| YouTube Channel

च्युङ् (cyuG)

 
Shabdartha Kaustubha
Kannada
च्युङ् - गतौ (भ्वा० आत्म० अक० अनि०) च्यवते
पदविभागः - > धातुः
कन्नडार्थः - > ಕೈಯಿಂದ ಜಾರಿಬೀಳು /ಕಳಚಿಕೊ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
च्यु
मूलधातुः:
च्युङ्
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
च्यवते
अनुबन्धादिविशेषः:
उकारान्तः
धातुप्रदीपः
Sanskrit
च्युङ्
मानकरूपान्तरम् - छ्युङ्
छ्युङ्
मानकरूपान्तरम् - ज्युङ्
ज्युङ्
मानकरूपान्तरम् - झ्युङ्
झ्युङ्
मानकरूपान्तरम् - प्रुङ्
प्रुङ्
मानकरूपान्तरम् - प्लुङ्
प्लुङ् गतौ
- च्यवते चुच्युवे चिच्यावयिषति चुच्यावयिषति च्युतः छ्यवते ज्यवते जुज्युवे झ्यवते प्रवते आप्राव्यो देवदत्तः आप्राव्यं देवदत्तेन प्लवते पुप्लुवे ।। 960-965 ।।
क्षीरतरङ्गिणी
Sanskrit
च्युङ्
मानकरूपान्तरम् - छ्युङ्
छ्युङ्
मानकरूपान्तरम् - ज्युङ्
ज्युङ्
मानकरूपान्तरम् - प्रुङ्
प्रुङ्
मानकरूपान्तरम् - प्लुङ्
प्लुङ् गतौ
- च्यवते स्रवतिश्रृणोति (7481) इति वाभ्यासस्योत इः- चिच्यावयिषति, चुच्यावयिषति, अचिच्यवत् अचुच्यवत् च्युवः च्यवनः छ्यवते ज्यवते जुङ् इति नन्दी जवते जुचङ्क्रम्य (32150) इति युच् जवनः वृत्तिकृत् तु जुं सौत्रमाह-जवः, प्रजवी जोरी (उ02 23) जीरम् ऊतियूतिजूति (3 3 97) इति जूतिः क्विब्वचि (उ0 2 57) इति जूः पिशाचः प्रवते कटप्रूर्नदीतारः पिप्रावयिषति, पुप्रावयिषति, अपिप्रवत्, अपुप्रवत् बुधयुधनश (1383) इति ण्यन्तात् परस्मैपदम्-प्रावयति प्रवणः प्रुसृल्वः समभिहारे वुन् (31149) प्रवकः प्रोथोऽश्वघोणाग्रम् प्लुङो ऽप्येवम् भव्यगेय (3468) इत्याप्ला व्यश्चैत्रो नद्याः पचादौ (द्र0 31134) प्लवट् विभाषाङि रुप्लुवोः (3350) घञ्- आप्लावः, आप्लवः 925-929
धातुवृत्तिः
Sanskrit
च्युङ्
मानकरूपान्तरम् - ज्युङ्
ज्युङ्
मानकरूपान्तरम् - प्रुङ्
प्रुङ्
मानकरूपान्तरम् - प्लुङ्
प्लुङ् (अर्थः) गतौ
( च्यवते चुच्युवे चुच्युविषे चुच्युविध्वे चुच्युवे ) "अचि श्नुधातु'' इति उवङ् ( च्योता च्योष्यते अच्यवत च्यवेत च्योषीष्ट अच्योष्ट चुच्यूषते ) "इको झल्'' इतिकित्त्वे "अज्झन'' इति दीर्घः ( चोच्यूयते चीच्योति च्यावयति अचुच्यवत् अचिच्यवत् ) "स्रवतिशृणोति'' इत्यादिना अभ्यासस्येत्वम् ( च्यवनम् ) चलनार्थत्वात् युच् ( च्योत्रम् ) बाहुलकात्त्रण् ( ज्यवत ) इत्यादि च्यवतिवत् अत्र नन्दी जु इत्युकारं पठति, तत् जु इति सौत्रो धतुरिति वृत्तिन्यासपदमञ्जर्यादिष्वभिधानादनार्षमिव प्रतीयते ( प्रवते पुप्रुवे प्लवते पप्लुवे ) इत्यादि गवतिवत् अत्र मैत्रैयः क्लुङ् इत्येके ( क्लवते ) इत्यादि (क्लब इति विक्लब इति च) बवयो रभेदात् द्रष्टव्यम् क्रुङ् इति क्वचित्पठ्यते 939
कृदन्तरूपमाला
Sanskrit
1 {@“च्युङ् गतौ”@} 2 च्यावकः-विका, च्यावकः-विका, 3 चुच्यूषकः-षिका, 4 चोच्यूयकः-यिका, 5 चुच्यावयिषकः-चिच्यावयिषकः-षिका
च्योता-त्री, च्यावयिता-त्री, चुच्यूषिता-त्री, चोच्यूयिता-त्री, चुच्यावयिषिता-चिच्यावयिषिता-त्री
-- च्यावयन्-न्ती, -- चुच्यावयिषन्-चिच्यावयिषन्-न्ती
-- च्यावयिष्यन्, -- चुच्यावयिषिष्यन्-चिच्यावषिष्यन्-न्ती-ती
च्यवमानः, च्यावयमानः, चुच्यूषमाणः, चोच्यूयमानः, चुच्यावयिषमाणः-चिच्यावयिषमाणः
च्योष्यमाणः, च्यावयिष्यमाणः, चुच्यूषिष्यमाणः, चोच्यूयिष्यमाणः, चुच्यावयिषिष्यमाणः-चिच्यावयिषिष्यमाणः
6 प्रच्युत्-प्रच्युतौ-प्रच्युतः
-- -- -- च्युतम्- 7 तः-तवान्, च्यावितम्-तः, चुच्यूषितः, चोच्यूयितः, चुच्यावयिषितः-चिच्यावयिषितः-तवान्
8 9 च्यवः, 10 च्यवनः, च्यावः, चुच्यूषुः, 11 चोच्युवः, चुच्यावयिषुः-चिच्यावयिषुः
च्योतव्यम्, च्यावयितव्यम्, चुच्यूषितव्यम्, चोच्यूयितव्यम्, चुच्यावयिषितव्यम्-चिच्यावयिषितव्यम्
च्यवनीयम्, च्यावनीयम्, चुच्यूषणीयम्, चोच्यूयनीयम्, चुच्यावयिष-णीयम्-चिच्यावयिषणीयम्
12 च्यव्यम्- 13 अवश्यच्याव्यम्, च्याव्यम्, चुच्यूष्यम्, चोच्यूय्यम्, चुच्यावयिष्यम्-चिच्यावयिष्यम्
ईषच्च्यवः-दुश्च्यव-सुच्यवः
-- -- -- 14 च्यूयमानः, च्याव्यमानः, चुच्यूष्यमाणः, चोच्यूय्यमानः, चुच्यावयिष्यमाणः-चिच्यावयिष्यमाणः
15 च्यवः, च्यावः, चुच्यूषः, चोच्यूयः, चुच्यावयिषः-चिच्यावयिषः
च्योतुम्, च्यावयितुम्, चुच्यूषितुम्, चोच्यूयितुम्, चुच्यावयिषितुम्-चिच्यावयिषितुम्
च्युतिः, च्यावना, चुच्यूषा, चोच्यूया, चुच्यावयिषा-चिच्यावयिषा
16 च्यवनम्, च्यावनम्, चुच्यूषणम्, चोच्यूयनम्, चुच्यावयिषणम्-चिच्यावयिषणम्
च्युत्वा, च्यावयित्वा, चुच्यूषित्वा, चोच्यूयित्वा, चुच्यावयिषित्वा-चिच्यावयिषित्वा
17 प्रच्युत्य, प्रच्याव्य, प्रचुच्यूष्य, प्रचोच्यूय्य, प्रचुच्यावयिष्य-प्रचिच्यावयिष्य
च्यावम् २, च्युत्वा २, च्यावम् २, च्यावयित्वा २, चुच्यूषम् २, चुच्यूषित्वा २, चोच्यूयम् २, चोच्यूयित्वा २, चुच्यावयिषम् -चिच्यावयिषम्
चिच्यावयिषित्वा २-चिच्यावयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५५८)
02
=>
(१-भ्वादिः-९५५। सक। अनि। आत्म।)
03
=>
[[१। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘इको झल्’ (१-२-९) इति सनःकित्त्वेन, ‘ङ्किति’ (१-१-५) इति गुणनिषेधः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
04
=>
[[२। यङन्तात्, द्वित्वे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे, ‘अकृत्सार्वधातु- कयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। ण्यन्तात् सनि, ‘सन्यङोः’ (६-१-९) इति द्वित्वे, वृद्ध्यावादेशयोः अवर्णपरधात्व- क्षरपरकत्वादभ्यासघटकोकारस्य, ‘स्रवति शृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा’ (७-४-८१) इति पाक्षिके इकारे, रूपद्वयम्। एवं सर्वत्र ण्यन्तात् सनि प्रक्रिया बोध्या। ‘स्रवति--’ (७-४-८१) इति सूत्रसार्थक्यायैव, ण्यन्तात् सनि धातोरस्य सर्वाणि रूपाणि प्रदर्शितानि।]]
06
=>
[[४। ‘ह्रस्वस्य--’ (६-१-७१) इति तुक्। एवं ल्यप्य पि ज्ञेयम्।]]
07
=>
[[आ। ‘स्तोत्रावमानैर्दुतवेणुवीणैश्च्युताशुभैर्व्योमचरैर्ज्युतं ते।’ धा। का। २-३६।]]
08
=>
[पृष्ठम्०५३२+ १६]
09
=>
[[१। पचादित्वेन (३-१-१३४) अचि, गुणावादेशौ।]]
10
=>
[[२। चलनार्थकत्वेन, ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्। अनादेशः।]]
11
=>
[[३। यङन्तात् पचाद्यचि (३-१-१३४) ‘यङोऽचि च’ (२-४-७४) इति, अचो लुकि, ‘न धातुलोप--’ (१-१-४) इति गुणनिषेधे, उवङ्।]]
12
=>
[[४। ‘अचो यत्’ (३-१-९७) इति यति, गुणावादेशौ।]]
13
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14
=>
[[६। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
15
=>
[[७। ‘ॠदोरप्’ (३-३-५७) इति भावे घञपवादोऽप्प्रत्ययः।]]
16
=>
[[आ। ‘अत्तुं महेन्द्रियं भागमैति दुश्च्यवनोऽधुना।।’ भ। का। ५-११।]]
17
=>
[पृष्ठम्०५३३+ २१]