| YouTube Channel

च्छिका (cchikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिच्छ उत्क्लेशे”@} 2 ‘उत्क्लेशः = बाधनम्’ इति क्षीरस्वामी।
अस्य मते सकर्मकत्वम्।
उत्क्लेशः = पीडा।’ इति धातुवृत्तिः।
तदानीमकर्मकत्वम्।
3 मिच्छकः-च्छिका, मिच्छकः-च्छिका, 4 मिमिच्छषकः-षिका, मेमिच्छकः- च्छिका
मिच्छिता-त्री, मिच्छयिता-त्री, मिमिच्छिषिता-त्री, मेमिच्छिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचिल्लतिवत् 5 ज्ञेयानि।
शतरि-स्त्रियाम्, मिच्छन्-न्ती-ती, इति नुम् वा।
प्रासङ्गिक्यः
01
=>
(१२५१)
02
=>
(६-तुदादिः-१२९७। सक। सेट्। पर।)
03
=>
[[१। ‘मिछ’ इत्येव धातुरुपदेशे पठ्यते। तस्य, ‘छे च’ (६-१-७३) इति तुकि, श्चुत्वे मिच्छ इति सम्पद्यते। एवमेव सर्वत्रास्य तुग् ज्ञेयः।]]
04
=>
[[२। सन्नन्ते गुणात् पूर्वम्, अन्तरङ्गत्वात् तुकि लघूपधत्वाभावात् गुणः। एवमेव सर्वत्र ज्ञेयम्।]]
05
=>
(५२८)
1 {@“म्लेच्छ अव्यक्ते शब्दे”@} 2 ‘अव्यक्तायां वाचि’ इति क्षीरस्वामी।
3 म्लेच्छकः-च्छिका, म्लेच्छकः-च्छिका, मिम्लेच्छिषकः-षिका, मेम्लेच्छकः- च्छिका
म्लेच्छिता-त्री, म्लेच्छयिता-त्री, मिम्लेच्छिषिता-त्री, मेम्लेच्छिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि दैवादिकक्लिश्यतिवत् 4 ज्ञेयानि।
5 म्लिष्टम्, शतरि-म्लेच्छन्-न्ती, क्विपि-- 6 म्लेट्-म्लेड्- म्लेडौ-म्लेडः, इति विशेषः।
7 म्लेच्छितवै।
प्रासङ्गिक्यः
01
=>
(१३२९)
02
=>
(१-भ्वादिः-२०५। अक। सेट्। पर।)
03
=>
[[२। धातुरयमुपदेशे म्लेछ इत्येव पठ्यते। पश्चात्, ‘दीर्घात्’ (६-१-७५) इति तुक्। तुकश्चुत्वेन चकारे सर्वत्र म्लेच्छ इति श्रूयते।]]
04
=>
(२८७)
05
=>
[[३। ‘क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्प- स्वरानायासभृशेषु’ (७-२-१८) इत्यादिना यथासम्भवमस्य निष्ठायाम्, अविस्पष्टार्थे इडभावो निपात्यते। षत्व-ष्टुत्वादिकेषु म्लिष्टम् इति भवति। अन्यत्र म्लेच्छितम् इत्यपि साधुः।]]
06
=>
[[४। क्विपि, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति सतुक्कस्य छकारस्य शकारे, षत्वे, जश्त्वचर्त्वयोश्च रूपमेवम्। “वृत्तिप्रदीपे तु वितुक्कस्य शादेश उक्तः, तुगभावस्तु ‘अकृतव्यूहाः पाणिनीयाः (परि ५७…) कृतमपि शास्त्रं निवर्तयन्तीति।” इति मा। धा। वृत्तौ अत्र पक्षभेदः प्रोक्त इहावधेयः।]]
07
=>
[[५। ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ (३-४-१४) इति च्छन्दसि विषये धातोरस्मात् तवैप्रत्यये इडागमे रूपमेवम्। तथा किञ्चित् श्रुतिवाक्यमुपात्तं महाभाष्ये (१-१-१) “तस्माद् ब्राह्मणेन म्लेच्छितवै नापभाषितवै, म्लेच्छो वा एष यदपशब्दः।” इति।]]
1 {@“युच्छ प्रमादे”@} 2 3 युच्छकः-च्छिका, युच्छकः-च्छिका, युयुच्छिषकः-षिका, योयुच्छकः- च्छिका
युच्छिता-त्री, युच्छयिता-त्री, युयुच्छिषिता-त्री, योयुच्छिता-त्री
4 प्रयुट्-प्रयुड्-प्रयुशौ- 5 प्रयुशः
इतीमानि सर्वाण्यपि रूपाणि दैवादिक- क्लिश्यतिवत् 6 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१३४८)
02
=>
(१-भ्वादिः-२१४। अक। सेट्। पर।)
03
=>
[[१। उपदेशेऽयं धातुः युछ इत्येव पठितः। ‘छे च’ (६-१-७३) इति तुकि, तस्य श्चुत्वेन चकारे युच्छ इति सम्पद्यते। अत्र ण्वुल्निमित्तको गुणः कथं न? इति शङ्क्यम्, अन्तरङ्गत्वेन प्रथमं तुकि लघूपधत्वाभावात् गुणो न। चात्र ‘वार्णादाङ्गं बलीयः’ (परि-५६) इति वचनात् प्रथमं गुणस्यापत्तिः कार्या
\n\n भिन्नाश्रयत्वात्, इत्यन्यत्र विस्तरः।]]
04
=>
[[२। क्विपि, ‘च्छ्वोः शूठ्--’ (६-४-१९) इति सतुक्कस्य छकारस्य शकारे, तस्य ‘व्रश्च--’ (८-२-३६) इत्यादिना षकारे, जश्त्वचर्त्वयोश्च रूपमेवम्।]]
05
=>
[[आ। ‘अहूर्णचित्ताः परिमूर्च्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः।’ धा। का। १। २९।]]
06
=>
(२८७)