरा वृत्तिः धृतिः ।कुसुमितलतावेल्लितापञ्चमे षष्ठे सप्तमे यतिः ।नन्दनम्एकादशे सप्तमे यतिः इद-मेव वेदरेफैश्छिन्ना महामालिकात्र्यधिकदशभिस्तारका दशवसु-भिर्लसा इति कुत्रापि ।नाराचम्चित्रलेखाचन्दलेखा इति क्वचित् ।शार्दूलललितम्द्वादशे चरणान्ते यतिः ।हरिणप्लुतम्हरिणप्लुतेति कुत्रापि ।अश्वगतिःसुधाचित्रलेस्वाछन्दसां लक्षणगणाः ।वेदर्त्वश्वैर्मभनमयला गश्चेत्तदा हारिणीऽऽऽ, ऽ॥
,
।, ऽऽऽ, ।ऽऽ, ।, ऽभाराक्रान्ता मभनरसला गुरुः श्रुतिषढयैःऽऽऽ, ऽ॥
,
।, ऽ।ऽ,
ऽ, ।, ऽरसयुगहययुङ् नौ म्रौ सो लगौ हि यदा हरिः॥
।,
।, ऽऽऽ, ऽ।ऽ,
ऽ, ।, ऽभवेत् कान्ता युगरसहयैर्यभौ नरसा लगौ।ऽऽ, ऽ॥
,
।, ऽ।ऽ,
ऽ, ।, ऽससजा भजगा दिक्स्वरैर्भवति चित्रलेखा॥
ऽ,
ऽ, ।ऽ।, ऽ॥
, ।ऽ।, ऽ, ऽससजैरतिशायिनी मता भजपरैर्गुरुभ्याम्॥
ऽ,
ऽ, ।ऽ।, ऽ॥
, ।ऽ।, ऽ, ऽअवेहि पञ्चचामरं जरौ जरौ जगौ लघुश्च।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ, ।स्याद्भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौऽऽऽ, ऽऽ।,
।, ।ऽऽ, ।ऽऽ, ।ऽऽनजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम्॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ।ऽ, ऽ।ऽइह ननरचतुष्कसृष्टन्तु नाराचमाचक्षते॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽमन्दाक्रान्ता नपरलघुयुता कीर्त्तिता चित्रलेखाऽऽऽ, ऽ॥
,
।, ।, ऽऽ।, ऽऽ।, ऽ, ऽमः सो जः सतसा दिनेशऋतुभिः शार्दूलललि-तम्ऽऽऽ,
ऽ, ।ऽ।,
ऽ, ऽऽ।,
ऽमात् सो जौ भरसंयुतौ करिबाणखैर्हरिणप्लुतम्ऽऽऽ,
ऽ, ।ऽ।, ।ऽ।, ऽ॥
, ऽ।ऽपञ्चभकारयुताश्वगतिर्यदि चान्त्यसरचिताऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
,
ऽसुधा तर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः।ऽऽ, ऽऽऽ,
।,
ऽ, ऽऽ।,
ऽवर्णाश्वैर्मननततमकैः कीर्त्तिता चित्रलेखेयम्ऽऽऽ,
।,
।, ऽऽ।, ऽऽ।, ऽऽऽ, छन्दसामुदाहरणानि ।यस्या नित्ये श्रुतिकुवलये श्रीशालिनी लोचनेरागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् ।गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छटासा कंसारेरजनि कथं राधा मनोहारिणी
भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणात्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ।इत्यावृण्वन् जयति जलदस्वनाकुलवल्लवी-संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः
क्रीडत्कालिन्दीललितलहरीवारिभिर्दाक्षिणात्यै-र्वातैः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ।भृङ्गालीगीतैः किसलयकरोल्लासितोल्लास्यलक्ष्मींतन्बाना चेतो रभसतरलं चक्रपाणेश्चकार
तरणिसुतातरङ्गपवनैः सलीलमान्दोलितंमधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् ।मुरहरचित्रचेष्टितकलाकलापसंस्मारकंक्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम्
दिनकरतनयातटीकानने चारुसञ्चारिणीश्रवणनिकटकृष्टमेणेक्षणा कृष्ण ! राधा त्वयि ।ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनंतदिह मदनविभ्रमोद्भ्रान्तचित्तावधतस्व द्रुतम्
शङ्केऽमुष्मिन् जगति मृगदृशां साररूपं यदासी-दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ।नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्युतस्यप्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम्
कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितंयश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम्
सन्तोषं परमन्तु देवनिवहे त्रैलोक्यशरणंश्रेयो वः तनोत्वपारमहिमा लक्ष्मीप्रियतमः
छन्दसां वृत्तिनामानि ।भ्रमरपदकम्शार्दूलम्केसरम्चलम्लालसालतासिंहविस्फूर्ज्जितम्हरनर्त्तनम्विबुधप्रिया इति कुत्रापि ।क्रीडचक्रम्हीरकम्ऊनविंशत्यक्षरा वृत्तिः अतिधृतिः ।मेघविस्फूर्ज्जिताषष्ठे षष्ठे सप्तमे यतिः ।छायाषष्ठे द्वादशे अन्ते यतिः ।शार्दूलविंक्रीडितम्द्वादशे ऊनविंशतौ यतिः ।सुरसासप्तमे चतुर्द्दशे अन्ते यतिः ।फुल्लदामपञ्चमे द्वादशे अन्ते यतिः ।पुष्पदाम इति केचित् ।पञ्चचामरःविम्बम्छन्दसां लक्षणगणाः ।भाद्रनना नसौ भ्रमरपदकमिदमभिहितम्ऽ॥
, ऽ।ऽ,
।,
।,
।,
ऽशार्दूलं वद मासषट्कयति मः सो जसौ रोमश्चेत्ऽऽऽ,
ऽ, ।ऽ।,
ऽ, ऽ।ऽ, ऽऽऽअर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केसरम्ऽऽऽ, ऽ॥
,
।, ।ऽऽ, ऽ।ऽ, ऽ।ऽम्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैःऽऽऽ, ऽ॥
,
।, ।ऽ।, ऽ॥
, ऽ।ऽसैका वसुविरतिस्तनौ रैश्चतुर्भिर्युता लालसाऽऽ।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽभवति नयुगलं रभौ रौ दशभिर्गजेन्द्रैर्लता॥
।,
।, ऽ।ऽ, ऽ॥
, ऽ।ऽ, ऽ।ऽतद्भूतर्त्वश्वैर्मौ भ्मौ विरतिश्चेत् सिंहवि-स्फूर्ज्जितं यौऽऽऽ, ऽऽऽ, ऽ॥
, ऽऽऽ, ।ऽऽ, ।ऽऽर्सौ जजौ भरसंयुतौ करिबाणखैर्हरनर्त्तनम्ऽ।ऽ,
ऽ, ।ऽ।, ।ऽ।, ऽ॥
, ऽ।ऽइदं क्रीडचक्रं सदीर्घं समस्तैर्यकारैः समेतम्।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, हीरकमुदितं भसनजनैरिह रगणोऽन्ततःऽ॥
,
ऽ,
।, ।ऽ।,
।, ऽ।ऽरसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्ज्जितास्यात् ।।ऽऽ, ऽऽऽ,
।,
ऽ, ऽ।ऽ, ऽ।ऽ, ऽभवेत् सैवच्छाया तयुगगयुता स्यात् द्वादशान्तेयदा।ऽऽ, ऽऽऽ,
।,
ऽ, ऽऽ।, ऽऽ।, ऽसूर्य्याश्वैर्यदि मः सजौ सततगाः शार्दूल-विक्रीडितम्ऽऽऽ,
ऽ, ।ऽ।,
ऽ, ऽऽ।, ऽऽ।, ऽम्रौ भ्नौ यो नो गुरुश्चेत् स्वरमुनिकरणैराहसुरसाम्ऽऽऽ, ऽ।ऽ, ऽ॥
,
।, ।ऽऽ,
।, ऽमो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसि-द्धम्ऽऽऽ, ऽ, ऽ,
।,
।, ऽऽ।, ऽऽ।, ऽ, ऽनयुगलगलघू रजौर्लगा यदा पञ्चचामर्ः॥
।,
।, ऽ, ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।, ऽवृत्तं विम्बाख्यं शरमुनितुरगैर्म्तौ न्सौ ततौचेद्गुरुःऽऽऽ, ऽऽ।,
।,
ऽ, ऽऽ।, ऽऽ।, ऽछन्दसामुदाहरणानि ।कदम्बामोदाढ्या विपिनपवनाः केकिबः कान्तकेकाविनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ।निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्ज्जिता चेत्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात् किमन्यत्
अभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलःस्फुरन्नानारत्नस्तवकिततनुश्चित्रांशुकालम्बितः ।न यस्याङ्घ्रेश्छायामुपगतवतां संसारतीव्रातप-स्तनोति प्रोत्तापं जगदवतात् कंसारिकल्पद्रुमः
गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! त्वं घोषयाहर्न्निशंपाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ।एवञ्चेत् कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवंन प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम्
कामक्रीडासतृष्णो मधुसमयसमारम्भरभसात्कालिन्दीकूलकुञ्जे विहरणकुतुकाकृष्टहृदयः ।गोविन्दो वल्लवीनामधररससुधां प्राप्य सुरसांशङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ
शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसंहृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ।मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गंमौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम
छन्दसां वृत्तिनामानि ।मकरन्दिकामणिमञ्जरीसमुद्रतताविंशत्यक्षरा वृत्तिः कृतिः ।सुवदनासप्तमे चतुर्द्दशे विंशतौ यतिः ।गीतिकावृत्तम्शोभाषष्ठे त्रयोदशे अन्ते यतिः ।सुवंशामत्तेभविक्रीडितम्त्रयोदशे यतिः ।एकविंशत्यक्षरा वृत्तिः प्रकृतिः ।स्रग्धरासप्तमे चतुर्द्दशे एकविंशतौ यतिः ।सरसीसिंहकमिति सलिलनिधिरिति चक्वापि ।द्वाविंशत्यक्षरा वृत्तिः आकृतिः ।हंसीअष्टमे द्बाविंशतौ यतिः ।मदिराछन्दसां लक्षणगणाः ।रसैः षड्भिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका।ऽऽ, ऽऽऽ,
।,
ऽ, ।ऽ।, ।ऽ।, ऽइनाश्वैः स्यात् यभनयजजगाः कीर्त्तिता मणि-मञ्जरी।ऽऽ, ऽ॥
,
।, ।ऽऽ, ।ऽ।, ।ऽ।, ऽगजाब्धितुरगैर्जसौ जसतभा गश्चेत् समुद्रतता।ऽ।,
ऽ, ।ऽ।,
ऽ, ऽऽ।, ऽ॥
, ऽज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदनाऽऽऽ, ऽ।ऽ, ऽ॥
,
।, ।ऽऽ, ऽ॥
, ।, ऽसजजा भरौ सलगा यदा कथिता तदा खलुगीतिका॥
ऽ, ।ऽ।, ।ऽ।, ऽ॥
, ऽ।ऽ,
ऽ, ।, ऽवृचमीदृशन्तु नामतो रजौ रजौ रजौ गुरुर्लघुश्चऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ, ।रसाश्वाश्वः शोभा नयुगगजठरा मेघविस्फू-र्ज्जिता चेत्।ऽऽ, ऽऽऽ,
।,
।, ऽ, ऽ।ऽ, ऽ।ऽ, ऽख्याता पूर्व्वैः सुवंशा यदि मरभना तद्बयं गो गुरुश्चऽऽऽ, ऽ।ऽ, ऽ॥
,
।, ऽऽ।, ऽऽ।, ऽ, ऽसभरा नगौ यलगास्त्रयोदशयतिर्मत्तेभविक्री-डितम्॥
ऽ, ऽ॥
, ऽ।ऽ,
।, ऽऽऽ, ।ऽऽ, ।, ऽम्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धराकीर्त्तितेयम्ऽऽऽ, ऽ।ऽ, ऽ॥
,
।, ।ऽऽ, ।ऽऽ, ।ऽऽनजभजजा जरौ यदि तदा गदिता सरसीकवीश्वरैः॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ।ऽ।, ।ऽ।, ऽ।ऽमौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरितिभवति हंसीऽऽऽ, ऽऽऽ, ऽ, ऽ,
।,
।,
।,
।, ऽ, ऽसप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिराऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽछन्दसामुदाहरणानि ।प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयनात्वां ध्यायन्ती निकुञ्जे परमतररुचं हर्षोत्थपुलका ।आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिकाकामार्त्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी
करतालचञ्चलकङ्कणस्वनमिश्रणेन मनोरमारमणीयवेणुनिनादरङ्गिमसङ्गमेन सुखावहा ।बहुलानुरागनिवासरातसमुद्भवा भवरागिणंविदधौ हरिं खलु वल्लवीजनचारु चामरगीतिका
चित्रवृत्तलीलया निसर्गरम्यदेहरूपविभ्रमेणराजमानसद्वयोविलाससम्पदा कलाकुतूहलेन ।यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्यविष्णुरुल्ललास चित्तपद्मकोषषट्पदः मे सदास्तु
सपीयूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यांतयोरूर्द्ध्वं राजत्तरलकिशलयाश्लिष्टसुस्निग्धशाखा ।लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताग्रामहाशोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापिवल्ली
व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासावर्हैरुच्चन्द्रकान्तैर्व्वलयितचिकुरा चारुकर्णावतंसा ।अंसव्यासक्तवंशध्वनिसुखितजगद्वल्लवीभिर्लसन्तीमूर्त्तिर्गोपस्य विष्णोरवतु जगति वः स्रग्धरा हारिहारा
चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्म्मिषुस्फुटवदनाम्बुजासु विलसद्भुजबालमृणालवल्लिषु ।कुचयुगचक्रवाकमिथुनानुगता सुकलाकुतूहलीव्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम्
सार्द्धं कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्तीकामक्रीडाकूतस्फीतप्रमदरसरभसमलघु रसन्ती ।कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागेकंसाराते ! पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी
माघवमासि विकस्वरकेशरपुष्पलसन्मदिरामुदितै-र्भृङ्गकुलैरुपगीतवने वनमालिनमालि ! कलानिलयम्कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसंत्वं भज माधविका मृदुनर्त्तकयामुनवातकृतोपगमा
छन्दसां वृत्तिनामानि ।भद्रकम्लालित्यम्महास्रग्धरात्रयोविंशत्यक्षरा वृत्तिः विकृतिः ।अद्रितनयाअश्वललितमित्यन्घत्र ।मत्ताक्रीडम्अष्टमे त्रयोदशे त्रयोविंशतौ चयतिः मत्ताक्रीडा इति क्वचित्
सुन्दरिकाचतुर्व्विंशत्यक्षरा वृत्तिः संस्कृतिः ।तन्वीपञ्चमे द्वादशे चतुर्व्विंशतौ यतिः ।किरीटम्दुर्म्मिलम्पञ्चविंशत्यक्षरा वृत्तिः अतिकृतिः ।क्रौञ्चपदापञ्चमे दशमे अष्टादशे पञ्च-विंशतौ यतिः ।षड्विंशत्यक्षरा वृत्तिः उत्कृतिः ।भुजङ्गविजृम्भतम्अष्टमे ऊनविंशतौ षड्विंशतौ चयतिः ।अपवाहम्छन्दसां लक्षणगणाः ।भ्रौनरना रनावथगुरुर्दिगर्कविरमं हि भद्रकमिदम्ऽ॥
, ऽ।ऽ,
।, ऽ।ऽ,
।, ऽ।ऽ,
।, ऽलालित्यं भुजगेन्द्रेण भाषितमेतच्चेन् मसरस्त-जनगुभिःऽऽऽ,
ऽ, ऽ।ऽ,
ऽ, ऽऽ।, ।ऽ।,
।, ऽसजता नसौ ररौ गः फणितुरगहयैः स्यान्महास्रग्धराख्या॥
ऽ, ।ऽ।, ऽऽ।,
।,
ऽ, ऽ।ऽ, ऽ।ऽ, ऽनजभजभा जभौ लघुगुरू बुधैस्तु गदितेय-मद्रितनया॥
।, ।ऽ।, ऽ॥
, ।ऽ।, ऽ॥
, ।ऽ।, ऽ॥
, ।, ऽमत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघु-गुरुभिःऽऽऽ, ऽऽऽ, ऽ, ऽ,
, ऽइह सुन्दरिका पिङ्गलमुनिनोक्ता सद्वयतोभसता ज्लभगाः॥
ऽ,
ऽ, ऽ॥
,
ऽ, ऽऽ।, ।ऽ।, ।, ऽ॥
, ऽभूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदिभवति तन्वीऽ॥
, ऽऽ।,
।,
ऽ, ऽ॥
, ऽ॥
,
।, ।ऽऽनाम किरीटमिदं भगणा यदि पिङ्गलनाग-मुनीन्द्रमतं किलऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
, ऽ॥
सगणैरिह वृत्तवरं वसुभिः किल दुर्म्मिलमुक्तमिदंकविभिः॥
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽक्रौञ्चपदा स्यात् भो मसभाश्चेदिषुशरवसुमुनि-यति मनुलघुगैःऽ॥
, ऽऽऽ,
ऽ, ऽ॥
,
।, ऽवस्वीशाश्वैश्छेदोपेतं ममतननयुग रसलगै-र्भुजङ्गविजृम्भितम्ऽऽऽ, ऽऽऽ, ऽऽ।,
।,
।,
।, ऽ।ऽ,
ऽ, ।, ऽमो नाः षट् सगगिति यदि नवरसरसशर-यतियुतमपवाहाख्यम्ऽऽऽ,
।,
।,
।,
।,
।,
।,
ऽ, ऽ, ऽछन्दसामुदाहरणानि ।खरतरशौर्य्यपावकशिखापतङ्गनिभमग्नदृप्तदनुजोजलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ।भुवनहितावतारचतुरश्चराचरघरोऽवतीर्ण इह हिक्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया
मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसात्गाने याने किञ्चित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् ।रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसंसान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम्
माधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैःकम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा ।पद्मपलाशैर्व्विरचितशयना देहजसंज्वरभरपरिदूनैर्निःश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी
क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिराफुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरभसकरी ।फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुःपश्य हरेऽसौ कस्य चेतो हरति तरलगतिरहिम-किरणजा
हेलोदञ्चन्न्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालक-श्चारुप्रेङ्खच्चूडावर्हः शुतितरलनवकिसलयस्तरङ्गित-हारधृत् ।त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुति-रच्युतःपायाद्वश्छिन्दन् कालिन्दीह्रदकृतनिजवसतिबृहद्भजङ्ग-विजृम्भितम्
छन्दसां वृत्तिनामानि ।अथ दण्डकाः ।सप्तविंशत्यक्षरा वृत्तिः ।चण्डवृष्टिप्रपातःप्रचितकःकुसुमस्तवकम्मत्तमातङ्गलीलाकरःअष्टविंशत्यक्षरा वृत्तिः ।अशोकपुष्पमञ्जरीअनङ्गशेखरःछन्दसां लक्षणगणाः ।यदिह नयुगलं ततः सप्तरेफास्तदा चण्ड-वृष्टिप्रपातो भवेद्दण्डकः॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डकोनद्वयादुत्तरैः सप्तभिर्यैः॥
।,
।, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽसगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्तिबुधाः कुसुमस्तवकम्॥
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽ,
ऽयत्र रेफः परं स्वेच्छया गुम्फितः स्मृतो दण्डकोमत्तमातङ्गलीलाकरःऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽयत्र दृश्यते गुरोः परो लघुः क्रमात् उच्यतेबुधैरशोकपुष्पमञ्जरीतिऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डकोभवत्यनङ्गशेखरः।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽछन्दसामुदाहरणानि ।प्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलंसपदि समवलोक्य सव्येन हस्तेन गोवर्द्धनं नाम शैलंदधल्लीलया ।कमलनयन ! रक्ष रक्षेति गर्ज्जत्त्रसन्मुग्धगोपाङ्गनालिङ्ग-नानन्दितोगलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तुप्रमोदाय वः
मुरहर ! यदुकुलाम्भोधिचन्द्र ! प्रभो ! देवकीगर्भरत्न !त्रिलोकैकनाथ !प्रचितकपटसुरारिव्रजोद्दामदन्ताबलस्तोमविद्रावणेकेशरीन्द्र ! ।चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार !प्रणतजनपरितापोग्रदावानलोच्छेदमेघ ! प्रसीद प्रसीदप्रसीद
विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशःकुचकुट्टलगोभ्रमरप्रकरेण यथावृतमूर्त्तिरशोकलताविलसत्कुसुमस्तवकः
नवीनतमालदलप्रतिमच्छविबिभ्रदतीवविलोचनहारिवपु-श्चपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुज-मध्यगतः
हेमगौरं वसानोऽंशुकं शक्रनीलासिते वर्ष्मणि स्पष्टदिव्या-नुलेपाङ्कितोहारतारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्वलाङ्गःसमं सीरिणा ।अञ्जनाभास्वरेणेन्दुकुन्दाभ देहेन लीलापरिहास-हासोर्म्मिकौतूहलैःकंसरङ्गाद्रिपः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्ग-लीलाकरः
मूर्द्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारु-चन्द्रिका कचेषुकर्णयोरशोकपुष्पमञ्जरीवतंसको गलेच कान्तकेशरो-पकॢप्तदाम ।फुल्लनागकेशरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्त-वेश एषकेशवः पुनातु वः सुपुष्पभूषितः मूर्त्तिमानिवागतोमधुर्विहर्त्तुमत्र
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके ! विजृम्भ-माणगौरदीधितीरतिस्वहस्तनिर्म्मितः कलाकुतूहलेन चारुचम्पकैरनङ्ग-शेखरः किमु ।इति प्रमोदकारिणीं प्रियाप्रमोदलक्षणां गिरं समुद्गिर-न्मुरारिरद्भुतांप्रदोषकालसङ्गमोल्लसन्मना मनोजकेलिकौतुकी करोतु वःकृतार्थताम्
छन्दसां वृत्तिनामानि ।त्रिंशदक्षरा वृत्तिः ।अर्णःसिंहविक्रीडःत्रयस्त्रिंशदक्षरा वृत्तिःअर्णवःअशोकमञ्जरीषट्त्रिंशदक्षरा वृत्तिः ।व्यालःऊनचत्वारिंशदक्षरा वृत्तिः ।जीमूतःद्वाचत्वारिंशदक्षरा वृत्तिः ।लीलाकरःपञ्चचत्वारिंशदक्षरा वृत्तिःउद्दामःसिंहविक्रान्तःअष्टचत्वारिंशदक्षरा वृत्तिः ।शङ्खःइत्यादयः ।इति समवृत्तानि समाप्तानि
*
अथार्द्धसमवृत्तानि ।उपचित्रम् ११ ११ वृत्तिः ।प्रथमपाद तृतायपादे चद्वितीयपादे चतुर्थपादे चवेगवती १० ११ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चछन्दसां लक्षणगणाः ।प्रतिचरणविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूत-लीलाकरोद्दामशङ्खादयःप्रतिचरणं चण्डवृष्टिप्रपातस्य इत्यर्थः ।॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽयकारैः कवीच्छानुरोधान्निबद्धैः प्रसिद्धो विशुद्धो-ऽपरो दण्डकः सिंहविक्रीडनामा।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽस्वेच्छया रजौ क्रमेण संनिवेशयत्युदारधीः कविःस दण्डकः स्मृतो जयत्यशोकमञ्जरीऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽनयुगलगुरुयुगेवं यकाराः कबीच्छानुरोधा-त्तदा यत्र वक्ष्यन्त एषोऽपरो दण्डकः पण्डितै-रीरितः सिंहविक्रान्तनामा॥
।,
।, ।, ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ, ।ऽऽ॥
।,
।, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽ, ऽ।ऽविषमे यदि सौ सलगा दले भौ युजि भाद्-गुरुकावुपचित्रम् ।द्विरावृत्त्या श्लोकः पूरयितव्यः॥
ऽ,
ऽ,
ऽ, ।, ऽऽ॥
, ऽ॥
, ऽ॥
, ऽ, ऽविषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवतीस्यात्॥
ऽ,
ऽ,
ऽ, ऽऽ॥
, ऽ॥
, ऽ॥
, ऽ, ऽछन्दसामुदाहरणानि ।जय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासा-च्युतानन्त नारायणत्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बरश्रीपते माधव ।गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधा-धोक्षज श्रीनिधेवलिदमन नृसिंह शौरे भवाम्भोधिघोरार्णसि त्वं निमज्जन्त-मभ्युद्धरोपेत्य माम्
अर्णोवदर्णवादीनामप्युदाहरणानि बोद्धव्यानि
मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् ।गगनश्चपलामिलितं यथा शारदनीरघरैरुपचित्रम्
स्मर वेगवती व्रजरामा केशववंशरवैरतिमुग्धा ।रभसान्न गुरून् गणयन्ती केलिनिकुञ्जगृहाय जगाम
छन्दसां वृत्तिनामानि ।भद्रविराड् १० ११ वृत्तिः ।प्रथमपादे तृतीयपादे चद्बितीयपादे चतुर्थपादे चकेतुमती १० ११ वृत्तिः ।प्रथमपादे तृतीयपादे चद्बितीयपादे चतुर्थपादे चविपरीतपूर्व्वा ११ ११ वृत्तिः ।प्रथमपाद तृतीयपादे चद्बितीयपादे चतुर्थपादे चआख्यानकी ११ १२ वृत्तिः ।प्रथमपादे तृतीयपादे चद्बितीयपादे चतुर्थपादे चहरिणप्लुता ११ १२ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चअपरवक्त्रम् ११ १२ वृत्तिः ।प्रथमे तृतीये पादेद्बितीये चतुर्थे पादेद्रुतमध्या ११ १२ वृत्तिः ।प्रथमपादे तृतीयपादे चद्बितीयपादे चतुर्थपादे चमालभारिणी ११ १२ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चकौमुदी १२ १२ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चपुष्पिताग्रा १२ १३ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चजवमती १२ १३ वृत्तिः ।प्रथमपादे तृतीयपादे चद्वितीयपादे चतुर्थपादे चमञ्जुसौरभम् १२ १३ वृत्तिः ।प्रथमपादे तृतीयपादे चद्बितीयपादे चतुर्थपादे चछन्दसां लक्षणगणाः ।ओजे तपरौ जरौ गुरुश्चेत् म्सौ ज्गौ ग् भद्र-विराड् भवेदनोजेऽऽ।, ।ऽ।, ऽ।ऽ, ऽऽऽऽ,
ऽ, ।ऽ।, ऽ, ऽअसमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः॥
ऽ, ।ऽ।,
ऽ, ऽऽ॥
, ऽ।ऽ,
।, ऽ, ऽजतौ जगौ गो विषमे समे चेत् तौ ज्गौ एषाविपरीतपूर्व्वा।ऽ।, ऽऽ।, ।ऽ।, ऽ, ऽऽऽ।, ऽऽ।, ।ऽ।, ऽ, ऽआख्यानकी तौ जगुरू ओजे जतावनोजेजगुरू गुरुश्चेत्ऽऽ।, ऽऽ।, ।ऽ।, ऽ, ऽ।ऽ।, ऽऽ।, ।ऽ।, ऽ, ऽअयुजि प्रथमेन विवर्ज्जितं द्रुतविलम्बितकंहरिणप्लुता॥
, ऽ॥
, ऽ॥
, ऽ।ऽ॥
।, ऽ॥
, ऽ॥
, ऽ।ऽअयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौजरौ॥
।,
।, ऽ।ऽ, ।, ऽ॥
।, ।ऽ।, ।ऽ।, ऽ।ऽभत्रयमोजगतं गुरुणी चेद् युजि नजौज्ययुतौ द्रुतमध्याऽ॥
, ऽ॥
, ऽ॥
, ऽ, ऽ॥
।, ।ऽ।, ।ऽ।, ।ऽऽविषभे ससजा यदा गुरू चेत् सभरा येन तुमालभारिणीयम्॥
ऽ,
ऽ, ।ऽ।, ऽ, ऽ॥
ऽ, ऽ॥
, ऽ।ऽ, ।ऽऽअयुजि ननभभा समकेऽपि तु नयुगरयुगलं तदाकौमुदी॥
।,
।, ऽ॥
, ऽ॥
।,
।, ऽ।ऽ, ऽ।ऽअयुजि नयुगरेफतो यकारो युजि नजौजरगाश्च पुष्पिताग्रा॥
।,
।, ऽ।ऽ, ।ऽऽ॥
।, ।ऽ।, ।ऽ।, ऽ।ऽ, ऽस्यादयुग्मके रजौ रयौ समे चेत् जरौ जरौगुरुर्ज्जवात् परा मतीयम्ऽ।ऽ, ।ऽ।, ऽ।ऽ, ।ऽऽ।ऽ।, ऽ।ऽ, ।ऽ।, ऽ।ऽ, ऽयदि विषमे भवतो नजौ जरौ सजयाः समे तुजगौ मञ्जसौरभम्॥
।, ।ऽ।, ।ऽ।, ऽ।ऽ॥
ऽ, ।ऽ।, ।ऽऽ, ।ऽ।, ऽछन्दसामुदाहरणानि ।स्फुटफेनचया हरिणप्लुता वलिमनोज्ञतटा तरणेः सुता ।कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्म्मनः
स्फुटसुमधुरवेणुगीतिभिस्तमपरवक्त्रमवेत्य माधवम् ।मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमाः
करकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः ।स्मितरुचिरविलासपुष्पिताग्रा व्रजयुवतिव्रतती हरेर्मुदेऽभूत्
छन्दसां वृत्तिनामानि ।सुन्दरी १० ११ वृत्तिः ।प्रथमे तृतीये पादे चद्बितीये चतुर्थे पादे चइत्यर्द्धसमवृत्तानि समाप्तानि
*
अथ विषमवृत्तानि ।उद्गताप्रथमे पादे १०द्वितीये १०तृतीये १०चतुर्थे १३अन्यविधोद्गताप्रथमे पादे १०द्वितीये १०तृतीये ११चतुर्थे १३सौरभम्प्रथमे पादे १०द्वितीये १०तृतीये १०चतुर्थे १३ललितम्प्रथमे पादे १०द्वितीये १०तृतीये १२चतुर्थे १३वक्त्वम्प्रथमे पादे ८द्वितीये ८तृतीये ८चतुर्थे ८पथ्यावक्त्रम्प्रथमे पादे ८द्वितीये ८तृतीये ८चतुर्थे ८छन्दसां लक्षणगणाः ।अयुजोर्यदि सौ जगौ युजोः सभराः ल्गौ यदिसुन्दरी तदा॥
ऽ,
ऽ, ।ऽ।, ऽ॥
ऽ, ऽ॥
, ऽ।ऽ, ।, ऽप्रथमे सजौ यदि सलौ नसजगुरुकाण्य-नन्तरम् ।यद्यथ भनभगाः स्युरथो सजसा जगौ भव-तीयमुद्गता
ऽ, ।ऽ।,
ऽ, ।॥
।,
ऽ, ।ऽ।, ऽऽ॥
,
।, ऽ॥
, ऽ॥
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽप्रथमे सजौ यदि सलौ नसजगुरुकाण्य-नन्तरम् ।यद्यथ भनजलगाः स्युरथो सजसा जगौ चभवतीयमुद्गता
ऽ, ।ऽ।,
ऽ, ।॥
।,
ऽ, ।ऽ।, ऽऽ॥
,
।, ।ऽ।, ।, ऽ॥
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽत्रयमुद्गता सदृशमेव पदमिह तृतीयमन्यथा ।जायते रनभगैर्ग्रथितं कथयन्ति सौरभक-मेतदीदृशम्
ऽ, ।ऽ।,
ऽ, ।॥
।,
ऽ, ।ऽ।, ऽऽ।ऽ,
।, ऽ॥
, ऽ॥
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽनयुगं सकारयुगलञ्च भवति चरणे तृतीयके ।तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य सकलंयथोद्गता ।॥
ऽ, ।ऽ।,
ऽ, ।॥
।,
ऽ, ।ऽ।, ऽ॥
।,
।,
ऽ,
ऽ॥
ऽ, ।ऽ।,
ऽ, ।ऽ।, ऽवक्त्रं युग्भ्यां मगौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ।ऽऽऽऽ।ऽऽऽऽऽऽऽ।ऽऽऽऽ।ऽऽ।ऽऽऽऽऽऽऽ।ऽऽऽयुजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्त्तितम् ।ऽ।ऽ॥
ऽऽ।ऽऽ॥
।ऽ।ऽऽऽऽ॥
ऽऽऽऽऽऽ॥
ऽ।ऽछन्दसामुदाहरणानि ।यदवोचदवेक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा ।अपि कंसहरस्य दुर्व्वचं वचनन्तद्बिदधीत विस्मयम्
विललास गोपरमणीषु तरणितनयाप्रभोद्गता ।कृष्णनयनचकोरयुगे दधती सुधांशुकिरणोर्म्मिविभ्रमम्
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः
इति भारवावुद्गताभेदः १२
परिभूतफुल्लशतपत्रवनविसृतगन्धविभ्रमा ।कस्य हृन्न हरतीह हरे मुखपद्मसौरभकला तवाद्भुता
व्रजसुन्दरी समुदयेन मुदितमनसा स्म पीयते ।हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र-विच्युतम्
वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् ।वल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः
रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे ।आसीद्गोपमृगाक्षीणां पथ्या वक्त्रमधुस्रुतिः
छन्दसां वृत्तिनामानि ।अनुष्टुपप्रथमे चरणे ८द्बितीये ८तृतीये ८चतुर्थे ८इति वृषमवृत्तानि समाप्तानि
*
अथ मात्रावृत्तानि ।आर्य्या अर्थात् गाथाप्रथमे पादे १२द्वितीये १८तृतीये १२चतुर्थे १५प्रकारान्तरो यथाप्रथमे पादे १२द्वितीये १८तृतीये १२चतुर्थे १५नवधा आर्य्या क्रमेण यथा ।पथ्याप्रथमे पादे १२द्वितीये १८तृतीये १२चतुर्थे १५विपुलाप्रथमे पादे १८द्बितीये १२तृतीये १४चतुर्थे १३चपलाप्रथमे पादे १२द्वितीये १८तृतीये १२चतुर्थे १५मुखचपलाप्रथमे पादे १२द्वितीये १८तृतीये १२चतुर्थेछन्दसां लक्षणगणाः ।पञ्चमं लघु सर्व्वत्र सप्तमं द्बिचतुर्थयोः ।गुरु षष्ठञ्च पादानां शेषेष्वनियमो मतः
प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्त्रलक्षणम् ।लोकेऽनुष्टुबिति ख्यातं तस्याष्ठाक्षरता मता
ऽ।ऽ॥
ऽऽ।ऽ।ऽ॥
ऽ।ऽ॥
ऽऽ।ऽऽऽऽऽ॥
।ऽ।ऽलक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे जः ।षष्ठो जश्च नलघु वा प्रथमार्द्धे नियतमार्य्यायाः
षष्ठे द्बितीयलात् परके न्ले मुखलाच्च सयतिपद-नियमः ।चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः
ऽऽ।ऽ।ऽऽऽ॥
ऽ।ऽ।ऽ॥
ऽ॥
।ऽ।ऽ॥
।ऽ।ऽऽ।ऽऽऽऽऽ।ऽ।ऽऽऽऽ॥
ऽ॥
ऽऽऽ॥
ऽ॥
ऽऽऽऽ॥
।ऽऽऽप्रथमगणत्रयविरतिर्दलयोरुभयीः प्रकीर्त्तिता पथ्या ।॥
ऽ॥
ऽऽऽ॥
ऽऽ।ऽ।ऽऽऽ॥
ऽ॥
ऽऽऽ॥
ऽ।ऽऽऽसंलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति
ऽऽ॥
ऽऽऽ॥
ऽऽऽ॥
ऽऽऽऽ॥
।ऽ।ऽऽऽऽऽऽ।ऽ॥
ऽदलयोर्द्वितीयतुर्य्यौ गणौ जकारौ तु यत्रचपला सा ।॥
ऽ।ऽ।ऽऽ।ऽ।ऽऽ।ऽ।ऽऽऽऽऽ।ऽ।ऽऽ।ऽ।ऽऽ।ऽऽऽआद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।शेषः पूर्व्वजलक्ष्मा मुखचपला सोदिता मुनिना
ऽ॥
ऽ।ऽऽ।ऽ।ऽऽ।ऽ।ऽऽऽऽ॥
ऽऽऽऽ॥
ऽऽ॥
।ऽछन्दसामुदाहरणानि ।पञ्चमं लघु सर्व्वत्र सप्तमं द्बिचतुर्थयोः ।गुरु षष्ठश्च पादानां शेषेष्वनियमो मतः
कृष्णः शिशुः सुतो मे वल्लवकुलटाभिराहृतो गृहे ।क्षणमपि वसत्यसाविति जगाद गोष्ठ्यां यशोदार्य्या
वृन्दावने सलीलं वल्गुद्रुमकाण्डनिहिततनुवष्टिः ।स्मेरमुखार्पितवेणुः कृष्णो यदि मनसि कः स्वर्गः
जय जय नाथ ! मुरारे ! केशव ! कंसान्तकाच्युतानन्त ! ।कुरु करुणामिति विनतिः पथ्या भवरोगदुःस्थानाम्
अत्र द्वितीयपादान्तलघोर्गुरुत्वम् ।पूर्व्वपरार्द्धयोर्द्बादशमात्रायां यतिः
पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि ।वीर्य्यविपुला मुखे चेत् स्याद्गोविन्दाख्यमन्त्रकला
अत्र द्वितीयचरणान्तलघोर्गुरुत्वम् ।पूर्व्वपरार्द्धयोर्द्बादशमात्रां संलङ्घ्य यतिः
चपला चेत् कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे ।धर्म्मार्थकाममोक्षास्तदा करस्था सन्देहः
नन्दसुत ! वञ्चकस्त्वं दृढं ते प्रेम गच्छ तत्रैव ।यत्र भवति ते रागः कापि जगादेति मुखचपला
अत्र द्वितीयपदान्तलघोर्गुरुत्वम्
छन्दसां वृत्तिनामानि ।जघनचपलाप्रथमे चरणे १२द्वितीये १८तृतीये १२चतुर्थे १५गीतिःप्रथमे चरणे १२द्वितीये १८तृतीये १२चतुर्थे १८उपगीतिःप्रथमे चरणे १२द्वितीये १५तृतीये १२चतुर्थे १५उद्गीतिःप्रथमे चरणे १२द्वितीये १५तृतीये १२चतुर्थे १८आर्य्यागीतिःप्रथमे चरणे १२द्वितीये २०तृतीये १२चतुर्थे २०पूर्व्वार्द्धे विंशत्याश्चतुर्विंशत्या वामात्राणां परार्द्धे षोडशमात्राणांपरे लघुवर्णचतुष्टये सति प्रथमंद्वितीयं वा लघ्वक्षरं प्राप्यआर्य्यायाः सामान्येन यतिनियमः
वैतालीयम् अपरवक्त्रमित्येके ।प्रथमे चरणे १४द्वितीये १६तृतीये १४चतुर्थे १६औपच्छन्दसकम्प्रथमे चरणे १६द्वितीये १८तृतीये १६चतुर्थे १८एतद्वैतालीयभेदः
छन्दसां लक्षणगणाः ।प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे चप-लायाः ।लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला
ऽऽऽऽ॥
ऽऽ॥
ऽ।ऽ॥
।ऽऽऽऽ।ऽ।ऽऽ।ऽ।ऽ॥
।ऽऽआर्य्याप्रथमार्द्धसमं यस्या अपरार्द्धमाह तांगीतिम् ।ऽ॥
ऽऽऽऽऽ॥
ऽ॥
।ऽ।ऽ॥
ऽऽऽऽऽऽऽ।ऽ।ऽऽ।ऽ।ऽऽऽआर्य्यापरार्द्धतुल्ये दलद्बये प्राहुरुपगीतिम् ।॥
ऽ।ऽ।ऽऽऽऽऽऽ।ऽऽऽऽऽ॥
ऽऽऽ॥
ऽऽ।ऽऽऽआर्य्याशकलद्बितये विपरीते पुनरिहोद्गीतिः ।ऽऽ।ऽ।ऽ॥
ऽऽऽऽ।ऽऽऽऽऽऽऽऽऽऽ॥
ऽऽ।ऽ।ऽ॥
ऽआर्य्याप्राग्दलमन्तेऽघिकगुरु तादृगपरार्द्ध-मार्य्यागीतिः ।ऽऽऽ॥
ऽ।ऽ।ऽऽ।ऽ।ऽ॥
ऽऽऽऽऽऽऽऽऽऽऽऽ।ऽ॥
।ऽऽऽषड्विषमेऽष्टौ समे कलास्ताश्च समेस्युर्नो निर-न्तरा ।न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौगुरुः
ऽ॥
ऽ।ऽ।ऽ॥
ऽऽ॥
ऽ।ऽ।ऽ॥
ऽ॥
ऽ।ऽ।ऽऽऽऽऽऽ।ऽ।ऽतत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसकं कवीन्द्र-हृद्यम् ।ऽऽऽऽ।ऽ।ऽऽऽऽऽ॥
ऽ।ऽ।ऽऽऽऽऽऽ।ऽ।ऽऽऽऽऽ॥
ऽ।ऽ।ऽऽछन्दसामुदाहरणानि ।कृष्णः शृङ्गारपटुर्यौवनमदचञ्चलः सुललिताङ्गः ।आसीद्व्रजाङ्गनानां मनोहरो जघनचपलानाम्
केशववंशीगीतिर्लोकमनोहरिणहारिणी जयति ।गोपीमानग्रन्थेर्व्विमोचनी दिव्यगायनाश्चर्य्या
अत्र द्बितीयचरणान्तलघोर्गुरुत्वम्
नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् ।अस्मारयदुपगीतिः स्वर्गकुरङ्गीदृशां गीतिम्
नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्भक्त्या ।अर्च्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः
हर्षाश्रुस्तिमितदृशः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः ।आर्य्यागीतिं भक्त्या गायन्ति श्रीपतेश्चरितसम्बद्धाम्
लघुगुरुविपर्य्ययरूपप्रस्तारभेदेन बहुविधा आर्य्या भवन्ति
घुसृणेन मदेन चर्च्चितं तव यन्निन्दति राधिके कुचम् ।मुदमातनुतेऽत्र पक्त्रिमं तद्बैतालीयं फलं हरेः
लघुगुरुव्यत्थयेनापि बहुधा भवति
आतन्वानं सुरारिकान्तास्वौपच्छन्दसकं हृदा विनोदम् ।कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम्
छन्दसां वृत्तिनामानि ।पज्झटिकाप्रथमे चरणे १६द्वितीये १६तृतीये १६चतुर्थे १६दोहडिकाप्रथमे चरणे १३द्वितीये १३तृतीये ११चतुर्थे ११अस्या अन्त्या मात्रा लघ्वी अप-भ्रंशभाषया प्रचारः
इति मात्रावृत्तानि समाप्तानि
*
छन्दसां लक्षणगणाः ।प्रतिपदयमकितषोडशमात्रा नवमगुरुत्वविभू-षितगात्रा ।पज्झटिकापुनरत्र विवेकः क्वापि मध्य-गुरुर्गण एकः
ऽऽऽऽऽऽ॥
ऽ॥
ऽ॥
ऽऽऽ॥
ऽ॥
ऽऽऽ॥
ऽ॥
ऽऽमात्रा त्रयोदशकं यदि पूर्व्वं लघुकविरामि ।पश्चादेकादशकन्तु दोहडिका द्विगुणेन
ऽऽऽ॥
।ऽ।ऽऽ।ऽऽ।ऽऽ॥
ऽ।॥
ऽ॥
ऽ।छन्दसामुदाहरणानि ।तरलवतंसाश्लिष्टस्कन्धश्चलतरपज्झटिकाकटिबन्धः ।मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त्त मुकुन्दः
इयं प्रतिपदयमकितषोडशमात्रा लघुगुरुव्यत्ययेनापि बहुधा ।अस्या नवमी मात्रा कदाचित् लघ्वी भवति
माई दोहडिपठण शुणि हासिओ काणु गोआल ।वृन्दावणघणकुञ्ज चलिओ कमलरसाल
अस्यार्थः हे मातः ! दोहडिकापाठं श्रुत्वा कृष्णोगोपालो हसित्वा कमपि रसालं चलितः कुत्र वृन्दावनघन-कुञ्जे वृन्दावनस्य निविडनिकुञ्जे राई इति क्वचित् पाठःतन्मतेन राधिकाया दोहडिकापाठं श्रुत्वा
गुरुलघुव्यत्ययेन बहुधा भवति
अत्र समवृत्तानि (२४७) सप्तचत्वारिंशदधिकं द्विशतं, अर्द्धसमवृत्तानि (१५) पञ्चदश, विषमवृत्तानि (७) सप्त, मात्रावृत्तानि (१५) पञ्चदश, समुदायेन (२८४) चतुरशीत्यधिकद्विशतसंख्यकानि छन्दांसि लिखितानीति
*