| YouTube Channel

च्यवनप्राश (cyavanaprAza)

 
Monier Williams Cologne
English
च्यवन—प्राश
m.
N.
of an electuary (cf. च्यावन),
Mallapr.
Shabdartha Kaustubha
Kannada
च्यवनप्राश
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶರೀರಕ್ಕೆ ಪುಷ್ಟಿಯನ್ನು ಕೊಡುವ ಒಂದು ಲೇಕ್ಯ /ಒಂದು ರಸಾಯನ
निष्पत्तिः - > प्र + अश (भोजने) - "घञ्" (३-३-१९)
व्युत्पत्तिः - > च्यवनेन प्राश्यते
वाचस्पत्यम्
Sanskrit
च्यवनप्राश
पु०
च्यवनेन प्राश्यते प्र + अश० कर्मणि घञ् ।चक्रदत्तोक्ते औषधभेदे यथा“विल्वाग्निमन्थश्योनाककाश्मर्य्यः पाटली बला पर्ण्य-श्चतस्रः पिप्पल्यः श्वदंष्ट्रा वृहतीद्वयम् शृङ्गी ता-मलकी द्राक्षा जीवन्ती पुष्करा गुरु अभया सामृताऋद्धिर्जीर्वकर्षभकौ शठी मुस्तं पुनर्णवा मेदा सूक्ष्मै-लोत्पलचन्दने विदारी वृषमूलानि काकोली काक-नासिका एषां पलोन्मितान् भागान् शतान्यामल-कस्य पञ्च दद्यात् तदैकध्यं जलद्रोणे विपाचयेत् ।ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् तच्चाम-लकमुद्धृत्य निष्कुलं तैलसर्पिषोः पलद्वादशके भृष्ट्वादत्त्वा चार्द्धतुलां भिषक् मत्स्यण्डिकायाः पूतायालेहवत् साधु साधयेन् षट्पलं मधुनश्चात्र सिद्धशीतेप्रदापयेत् चतुष्पलं तु गाम्भार्य्याः पिप्पल्या द्विपलन्तथा ।पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् इत्ययं च्यवन-प्राशः परमुक्तो रसायनः कासश्वासहरश्चैव विशेषे-णोपदिश्यते क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्ध-नम् स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ।पिपासां मूत्रशुक्रस्थान् दोषांश्चैवापकर्षति अस्य मात्रांप्रयुञ्जीत चोपरुन्ध्यान्न भोजनम् अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत् पुनर्युवा मेधां स्मृतिं कान्तिमनामयत्वंवपुःप्रकर्षं बलमिन्द्रियाणाम् स्त्रीषु प्रहर्षं परमग्नि-वृद्धिं वर्णप्रसादं पवनानुलोम्यम् रसायनस्यास्य नरःप्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् जराकृतंपूर्बमपास्य रूपं बिभर्त्ति रूपं नवयौवनानाम् सितामत्स्यण्डिकाऽलाभे धात्र्याश्च मृदु भर्जनम् चतुर्भाग-जले प्रायो द्रव्यं गतरसं भवेत् ।”