चोर (cora)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishचोर - cora - - thief
आमोषिन् - AmoSin - - thief
कपाटघ्न - kapATaghna - - thief
हुरश्चित् - hurazcit - - thief
स्तेयकृत् - steyakRt - - thief
खर्पर - kharpara - - thief
तर्कर - tarkara - - thief
चौर - caura - - thief
तस्कर - taskara - - thief
लुण्टाक - luNTAka - - thief
मूषक - mUSaka - - thief
मलिम्लु - malimlu - - thief
मलिम्लुच् - malimluc - - thief
मलिम्लुच - malimluca - - thief
स्तेन - stena - - thief
मुमुषिषु - mumuSiSu - - thief
अधश्चर - adhazcara - - thief
अपहार - apahAra - - thief
अवहार - avahAra - - thief
आखनिक - Akhanika - - thief
चोर - cora - - thief
चोर - cora - - burglar
चोर - cora - - plagiarist
चोर - cora - - plant kRSNazaTI
चोर { चौर } - cora { caura } - - stealer
चोर - cora -
चोर - cora - - cur
चोर - cora - - kind of perfume
चोर { चौर } - cora { caura } - - stealer
चौर - caura - - plagiarist
चौर - caura - - the perfume coraka
चौर - caura - - thievish
चौर - caura - - usurper
चौर - caura - - captivator
चौर - caura - - dishonest or unfair dealer
चौर - caura - - thief
चोर cora burglar
सुरङ्ग suraGga burglar
कारुचौर kArucaura burglar
बन्दिचौर bandicaura burglar
बन्दिग्राह bandigrAha burglar
चौर्य caurya burglary
सन्धिच्छेदन sandhicchedana burglary
भित्तिचौर bhitticaura wall-burglar
Wilson
EnglishApte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishचोर, अस्, m. a thief, a robber
N. of a plant, =
कृष्ण-शटी
a kind of perfume, = चोरक
N. of a
poet
(आ), f., N. of a plant, = चोर-पुष्पी
(ई), f. a
female thief
[cf. चौर
cf. also Gr. φώρ.]
—चोर-
कण्टक, अस्, m. a kind of grass, the seeds of which
stick in the clothes, commonly Chorkānta.
—चोर-
पुष्पिका or चोर-पुष्पी, f. the plant Chrysopogon
Aciculatus.
—चोर-स्नायु, उस्, m. a plant, = काक-
नासा।
Apte Hindi
Hindiचोरः
- चुर् - णिच् - अच्
"चोर, लुटेरा"
Shabdartha Kaustubha
Kannadaचोर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಳ್ಳ /ತಸ್ಕರ
निष्पत्तिः - > चुर (स्तेये) +णिच् - "अच्" (३-१-१३४)
प्रयोगाः - > "चोराक्रान्तं तदनु विपिनं चोलपाण्ड्यान्तरस्थं झिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीताः"
उल्लेखाः - > हंस० १-४७
चोर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ಸುಗಂಧದ್ರವ್ಯ
चोर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇತರರ ಗ್ರಂಥಗಳಿಂದ ವಿಷಯಗಳನ್ನು ಕದ್ದು ಬರೆದು ತನ್ನದೆಂದು ಹೇಳಿಕೊಳ್ಳುವ ಕಾವ್ಯಚೋರ
चोर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚೋರಪಂಚಾಶಿಕೆಯೆಂಬ ಗ್ರಂಥವನ್ನು ರಚಿಸಿದ ಕವಿ
Anekartha-Dvani-Manjari
Sanskritचोर
पु
चोर, प्रतिहारक
काण्डः शरो दलः काण्डं चोरः स्यात् प्रतिहारकः ।
verse 3.1.1.16
page 0014
Indian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetanchom rkun
१) चोर २) चौर ३) चौरी ४) तस्कर ५) दस्यु
अभिधानचिन्तामणिः
Sanskritव्यसनार्तस्तूपरक्तश्चोरस्तु प्रतिरोधकः ।
दस्युः पाटच्चरः स्तेनस्तस्करः पारिपन्थिकः ॥ ३८१ ॥
परिमोषिपरास्कन्द्यैकागरिकमलिम्लुचाः ।
व्यसनार्त (पुं), उपरक्त (पुं), चोर (पुं), प्रतिरोधक (पुं), दस्यु (पुं), पाटच्चर (पुं), स्तेन (पुं), तस्कर (पुं), पारिपन्थिक (पुं), परिमोषिन् (पुं), परास्कन्दिन् (पुं), ऐकागारिक (पुं), मलिम्लुच (पुं)
एकाक्षरनाममाला
Sanskritच, तरु, चन्द्र, चोर
ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
verse 1.1.1.14
page 0120
झ, नक्तं गायने, नष्ट, घर्घरध्वनिनामन्, चारुवाक्, चोर, व्यूहित, गूढरूपक
झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
verse 1.1.1.19
page 0120
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritचोरः, पुंस्त्री, (चोरयतीति । चुर + णिच् + पचा-द्यच् ।) स्तेयकर्त्ता । तत्पर्य्यायः । चौरः २ दस्युः ३तस्करः ४ प्रतिरोधी ५ मलिम्लुचः ६ स्तेनः ७ऐकागारिकः ८ स्तैन्यः ९ प्रच्छन्नजनः १०मोषकः ११ पाटच्चरः १२ परास्कन्दी १३कुम्मिलः १४ खनकः १५ शङ्कितवर्णः १६खानिकः १७ । इति शब्दरत्नावली ॥
प्रचुर-पुरुषः १८ । इति त्रिकाण्डशेषः ॥
तृपुः १९तक्का २० रिभ्वा २१ रिपुः २२ रिक्का २३विहायाः २४ तायुः २५ वनर्गुः २६ हुरश्चित् २७मूषीवान् २८ मलिम्लुचः २९ अद्यशंशः ३०वृकः ३१ । इति वेदनिघण्टौ ३ अध्यायः ॥
(यथा, देवीभागवते १ । १९ । ६ ।“चोरेषु चौरबुद्धिस्ते साधुबुद्धिस्तु तापसे ।स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ! ॥
”)कृष्णशटी । इति क्रमचन्द्रिकाधृतहड्डचन्द्रः ॥
गन्धद्रव्यविशेषः । यथा । चोरकुङ्गुमरोचनाः ।इत्यष्टगन्धकथने आगमः ॥
वाचस्पत्यम्
Sanskritचोर चुर--अच् । १ स्तेयकर्त्तरि परद्रव्यापहारके शब्दर० ।२ गन्धद्रव्यभेदे, हेमच० ३ कृष्णशठ्याञ्च हड्डचन्द्रः । ब्राह्मणा०कर्म्मणि ष्यञ् । चौर्य्य तत्कर्म्मणि परद्रव्यापहरणे ।“सा च द्रव्यवशा कुतस्तव धनं द्यूतेन चौर्य्येण वाचौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य काऽन्या गतिः”उद्गटः । चोरस्य भावः मनोज्ञा० वुञ् । चौरिका चोर-भावे स्त्री । ४ कविभेदे कविरमरुः कविरमरः कवीचोरमयूरकौ” उद्भटः । तत्कृतग्रन्थश्च चोरपञ्चाशिका” ।तत्र चौर्य्यपदार्थो निर्ण्णीय प्रदर्श्यते । परमात्रस्वत्ववद्द्रव्यहरणमेव चौर्य्यं तेन साधारणधनापहारे न चौर्य्यम् ।यथाह दायभागे “य एव हि परस्येदमिति विशेषंजानानः परस्वे स्वत्वहेतुमन्तरेणैव स्वत्वमारोपयति सस्तेन इति लोकप्रसिद्धोऽर्थः न चात्रेदं परकीयम् इदंवा ममेति विवेक्तुं शक्नोति द्रव्यस्याविभक्तत्वात् ।यथा यदेव हि ममेदमिति विशेषं जानानः परस्वत्वा-पत्तये स्वामी त्यजति, परश्च विशेषेणेदं ममेति खत्वंप्रत्येति तत्रैव दाननिष्पत्तिः । न च साधारणधनेतथा सम्भवतीति साधारणधनमदेयमुक्तं तथा स्तेय-मपि नैतन्मम धनं परस्येदमिति जानत एव भवतीति नमाधारणधनापहारे स्तेयनिष्पत्तिः” । “परद्रव्य-हरणं स्तेयमिति परशब्दात् आत्मीयत्वव्यवच्छेदेनैव-परकीयत्वस्यावगमात् साधारणासाधारणयोश्चासाधा-रणस्यैव शीघ्रप्रतीतेः । चोरचौर्य्यभेदलक्षणदण्ड-भेदादिकं च वीरमित्रोदये दर्शितं यथा ।“मनुः स्यात्साहसं त्वन्वयवत् प्रसभङ्कर्म यत् कृतम् ।निरन्वयम्भवेत् स्तेयं हृत्वापह्नूयते च यदिति” अस्या-यमर्थः । अन्वयवद्द्रव्यरक्षकराजाद्यध्यक्षादिसमक्षं बल-वष्टम्भेन यत्परधनापहरणादिकं क्रियते तत् साहसम् । स्तेयं पुनर्निरत्वयं स्वाम्याद्यसमक्षं यद्वञ्चयित्वापरधनाद्यपहरणं तदुच्यते । यच्च राजाद्यध्यक्षादिसमक्षमपहृत्य न मयेदं कृतमिति भयान्निह्नूयते तदपिस्तेयमिति । अतएव नारदः “उपायैर्विविधैरेषांछलयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्म-नीषिण” इति ॥
एषा मित्येतत् क्षुद्रादिनिर्देशान्तस्तान्याहस एव “मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।शमीधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम् । वासः कौषे-यवर्ज्जञ्च गोवर्जं पशवस्तथा । हिरण्यवर्ज्जं लोहञ्चमध्यं व्रीहियवादि च । हिरण्यरत्नकौषेयस्त्रीपुङ्गो-गजवाजिनः । देवब्राह्मणराज्ञाञ्च विज्ञेयन्द्रव्यमुत्तम-मिति” । बलात्कारकृतमपहरणं साहसान्तर्गतं स्ते-यमित्याह स एव “तस्यैव भेदः स्तेयः स्याद्विशेषस्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमाधिश्छले-न तु” इति । तस्यैव साहसस्यैव । आधिः पीडाधनापहरणादिद्वारा आक्रम्य प्रसह्य परस्य क्रियमाणःक्लेशः साहसरूर्प स्तेयम् । छलेन क्रियमाण आधिःकेवलस्तेयमित्यर्थः । तस्करज्ञानोपायमाह याज्ञवल्क्यः“ग्राहकैर्मृह्यते चौरो लोप्त्रेणाथ पदेन वा ।पूर्वकर्मापराधी च तथा चाशुद्धवासकः । अन्येऽपिशङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखखराः । परद्रव्यगृहाणाञ्चपृच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्ट-द्रव्यविक्रयाः” इति! ग्राहकैराजपुरुषैर्लोप्त्रेणापहृतभाजनादिना, अशुद्धवासः अप्रज्ञातस्थानवासी ।जातिनिह्नवो नाहं शूद्रैत्येवंरूपः । नामनिह्नवोनाहं डित्थ इत्येवं रूपः । आदिग्रहणात् स्वदेश-ग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूत-पण्याङ्गनामद्यपानादिष्वतिप्रसक्ताः तथा कुतोऽसित्वमिति चोरग्राहिभिः पृष्टो यदि शुष्कमुखोभिन्नस्वरोवा भवति । बहुवचनात् स्विन्नललाटादीनां ग्रहणम् ।तथा ये निष्कारणङ्कियदस्य द्रव्यं किं वास्य गृहमित्येबंपृच्छन्ति ये चाकारणेनात्मानङ्गूढयित्वा चरन्ति । येचायाभावेऽपि वहुव्ययकारिणः । ये च विनष्टद्रव्याणा-ञ्जीर्णवस्त्रभिन्नभाजनादीनामनिर्ज्ञातस्वामिकानां विक्र-यकारिणः, ते सर्वेऽपि चौर्यसम्भावनया ग्राह्याइत्यर्थः । एवंविधलिङ्गयुक्तान् पुरुषान् गृहीत्वैते चौराभवन्ति नवेति सम्यक् परीक्षत न तावन्मात्रेण निश्चिनु-यात् अचौरस्यापि लिङ्गसम्बन्धसम्भवात् । अतएवनारदः “अन्यहस्तात्परिभ्रष्टमकामादुत्थितम्भुवि ।चोरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ।असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः । दृश्यन्तेविविधा भावास्तस्माद्युक्तं परीक्षणमिति” । स्तेयस्यत्रैविध्यमाह स एव “तदपि त्रिविधं ज्ञेयं द्रव्यापेक्ष-म्मनीषिभिः । क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्ष-णादिति” । चौरस्य द्वैविध्यमाह वृहस्पतिः “प्रका-शाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः । प्रज्ञासाम-र्थ्यमायाभिः प्रभिन्नास्ते सहस्रधेति” । प्रकाशतस्करा-नाह स एप । “नैगमा वैद्यकितवाः सभ्योत्कोचकव-ञ्चकाः । दैवोत्पादविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ।अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः । प्रकाश-तस्करा ह्येते तथा कुहकजीविनः” इति प्रतिरूपकाःप्रतिरूपकराः । अतएव नारदः “प्रकाशवञ्चकास्तत्र कूट-मानतुलाश्रिताः । उत्कोचकाः सोपधिका वञ्चकाः परयो-षितः । प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः । इत्येवमादयोज्ञेयाः प्रकाशतस्करा भुवीति” । नैगमादिव्याजेन येपरद्रव्यापहारकास्ते नैगमाद्याः । अप्रकाशतस्करस्वरूप-भेदानाह व्यासः “साधनाङ्गान्विता रात्रौ विचरत्न्य-विभाविताः । अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नत-स्कराः । उत्क्षेपकः सन्धिभेता पान्वमुड्ग्रन्थिभेदकः ।स्त्रीपुङ्गोश्च पशुस्तेयी चौरो नवविधः स्मृतः” इति ।रात्राविति प्रायिकम् अरण्यादौ दिवापि सम्भवात् ।उत्क्षेपकः धनिनामनवधानतां निश्चित्य तत्समीपस्थंधनमुत्कृत्य ग्राहकः । सन्धिभेत्ता गृहयोः सन्धौस्थित्वा तत्रत्यभित्तिभेत्ता । पान्थमुट् कान्तारादौ प-थिकानान्धनप्रत्यपहारकः । ग्रन्थिभेदकः परिधा-नीयादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिमोचक इति ।प्रकाशतस्कराणां दण्डमाह स एव “स्त्रीपु ययन्तीह मङ्गलादेशवृत्तयः । गृह्णन्ति छद्मना चर्य्यमनार्य्यास्त्वार्यलिङ्गिनः । नैगमाद्या भूरिधना दण्ड्यादोषानुरूपतः । यथा तेन निवर्त्तन्ते तिष्ठन्ति सन्नयेतथेति” । दोषानुरूपतो दण्ड्या नतु धनानुरूपतइत्यभिप्रायः । केषाञ्चित् प्रकाशतस्कराणां दण्डमा-ह वृहस्पतिः “प्रच्छाद्य दोषं व्यामिश्र्य पुनः सं-स्कृत्य विक्रयी । पण्यं तद्द्विगुणं दाप्यो वणिग् दण्डंच तत्समम् । अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् । कूटाक्ष-देविनः क्षुद्रा राजलभ्यहराश्च ये! गणका वञ्चका-श्चैव दण्ड्यास्ते कितवाः स्मृताः । अन्यायवादिनःसभ्यास्तथेवोत्कोचजीविनः । विश्वस्तवञ्चकाश्चैव निर्वास्याःसर्वएव ते । ज्योतिर्ज्ञानन्तथोत्पातमतिदित्वा तु येनृणाम् । श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ।दण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये । हिंसन्तिछद्मना नॄणां वध्यास्ते राजपूरुषैः । अल्पमूल्यञ्चसंस्कृत्य नयन्ति बहुमूल्यताम् । स्त्रीबालकान् वञ्ज-यन्ति दण्ड्यास्तेऽर्थानुसारतः । हेमरत्नप्रबालाद्यान्कृत्रिमान् कुर्वते तु ये । क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञातद्दिगुणं दमम् । मध्यस्थं वञ्चयन्त्येकं स्नेहलोभा-दिना यदा । साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुण-न्दममिति” । राजलभ्यः करविशेषः । मनुरपि “सर्व-कण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमानमन्याये छेदयेल्लवशः क्षुरैरिति ।” विष्णुरपि “द्यूतेच कूटाक्षदेविनां करच्छेदः” इति । अप्रकाशतस्कराणांदण्डमाह सएव “उत्क्षेपकस्य सन्दंशश्छेत्तव्योराजपुरुषैः” । सदंशोऽत्र करः तथा च याज्ञवल्क्यः“उत्क्षपकग्रन्थिभेदौ करसन्दशर्हीनकौ । कार्य्यौद्वितीयापराधे करपादैकहीनकाविति” । अङ्गुष्ठतर्ज-ग्योर्ग्रन्थिमोचने साधकतमत्वेनात्र सन्दंशशब्देनतयोर्ग्रहणम् । प्रथमापराधे तौ क्रमेण पाणिसन्दंशाभाववन्तौ कर्त्तव्यौ, द्वितीयापराधे उभावप्येकपा-णिपादाभावाबेतौ कर्त्तव्यावित्यर्थः । सन्धिभेत्तॄणां दण्ड-माह मनुः “सन्धिम्भित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्तितस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेश-येदिति” । तानिति शेषः । वृहस्पतिरपि “सन्धिच्छेदकृतोज्ञात्वा शूलमाग्राहयेत् प्रभुरिति” । आग्राहयेत् आरो-पयेदित्यर्थः । पान्थमुषि दण्डमाह स एव “तथापान्थमुषं वृक्षं गले बद्ध्वावलम्बयेदिति” । पान्थमुषं पथि-लुण्ठकम् । ग्रन्थिभेदकस्य दण्डमाह मनुः “अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौतृतीये बधमर्हतीति” । अङ्गुली तर्जन्यङ्गुष्ठौ । द्वितीयेहस्तस्य चरणस्य च छेदः तृतीये बध इत्यर्थः । अतएवनारद आह” “प्रथमे ग्रन्थिभेदानामङ्गुष्ठहस्तयोर्बधः”इति । स्त्रीहर्त्तुर्द्दण्डमाह व्यासः “स्त्रीहर्त्ता लोहशपथे दग्धव्यो वै कटाग्निनेति” । पुंहर्त्तुर्दण्डमाह सएव “नरहर्त्तुर्हस्तपादौ च्छित्त्वा स्थाप्यश्चतुष्पथे” इति ।गोहर्त्तुर्दण्डमाह वृहस्पतिः “गोहर्त्तुर्नासिकां छित्त्वाबद्धाम्भसि निमज्जयेदिति” । नारदः “सर्वस्वं हरतोनारीं, कन्यां तु हरतो वधः । वाजिवारणलो-हानां चाददीत वृहस्पतिरिति” । सर्वस्वमित्यनुषङ्गः ।पशुहर्त्तुर्दण्डमाह व्यासः” “पशुहर्त्तुस्त्वर्द्धपादंतीक्ष्णशस्त्रेण कर्त्तयेदिति” । पशुहर्त्ता पश्वनुसारेणदण्डनीय इत्याह नारदः “महापशून् स्तेनयतोदण्डमुत्तमसाहसम् । मध्यमपशून् पूर्वन्तु क्षुद्रपशून्तथा हृतः इति । हृत इति पष्ठी । वन्दीग्रहादीनांदण्डमाह याज्ञवल्क्यः “वन्दिग्रहांस्तथा वाजिकुञ्जराणां च हारिणः । प्रसह्यघातिनश्चैव शूलमारो-पयेन्नृपः” इति । अङ्गच्छेदादयः उत्तमसाहसत्वाद् ब्राह्मणव्यतिरिक्तेषूत्तमद्रव्यापहारविषयाः “साहसेषु यएवोक्तस्त्रिषु दण्डोमनीषिभिः । स एव दण्डः स्तेयेऽपिद्रव्येषु त्रिष्वनुक्रमादिति” नारदेनोत्तमसाहसस्योचम-द्रव्यविषयत्वेन व्यवस्थापनात्तेन क्षुद्रमध्यमद्रव्याक्षे-पकादीनां तदनुरूपो न करच्छेदादिः । तस्करस्यापहृतंधनन्तत्स्वामिने दापयित्वा दण्डः कर्त्तव्य इत्याहयाज्ञवल्क्यः “चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैरिति”धान्याद्यपहरणे दण्डमाह मनुः “धान्यं दशभ्य कुम्भे-भ्यो हरतोऽभ्यधिकं बधः । शेषे त्वेकादशगुणं दाप्यस्तस्यच तद्धनमिति” । कुम्भो विंशतिप्रस्थाः शेषे दशकुम्भाधि-कान्न्यूने, तस्य धान्यस्वामिनः । रत्नहरणे दण्डमाहस एव “मुख्यानाञ्चैव रत्नानां हरणे बधमर्हतीति” ।स एव । “सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् । पञ्चा-शतस्त्वभ्यघिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणंमूल्याद्दण्डं प्रकल्पयेत् । पुरुषाणां कुलीनानान्नारी-णाञ्च विशेषतः” इति । अत्र सुवर्णादीनां संख्या कर्षमिते-त्याहुः वृद्धाः इति मदनरत्ने । अत्राङ्गच्छेदादिदण्डोब्राह्मणव्यतिरिक्तविषयः “सचिह्नं ब्राह्मणं कृत्वास्वराष्ट्राद्विप्रवासयेदिति” याज्ञवल्क्यस्मरणात् । चिह्नंललाटे श्वपदाकाराङ्कनम् । तथा च मनुः “गुरुतल्पेभगः कार्य्यः सुरापाणे सुराध्वजः । स्तेये च श्वपदंकार्य्यं ब्राह्मणस्य शिरः पुमानिति” । एतच्च प्रायश्चि-त्तमकुर्वतां दण्डोत्तरकालं न तु प्रायश्चित्तं चिकीर्षताम् ।“प्रायश्चित्तञ्च कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्क्याराज्ञा ललाटे तु दाप्यमुत्तससाहसमिति” मनुस्मर-णात् । जात्यादिभेदेन च दण्डतारतम्यमाह स एव“अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम् । षोडशैव-तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु । ब्राह्मणस्य चतुः-षष्टिः पूर्णं वापि शतम्भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणवेदिनः” इति । यस्मिन्नपराधे यो दण्डउक्तः स शूद्रकर्त्तृके तस्मिन्नष्टगुणः दापनीयः वैश्यकर्त्तृकेषोडशगुणः, क्षत्रियकर्त्तृके द्वात्रिंशद्गुणः । ब्राह्मणकर्त्तृकेचतुःषष्ठिगुणः शतगुणो वा अष्टाविंशत्युत्तरशतगु-णोवेत्यर्थः । माषान्यूनमूल्यानां क्षुद्राणां मूल्यात्पञ्चगुणीदम इत्याह नारदः “काष्ठभाण्डतृणादीनांमृण्मयानान्तथैव च । वेणुवैणवभाण्डानां तथा स्नाय्व-स्थिचर्म्मणाम् । शाकानामार्द्रमूलानां हरणे फल-मूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः । पक्वा-न्नानां कृतान्नानां मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्या-नां मूल्यात्पञ्चगुणो दमः” इति । यत्पुनः क्षुद्रद्रव्यविषयेद्विगुणदण्डप्रतिपादकं मनुवचनम् “सूत्रकार्पासकि-ण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पा-नीयस्य तृणस्य च । वेणुवैणयभाण्डानां लवणानान्त-थैव च । मृण्मयानां च हरणे मृदोभस्मन एव च ।अजानां पक्षिणाञ्चैव लवणस्य वृतस्य च । मांसस्यमधुनश्चैव यच्चान्यत् पशुसम्भवम् । अन्येषाञ्चैवमादीनांमद्यानामोदनस्य च । पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्-द्विगुणोदमः” इति । तदल्पप्रयोजनविषयम् । पान्था-दीनामल्पप्रयोजनद्रव्यापहरणे न दण्डः यथाह सएव “द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।आददानः परक्षेत्रान्न दण्डं दातुमर्हति । चणकव्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रहीत-व्या मुष्टिरेका पथि स्थितैः । तथैव सप्तमे भक्ते भक्तानिषडनश्नता! अश्वस्तनविधानेन हर्त्तव्यं हीनकर्म्मणः”इति । न केवलं चौरस्यैव दण्डः किन्त्वचौरस्यापिचौरोपकारिणः इत्याह याज्ञवल्क्यः “भक्तावकाशा-ग्न्युदकमन्त्रोपक्तरणव्ययान् । दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तम” इति । भक्तम् अशनम् । अवकाशो-निवासस्थानम् । अग्निश्चौरस्य शीतापनोदनाद्यर्थः ।उदकन्तृषितस्य । मन्त्रः चौर्यप्रकारोपदेशः, उपकरणंचौर्यसाधनम् । व्ययः अपहारार्थन्देशान्तरङ्गच्छतः पा-थेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यःप्रयच्छति तस्योत्तमसाहसोदण्ड इत्यर्थः । कात्यायनोऽपि“चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायिनः । दातारश्चैवभाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृताह्येते ये च प्रच्छादयन्ति तानिति” । चीरोपेक्षाकारिणंप्रत्याह नारदः “शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभा-गिनः । उत्क्रोशताञ्जनानान्तध्रियमाणे धवे तथा ।श्रुत्वा ये नामिधावन्ति तेऽपि तद्दोषभागिनः”इति । द्रव्यभेदेन चौर्य्यप्रायश्चित्तं प्रायश्चित्तशब्देदृश्यम् । तत्कर्म्मविपाकश्च कर्म्मविपाकशब्दे १७४२ पृ०दृश्यः ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
