| YouTube Channel

चोक्षुदः (cokSudaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षुदिर् सम्पेषणे”@} 2 क्षोदकः-दिका, क्षोदकः-दिका, 3 चुक्षुत्सकः-त्सिका, चोक्षुदकः-दिका
क्षोत्ता-त्री, क्षोदयिता-त्री, चुक्षुत्सिता-त्री, चोक्षुदिता-त्री
4 क्षुन्दन्-ती, क्षोदयन्-न्ती, चुक्षुत्सन्-न्ती
-- क्षोत्स्यन्-न्ती-ती, क्षोदयिष्यन्-न्ती-ती, चुक्षुत्सिष्यन्-न्ती-ती
-- क्षुन्दानः, क्षोदयमानः, चुक्षुत्समानः, चोक्षुद्यमानः
क्षोत्स्यमानः, क्षोदयिष्यमाणः, चुक्षुत्सिष्यमाणः, चोक्षुदिष्यमाणः
5 क्षुत्-क्षुद्-क्षुदौ-क्षुदः
-- -- -- 6 क्षुण्णः-क्षुण्णम् 7 -क्षुण्णवान्
क्षोदितः, चुक्षुत्सितः, चोक्षुदितः-तवान्
8 क्षुदः, 9 प्रक्षोदी, क्षोदः, चुक्षुत्सुः, चोक्षुदः
क्षोत्तव्यम्, क्षोदयितव्यम्, चुक्षुत्सितव्यम्, चोक्षुदितव्यम्
क्षोदनीयम्, क्षोदनीयम्, चुक्षुत्सनीयम्, चोक्षुदनीयम्
क्षोद्यम्, क्षोद्यम्, चुक्षुत्स्यम्, चोक्षुद्यम्
ईषत्क्षोदः-दुःक्षोदः-सुक्षोदः
-- -- क्षुद्यमानः, क्षोद्यमानः, चुक्षुत्स्यमानः, चोक्षुद्यमानः
क्षोदः, क्षोदः
चुक्षुत्सः, चोक्षुदः
क्षोत्तुम्, क्षोदयितुम्, चुक्षुत्सितुम्, चोक्षुदितुम्
क्षुत्तिः, क्षोदना, चुक्षुत्सा, चोक्षुदा
क्षोदनम्, क्षोदनम्, चुक्षुत्सनम्, चोक्षुदनम्
क्षुत्त्वा, क्षोदयित्वा, चुक्षुत्सित्वा, चोक्षुदित्वा
10 प्रक्षुद्य, प्रक्षोद्य, प्रचुक्षुत्स्य, प्रचोक्षुद्य
क्षोदम् २, क्षुत्त्वा २, क्षोदम् २, क्षोदयित्वा २, चुक्षुत्सम् २, चुक्षुत्सित्वा २, चोक्षुदम्
चोक्षुदित्वा २।
प्रासङ्गिक्यः
01
=>
(३१४)
02
=>
(७-रुघादिः-१४४३। सक। अनि। उभ।)
03
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। चर्त्वम्।]]
04
=>
[[२। ‘रुधादिभ्यः श्नम्, (३-१-७८) इति श्नम्, श्नमो मित्त्वात् अन्त्यादचः परो भवति। ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकारलोपः।]]
05
=>
[[३। ‘वाऽवसाने’ (८-४-५६) इति चर्त्वविकल्पः।]]
06
=>
[[४। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठातकारस्य, धातुदकारस्य नत्वम्। णत्वम्, ष्टुत्वं च।]]
07
=>
[[आ। ‘तैर्वृक्णरुग्णसंभुग्नक्षुण्णभिन्नविपन्नकैः। निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी।।’ भ। का। ४-४२।]]
08
=>
[[५। ‘इगुपध--’ (३-१-१३५) इति कर्तरि कः।]]
09
=>
[[६। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये गम्यमाने णिनिः।]]
10
=>
[पृष्ठम्०३२९+ २६]