| YouTube Channel

च्युतिँर् (cyuti~r)

 
धातुप्रदीपः
Sanskrit
च्युतिर् आसेचने
- च्योतति अच्युतत् ।अच्योतीत् च्युतित्वा च्योतित्वा ।। 39 ।।
क्षीरतरङ्गिणी
Sanskrit
च्युतिर् आसेचने
(अर्थविवरणम्) आसेचनमीषत्सेकः
च्योतति, च्योतिता इरितो वा (3157) इति लुङि वाऽङ् - अच्युतत्, अच्योतीत् च्युतित्वा च्योतित्वा, चिच्युतिषति चिच्योतिषति 39
धातुवृत्तिः
Sanskrit
च्युतिर् (अर्थः) आसेचने
"उपदेशेजनुनासिक इत्'' "हलन्त्यम्'' इतीकाररेफयोरित्वे सेचनमार्द्रीभावनम् यदाह हरदत्तः, सिचिः कर्मस्थक्रियः, आर्द्रीभावनं ह्मत्र प्रधानं तदथैत्वात्कारकव्यापारस्येति आङीषदर्थे ऽभिव्याप्तौ वा ( च्योतति चुच्योत चुच्योतिथ चुच्युतिव च्योतिता च्योतिष्यति अच्योतत् च्योतेत् अशिषि च्युत्वात् ) लुङि "इरितो वा '' इति च्लेः परस्मैपदे ष्वङादेशविधानान् ङित्त्वन्न गुणः ( अच्युतत् अच्युततामित्यादि ) अङभावे अच्योतीदित्यादि, कर्मादौ च्युत्यत इत्यादि चुच्युतिषति चुच्योतिषति च्योतित्वा च्युतित्वा ) पूर्ववत् कित्त्वविकल्पः ( चोच्युत्यते चोच्युतीति चोच्योत्ति ) ईटि "नाभ्यस्तस्य'' इतिगुणनिषेधः ( च्योतयति अचुच्युतत् ) निष्ठायाम् "उदुपधाद्भावादिकर्मणो'' इति कित्त्वविकल्प उदाहार्यः ( च्युतितमनेन च्योतितमनेनेत्यादि ) कर्माविवक्षायां कर्मकर्त्तरि भावसम्भवः 40