| YouTube Channel

छदनम् (chadanam)

 
Apte Hindi
Hindi
छदनम्
नपुं*
- "छद्-अच्, ल्युट् वा"
"आवरण, चादर, अल्पच्छद, उत्तरच्छद आदि"
छदनम्
नपुं*
- -
"स्कन्ध, पक्ष"
छदनम्
नपुं*
- -
"पत्र, पर्ण"
छदनम्
नपुं*
- -
"म्यान, खोल, गिलाफ, पेटी, बक्स"
Wordnet
Sanskrit
Synonyms:
तेजःपत्त्रम्, तेजःपत्रम्, तापसजम्, तमालपत्त्रम्, तमालपत्रम्, तमालकम्, शिम्बपत्रम्, शिम्बपत्त्रम्, गन्धजातम्, छदनम्, गोपनम्, त्वक्पत्त्रम्, त्वक्पत्रम्, पत्त्रम्, पत्रम्, रामः, पत्त्राख्यम्, पत्राख्यम्
noun
उपस्करभेदः- त्वक्सार-वृक्षस्य पत्रम्।
"तेजःपत्त्रेण भोजनं रुचिकरं भवति।"
Synonyms:
कुक्षिः, कलहः, कोशः, छदनम्, पिच्छा, पिधानम्, पिधानकम्
noun
सः स्यूतः यस्मिन् अस्यादीनि शस्त्राणि स्थापयित्वा शरीरे धारयन्ति।
"असिः कुक्ष्यां स्थापय।"
Synonyms:
छादनम्, आच्छादनम्, प्रच्छादनम्, पिधानम्, अपिधानम्, पटलम्, प्रावरणम्, आवरणम्, वरणम्, छदनम्, पुटः, अपवारणम्, वेष्टनम्
noun
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
"छादनात् वस्तूनां रक्षणं भवति।"
Synonyms:
पक्षः, पक्ष्म, गरुत्, द्हधिः, पत्रम्, पतत्रम्, छदः, छदः, छदनम्, तनुरूहः, तनुरुहः, वाजः, बाहुकुत्थः
noun
खगादीनाम् अवयवविशेषः।
"लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।"
Tamil
Tamil
ச2த3னம் : மூட உதவும் பொருள், சிறு துணி, போர்வை, வாளின் உறை, கூடு, மூடி.
कृदन्तरूपमाला
Sanskrit
1 {@“छद अपवारणे”@} 2 आधृषीयः।
3 ‘छदिरूर्जने’ 4 इति भ्वादिषु पठ्यते।
तत्र छदिरिति इका निर्देशः।
ऊर्जनम् = बलनम् प्राणनं वा।
चुरादिषु पठितस्य छदधातोराधृषीयत्वेन णिज्विकल्पनात् स्वार्थे णिजभावपक्षे मित्त्वार्थोऽयमनुवादः।
धातूनामनेकार्थत्वा- दूर्जने वृत्तिः।
छदन्तं प्रयुङ्क्ते छदयति = बलवन्तं प्राणवन्तं वा करोतीत्यर्थः।
यदा तु छादयतीति स्वार्थे ण्यन्तः, तदा बलीभवति, प्राणीभवति, अपवारयतीति वाऽर्थः।
तदा, ‘नान्ये मितोऽहेतौ’ 5 इति वचनात् मित्त्वं न।
‘छदिरर्जने’ इति कुत्रचिद् दृष्टः पाठो साम्प्रदायिकः।
‘छेद अपवारणे’ इति चुरादावेवोत्तरत्र विद्यमानस्य धातोरपि ‘छद’ इत्येव क्षीरस्वामिसम्मतः पाठोऽप्यनार्ष इति ज्ञायते।
देवपुरुषकारावप्यस्मदुक्तार्थोपष्टम्भकावेव।
‘छादेर्घेऽद्व्युपसर्गस्य’ 6 इत्यादिसूत्राण्येवास्य धातोः भ्वादिषु पाठाभावे गमकानीत्यपि ज्ञेयम्।]] 7 ‘यौ वा णौ--अपवारणे छदत इत्येकम्, द्वितीयं छदेत्, 8 अन्यत् छादयति, छदेदिति पुनः स्यादूर्जनेऽर्थे मितः।
यत्तु च्छन्दयतीति णौ नुमि पदं-तत संवृताविष्यते’ -- 9 इति देवः।
10 छादकः-दिका, 11 चिच्छादयिषकः-षिका, 12 छादकः-दिका, चिच्छदिषकः- षिका, 13 चाच्छदकः-दिका, 14 छदकः-दिका
छादयिता-त्री, चिच्छादयिषिता-त्री, छदिता-त्री, चिच्छदिषिता-त्री, चाच्छदिता-त्री, छदयिता-त्री
छादयन्-न्ती, चिच्छादयिषन्-न्ती, 15 छदन्-न्ती, चिच्छदिषन्-न्ती, -- छदयन्-न्ती
छादयिष्यन्-न्ती-ती, चिच्छादयिषिष्यन्-न्ती-ती, छदिष्यन्-न्ती-ती, चिच्छ-दिषिष्यन्-न्ती-ती, -- छदयिषिष्यन्-न्ती-ती
छादयमानः, चिच्छादयिषमाणः
16 छदमानः, चिच्छदिषमाणः, चाच्छद्यमानः, छदयमानः
छादयिष्यमाणः, चिच्छादयिषिष्यमाणः, छदिष्यमाणः, चिच्छदिषिष्यमाणः, चाच्छदिष्यमाणः, छदयिषिष्यमाणः
17 18 तनुच्छत्-तनुच्छदौ-तनुच्छदः
-- -- 19 छन्नम्- 20 छन्नः-छादितः- 21 तम्, चिच्छादयिषितः, छदितः-तम्, चिच्छदिषितः, चाच्छदितः, 22 छदितः-तवान्
छादः, चिच्छादयिषुः, छदः, चिच्छदिषुः, चाच्छदः, छदः
छादयितव्यम्, चिच्छादयिषितव्यम्, छदितव्यम्, चिच्छदिषितव्यम्, चाच्छदितव्यम्, छदयितव्यम्
छादनीयम्, चिच्छादयिषणीयम्, छदनीयम्, चिच्छदिषणीयम्, चाच्छदनीयम्, छदनीयम्
द्यम्, चिच्छादयिष्यम्, छाद्यम्, चिच्छदिष्यम्, चाछद्यम्, छद्यम्
ईषच्छादः-दुश्छादः-सुच्छादः
-- -- छाद्यमानः-चिच्छादयिष्यमाणः, छद्यमानः, चिच्छदिष्यमाणः, चाच्छद्यमानः, छद्यमानः
छादः, 23 प्रच्छदः-उरश्छदः-दन्तच्छदः, समुपच्छादः, 24 समुपातिच्छादः, चिच्छादयिषः, छादः, चिच्छदिषः, चाच्छदः, छदः
छादयितुम्, चिच्छादयिषितुम्, छदितुम्, चिच्छदिषितुम्, चाच्छदितुम्, छदयितुम्
छादना, चिच्छादयिषा, छत्तिः, चिच्छदिषा, चाच्छदा, छदना
छादनम्, चिच्छादयिषणम्, छदनम्, चिच्छदिषणम्, चाच्छदनम्, छदनम्
25 छादयित्वा, चिच्छादयिषित्वा, छदित्वा, चिच्छदिषित्वा, चाच्छदित्वा, छदयित्वा
प्रच्छाद्य, प्रचिच्छादयिष्य, प्रच्छद्य, प्रचिच्छदिष्य, प्रचाच्छद्य, 26 प्रच्छदय्य
छादम् २, छादयित्वा २, चिच्छादयिषम् २, चिच्छादयिषित्वा २, छादम् २, छदित्वा २, चिच्छदिषम् २। चिच्छदिषित्वा २, चाच्छदम् २, चाच्छदित्वा २, 27 छदम् -छादम् २। छदयित्वा
28 इसिप्रत्यये छदिः इति भवति।
‘इस्मन्त्रन्क्विषु च’ 29 इति, उपधाया ह्रस्वः।
छादयतीति छदिः = चर्म, आवरणं च।]] छदिः, 30 ष्ट्रन् प्रत्यये, ‘इस्मन्त्रन्क्विषु च’ 31 इत्युपधाह्रस्वे रूपम्।
छाद्यतेऽनेनेति छत्त्रम् = आतपत्रम्।]] छत्त्रम्, 32 इति मनिनि प्रत्यये छद्म = कपटम्।]] छद्म।
प्रासङ्गिक्यः
01
=>
(५६२)
02
=>
(१०-चुरादिः-१८३४। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(ग। सू।)
05
=>
(ग। सू। चुरादौ)
06
=>
(६-४-९६)
07
=>
[पृष्ठम्०५३५+ २४]
08
=>
(छदन्)
09
=>
(श्लो। ११३)
10
=>
[[१। स्वार्थे णिचि, ‘अत उपधायाः’ (७-२-११६) इति वृद्धौ रूपम्।]]
11
=>
[[२। ण्यन्तात् सनि, अभ्यासात् परतः, ‘छे च’ (६-१-७३) इति तुक्। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वेन चकारः। एवं सन्नन्ते यङन्ते बोध्यम्।]]
12
=>
[[३। ‘आधृषाद्वा’ (गणसूत्रं चुरादौ) इति णिचो वैकल्पिकत्वम्। तेन, णिजभावपक्षे शुद्धाद्धातोर्ण्वुलि रूपम्। ण्यन्तप्रकृतिकण्वुलन्तस्य, अस्य चार्थमेदो नास्ति।]]
13
=>
[[४। णिजभावपक्षे, यङन्ते, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे, ‘दीर्घात्’ (६-१-७५) इति तुकि, तस्य श्चुत्वेन चकारे रूपम्। एवमुत्तरत्रापि रूपनिष्पत्तिर्ज्ञेया।]]
14
=>
[[५। ‘छदिरूर्जने’ (गणसूत्रम्-भ्वादौ) इति घटादिषु पाठेनास्य मित्त्वात्, अस्मात्, हेतुमण्णिचि परतः, उपधावृद्धौ, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वे, ‘छदकः- दिका’ इत्यादीनि, ऊर्जनार्थे विद्यमानस्यास्य धातोर्णौ बोध्यानि।]]
15
=>
[[आ। ‘मल्लोऽर्द्यः हिंसितः पदमुपासात्सीद्धरेः शुन्धितः तावत् स्वं बलमच्छदन् जुषितवान् मुष्ट्या हली मुष्टिकम्।।’ धा। का। ३-५०।]]
16
=>
[[६। धातोः स्वरितेत्त्वेन, शुद्धात्, ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले (१-३-७२) इति आत्मनेपदम्। परगामिनि क्रियाफले तु, ‘शेषात् कर्तरि परस्मैपदम्’ (१-३-७८) इति परस्मैपदमपि भवति।]]
17
=>
[पृष्ठम्०५३६+ २४]
18
=>
[[१। ‘क्विप् च’ (३-२-७६) इति क्विपि, ‘इस्मन्त्रन्क्विषु च’ (६-४-९७) इति णौ, उपधायाः ह्रस्वः।]]
19
=>
[[२। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ (७-२-२७) इति ण्यन्तात्, निष्ठायाः इडभावः उपधाह्रस्वत्वं निपात्यते। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठानत्वम्। पक्षे छादितः इत्यपि भवति।]]
20
=>
[[आ। ‘प्रच्छन्नस्तरुगहनैः गुल्मजालैः लक्ष्मीवाननुपदमस्य सम्प्रतस्थे।।’ किरातार्जुनीये १२-५४।]]
21
=>
[[B। ‘आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदग्रविशालशृङ्गम्।’ शिशुपालवधे ४-१९।]]
22
=>
[[३। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
23
=>
[[४। छादेः करणार्थे, प्रच्छाद्यतेऽनेनेत्यर्थे, ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घप्रत्यये, ‘छादेर्घेऽद्व्युपसर्गस्य’ (६-४-९६) इति उपधाह्रस्वः। एवं दन्त- च्छदः उरश्छदः इत्यादिष्वपि ज्ञेयम्।]]
24
=>
[[५। ‘अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्’ (वा-६-४-९६) इत्युक्तत्वात् द्विप्रभृतिषूपसर्गेषु सत्स्वपि ह्रस्वो प्रवर्तते।]]
25
=>
[पृष्ठम्०५३७+ १९]
26
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
27
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
28
=>
[[३। औणादिके [द। उ। ९। ३०]
29
=>
(६-४-९७)
30
=>
[[४। ‘ष्ट्रन्’ [द। उ। ८-७९]
31
=>
(६-४-९७)
32
=>
[[५। ‘मनिन्’ [द। उ। ६-७३]