| YouTube Channel

छत्त्रचक्रं (chattracakraM)

 
शब्दकल्पद्रुमः
Sanskrit
छत्त्रचक्रं,
क्ली,
(छत्त्राकृति चक्रम् ।) चक्रविशेषः ।यथा, समयामृते छत्त्रचक्रम् ।“अश्विनीमघमूलाद्यं चक्रं छत्त्रत्रयात्मकम् ।प्रतीचीमध्यरेखाया ईशानान्तं हयाधिपः
आग्नेयान्तं नराधीशो नैरृ तान्तं गजाधिपः ।एषां छत्त्रविभागेन ज्ञातव्यञ्च शुभाशुभम्
अन्यस्य राज्ञो नामर्क्षं यत्र छत्त्रे ततः फलम् ।चामरं कलसं बीणा छत्त्रं दण्डः पतद्ग्रहः
आसनं कीलकं रज्जुर्नव भेदाः प्रकीर्त्तिताः ।यत्र छत्त्रे स्थितः सौरिर्भङ्गं तस्य विनिर्द्दिशेत्
चामरे चण्डता वायोरनावृष्टिः प्रजायते ।दुर्भिक्षञ्च भवेत् घोरं प्रजापीडा संशयः
कलसस्थे भवेद्युद्धं भङ्गो घातादिकं ध्रुवम् ।वीणास्थेनार्कपुत्त्रेण पट्टराज्ञी विनश्यति
चलचित्तो भवेद्राजा भयभीता मेदिनी ।यदा ऋक्षत्रये सौरिश्छत्त्रे दण्डे पतद्ग्रहे
तदा तस्य भवेद्भङ्गश्छत्त्रस्यास्य संशयः ।आसनस्य भवेन्नाश आसनस्थे शनैश्चरे
युवराजक्षयः कीले बन्धनं रज्जुसंस्थिते ।सौम्ययुक्तोऽतिचारस्थः शनिरुक्तफलो हि
वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोति सः ।शनिराहुकुजादित्या यदा जीवेन्दुसंयुताः
उत्तराधीशराङ्गो वै निश्चितं छत्त्रभङ्गदाः ।क्रूरं चतुष्टयञ्चैव बुधचन्द्रेण संयुतम्
पूर्व्वच्छत्त्रविनाशाय तथा पापचतुष्टयम् ।शुक्रेन्दुसंयुतं छत्त्रे दक्षिणे शस्यभङ्गदम्
एवमन्येषु राज्येषु नामर्क्षात् फलमादिशेत् ।यथा दुष्टफलः सौरिस्तथा सौम्यफलो गुरुः
भौमज्ञौ गुरुराहू रविचन्द्रौ बले समौ ।यथा हानिकराः क्रूरास्तथा सौम्याः शुभङ्कराः
एतेऽत्राष्टौ ग्रहाश्छत्त्रे परचक्रेण भङ्गदाः ।नृपनामर्क्षगो राहुः केतुर्व्वा यत्र संस्थितः
छत्त्रभङ्गो भवेत्तस्य विषदानेन भूपतेः ।मृगयासाहसं यात्रां दुष्टहस्त्यश्ववाहनम्
विग्रहञ्च त्यजेद्राजा छत्त्रस्थे क्रूरखेचरे ।ज्ञात्वैवं शान्तिकं कुर्य्यात् ग्रहाणां जायतेशुभम्