| YouTube Channel

चेष्टावल (ceSTAvala)

 
वाचस्पत्यम्
Sanskrit
चेष्टावल
न०
ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जा०उक्तं यथा“उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः ।विपुलकरा युघि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परि-कल्प्याः” वृ० जा० ।“अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादिराशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयन-मिति उदगयने उत्तरायणे रविशीतमयूखौ सूर्य्य-चन्द्रमसौ बलिनौ भवतः परिशेषाः भौमबुधगुरु-सितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथासमागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेणसंयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयोभौमादीनां परस्परं युद्धम् उक्तञ्चाचार्य्यविष्णुचन्द्रेण“दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम् ।कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपु-लकराइति विपुलाः करा येषां ते विपुलकराःविस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीय-ततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवतिवक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिनएक कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भागसंसितो जयी वलवान् उत्तरसंस्थत्वमत्रोपलक्ष-णार्ग्रम् वस्तेजस्वी एव बलवान् तत्रैतज्जयलक्षणम् “दक्षिणदिकस्थः परुषोवेपथुरप्राप्त सन्निकृष्ट-तनुः अधिरूढोविकृतोनिःप्रभो विवर्णश्च यः जितः ।उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्द्दिष्टः ।विपुलः स्विग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः”इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः“सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इतिएतच्चेष्टाबलम् एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तोभवति” भट्टोत्पलः