| YouTube Channel

चोरकः (corakaH)

 
Wordnet
Sanskrit
Synonyms:
अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः
noun
अदत्स्य परधनस्य अपहारकः।
"रक्षकः चोरान् दण्डयति।"
शब्दकल्पद्रुमः
Sanskrit
चोरकः,
पुं,
(चोरो गन्धद्रव्यविशेषस्तद्वत् काय-तीति कै + कः ।) पृक्का इति रत्न-माला
पिडिङ्ग इति भाषा (चोर + स्वार्थेकन् ।) सुगन्धिद्रव्यविशेषः तत्पर्य्यायः ।शङ्कितः खड्गः दुष्पत्रः क्षेमकः रिपुः ६चपलः कितवः धूर्त्तः पटुः १० नीचः ११निशाचरः १२ गणहासः १३ कोपनकः १४चोरः १५ फलचोरकः १६ दुष्कुलः १७ ग्रन्थिलः १८सुग्रन्थिः १९ पर्णचोरकः २० ग्रन्थिपर्णः २१ग्रन्थिदलः २२ ग्रन्थिपत्रः २३ (यथा, सुश्रुतेकल्पस्थाने अध्याये ।“चोरको वरुणः कुष्ठं सर्व्वगन्धा ससप्तला
”)अस्य गुणाः तीव्रगन्धत्वम् उष्णत्वम् तिक्त-त्वम् वातकफनासामुखरुजाजीर्णक्रिमिदोष-नाशित्वञ्च इति राजनिर्घण्टः