| YouTube Channel

चोखूय्यम् (cokhUyyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“खुङ् शब्दे”@} 2 खावकः-विका, खावकः-विका, 3 चुखूषकः-षिका, 4 चोखूयकः-यिका
खोता-त्री, खावयिता-त्री, चुखूषिता-त्री, चोखूयिता-त्री
-- खावयन्-न्ती, खावयिष्यन्-न्ती-ती
-- खवमानः, खावयमानः, चुखूषमाणः, चोखूयमानः
खोष्यमाणः, खावयिष्यमाणः, चुखूषिष्यमाणः, चोखूयिष्यमाणः
5 सङ्खुत्-सङ्खुतौ-सङ्खुतः
-- -- खुतम्-तः, खावितः, चुखूषितः, चोखूयितः-तवान्
खवः, 6 खवनः, खावः, चुखूषुः, 7 चोखुवः
खोतव्यम्, खावयितव्यम्, चुखूषितव्यम्, चोखूयितव्यम्
खवनीयम्, खावनीयम्, चुखूषणीयम्, चोखूयनीयम्
8 खव्यम्, 9 अवश्यखाव्यम्, खाव्यम्, चुखूष्यम्, चोखूय्यम्
10 ईषत्खवः-दुष्खवः-सुखवः
-- -- -- 11 खूयमानः, खाव्यमानः, चुखूष्यमाणः, चोखूय्यमानः, 12 खवः, खावः, चुखूषः, चोखूयः
खोतुम्, खावयितुम्, चुखूषितुम्, चोखूयितुम्
खुतिः, खावना, चुखूषा, चोखूया
खवनम्, खावनम्, चुखूषणम्, चोखूयनम्
खुत्वा, खावयित्वा, चुखूषित्वा, चोखूयित्वा
प्रखुत्य, प्रखाव्य, प्रचुखूष्य, प्रचोखूय्य
खावम् २, खुत्वा २, खावम् २, खावयित्वा २, चुखूषम् २, चुखूषित्वा २, चोखूयम्
चोखूयित्वा २।
प्रासङ्गिक्यः
01
=>
(३५२)
02
=>
(१-भ्वादिः-९५४। अक। अनि। आत्म।)
03
=>
[[२। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
04
=>
[[३। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। ‘गुणो यङ्लुकोः’ (७-४-८२) इति अभ्यासस्य गुणः।]]
05
=>
[[४। क्विपि ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति तुक्।]]
06
=>
[[५। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्।]]
07
=>
[[६। ‘यङोऽचि च’ (२-४-७४) इति पचाद्यचि लुक्। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
08
=>
[[७। ‘अचो यत्’ (३-१-९७) इति यत्।]]
09
=>
[[८। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
10
=>
[पृष्ठम्०३५६+ २३]
11
=>
[[१। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
12
=>
[[२। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]