| YouTube Channel

चोक्तम्- (coktam-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शीक आमर्षणे”@} 2 आधृषीयः।
‘शीकरः’ इत्यादिषु जलसेचनार्थकलाभार्थं वोपदेवप्रभृतिभिः धातुरयं ‘सेके आमर्षे च’ इति पठितः।
तत्तु ‘शीकृ सेचने’ इति भ्वादिधातोः सम्पद्यत इति व्यर्थमेव।
तथा चोक्तम्-- ‘मर्षणे शीकयेत् शीकेत्
सेचने शपि शीकते’ 3 इति देवेन।
आधृषीयत्वेन णिज्विकल्पः।
रूपाणि यथासम्भवं चौरादिकचीकयतिवत् 4 बोध्यानि।
चुरादिष्वेव ‘शीक भाषार्थः’ इति धात्वन्तरं अनाधृषीयं स्वामि- काश्यपादयः पठन्ति।
तस्य प्रायपाठविरलत्वात् नास्माभिरुल्लेखः कृतः।
प्रासङ्गिक्यः
01
=>
(१७१५)
02
=>
(१०-चुरादिः-१८२७। सक। सेट्। उभ।)
03
=>
(श्लो। ४२)
04
=>
(५२९)