छत्त्रं (chattraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Mahabharata
EnglishChattra[ṃ] = Śiva (1000 names^2).
शब्दकल्पद्रुमः
Sanskritछ(त्र)त्त्रं, (छादयत्यनेनातपादिकमिति । छद+ णिच् + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ ।१५८ । इति ष्ट्रन् णिलोपः ह्नस्वत्वञ्च ।) रौद्रवृष्टि-निवारणार्थावरणविशेषः । छाति इति भाषा ॥
तत्पर्य्यायः । आतपत्रम् २ । इत्यमरः । २ । ८ । ३२ ॥
छायामित्रम् ३ पटोटजम् ४ । इति शब्दरत्ना-वली ॥
आतपवारणम् ५ । राजच्छत्रं यथा, --“आतपत्रञ्च राज्ञस्तु नृपलक्ष्म सितन्तु तत् ।पुण्डरीकमथो भद्रासनं राजासनं तु यत् ॥
”इति जटाधरः ॥
अपि च शब्दरत्नावल्याम् ।“छत्त्रे कनकदण्डे तु रागशृङ्गमुदाहृतम् ।नृपलक्ष्म भवेत्तत्तु यच्छत्त्रं पृथिवीभुजाम् ॥
”तस्य गुणाः । वृष्ट्यातपधूलिवायुहिमनाशित्वम् ।वर्णदृष्टिकारित्वम् । गुप्त्यावरणमङ्गलकारि-त्वञ्च । इति राजंवल्लभः ॥
* ॥
तस्योत्पत्ति-र्यथा । एकदा ज्यैष्ठमासे जमदग्निमुनिर्घनुषिबाणान् सन्धाय सन्धाय प्रचिक्षेप तत्पत्नीरेणुका तान् बाणानानीयानीय तस्मै प्रादात् ।सा मध्याह्नकाले रौद्रेण पीडिता वृक्षच्छाया-सवलम्ब्य किञ्चित् कालं स्थित्वा तानानिनाय ।ऋषिस्तदा क्रुद्धस्तामाह किं चिरेणागता । साआह सूर्य्यतेजसा मे शिरः पादौ च सन्तप्तौतेन वृक्षच्छायामाश्रित्य स्थिता तस्मात् चिरायै-तत् कृतम् । तच्छ्रुत्वा मुनिराह अद्य सूर्य्यमस्त्रा-ग्नितेजसा निपातयिष्यामीत्युक्त्वा धनुषि बाणान्सन्धाय सूर्य्याभिमुखोऽतिष्ठत् । सूर्य्यस्तं दृष्ट्वामीतो द्विजरूपेण आगत्य आह सूर्य्यादन्नादिभवति तेनान्नेन भवद्भिः कर्म्माणि क्रियन्ते कथ-मेनं हनिष्यसि एवं माकार्षीस्तथापि मुनिःशमं न जगाम । अथ सूर्य्यः शिरस्त्राणं छत्त्रंनिर्म्माय तस्मै दत्त्वा अद्यप्रभृति एतत् लोकेप्रचरिष्यति व्रतादिषु च अस्य दानं महाफलंस्यादित्युक्त्वा गतः ॥
* ॥
तस्य दानफलं यथा, --“छत्त्रं हि भरतश्रेष्ठ ! यः प्रदद्यात् द्बिजातये ।शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।अप्सरोभिश्च सततं देवैश्च भरतर्षभ ! ॥
”इति महाभारते दानधर्म्मः ॥
अथ छत्त्रयुक्तिः ।“विशेषश्चाथ सामान्यं छत्त्रस्य द्बिविधा भिदा ।राज्ञश्छत्त्रं विशेषाख्यं सामान्यञ्चान्यदुच्यते ॥
तत्र विशेषच्छत्त्रोद्देशः ।सदण्डञ्चाथ निर्द्दण्डं तज्ज्ञेयं द्बिविधं पुनः ।सदण्डं तत्र विज्ञेयं सारणाकुञ्चनात्मकम् ॥
दण्डः कन्दः शलाकाश्च रज्जुर्व्वस्त्रञ्च कीलकः ।षड्भिरेतैः सुसन्दिष्टैश्छत्त्रमित्यभिधीयते ॥
दिगष्टषट्चतुर्हस्तदीर्घो दण्डो युगक्रमात् ।षड्बाणवेदनयनवितस्त्या कन्द उच्यते ॥
शतान्यशीतिः षष्टिश्च चत्वारिंशद्युगक्रमात् ।शलाकाः षट्पञ्चवेदत्रिहस्तैः सम्मिताः क्रमात् ॥
नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः ।गुणैस्तु नवभिः पाशो रश्मिस्तैर्नवभिर्भवेत् ॥
नवाष्टसप्तषट्संख्यैरश्मिभी रज्जवः क्रमात् ।वस्त्रं शलाकाद्विगुणमायामेन प्रतिष्ठितम् ॥
भानुदिग्ग्रहवसुभिरङ्गुलीभिस्तु कीलकः ।षण्णां षण्मानमुदितं तद्राज्ञामेव भूतये ॥
पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ॥
एतेन राज्ञो दण्डो दशहस्तः युवराजस्य तत्अन्येषामपि तदेव ।विशुद्ध्वकाष्ठस्य तु दण्डकन्दौतथा शलाका अपि शुद्धवंशजाः ।रज्जुश्च रक्ता वसनञ्च रक्तंछत्त्रप्रसादं नृपतेर्व्वदन्ति ॥
प्रसादमिति प्रसादार्हम् ।नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः ।सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥
चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी ।छत्त्रं मनोहरं राज्ञां स्वर्णकुम्भोपशोभितम् ॥
शुक्लानि रज्जुवासांसि स्वर्णकुम्भस्तथोपरि ।इदं कनकदण्डाख्यं छत्त्रं सर्व्वार्थसाधकम् ॥
दण्डकन्दशलाकाश्च शुद्धस्वर्णेन निर्म्मिताः ।कीलकं स्वर्णघटितमशुक्ले रज्जुवाससी ॥
कुम्भादिरथ हंसादिश्चामरादिर्यथाक्रमम् ।कुम्भादावथ हंसादौ नवरत्नानि रक्षयेत् ॥
द्वात्रिंशन्मौक्तिकी माला द्वात्रिंशत्तत्र दापयेत् ।सर्व्वोपरि ब्रह्मजातिं विशुद्धं हीरकं न्यसेत् ॥
दण्डान्ते कुरुबिन्दांश्च पद्मरागांश्च विन्यसेत् ।स्वामिहस्तैकमानेन चामरः सित इष्यते ॥
इत्ययं नवदण्डाख्यश्छत्त्रराजो महीभुजाम् ।अभिषेके विवाहे च ग्रहाणां प्रीतिवर्द्धनः ॥
पताका नवदण्डाग्रे राज्ञोऽष्टाङ्गुलिसंमिताः ।अयं दिग्विजयी नाम छत्त्रराजो महीभुजाम् ॥
”इति भोजराजकृतयुक्तिकल्पतरुः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
