| YouTube Channel

चेदिराज (cedirAja)

 
शब्दसागरः
English
चेदिराज
m.
(-जः) A name of SISUPALA a king killed by KRISHNA.
E.
चेदि the country, and राज a king
also चेदिपति, चेदिराज, &c.
Yates
English
चेदि-राज (जः) 1.
m.
A name of
Shi-
shupāla, the foe of
Krishna.
Wilson
English
चेदिराज
m.
(-जः) A name of ŚIŚUPĀLA a king killed by KṚṢṆA.
E.
चेदि the country, and राज a king
also चेदिपति, चेदिराज्, &c.
Monier Williams Cologne
English
चेदि—राज
m.
=
-पति,
Nal.
xii
f.
Hariv.
4964
BhP.
ix, 24, 38 Śiśu-pāla,
W.
Shabdartha Kaustubha
Kannada
चेदिराज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚೇದಿದೇಶದ ದೊರೆ
प्रयोगाः - > "दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत्"
उल्लेखाः - > भाग० ९-२४-३९
L R Vaidya
English
cedi-rAja {% m. %} a name of Śiśupāla, son of Damaghosha, and king of the Chedis, Sis.ii.96.
Mahabharata
English
Cedirāja (do.): II, 1070 (i.e. Śiśupāla), 1072 (do.), 1337 (do.), 1382 (do.), 1429 (do.), 1491 (do.), 1551 (do.), 1575 (do.), 1584 (do.)
III, 2531 (i.e. Subāhu), 2576 (do.)
V, 5900 (i.e. Dhṛshṭaketu)
VI, 1709 (do.), 5398 (do.)
VII, 394 (i.e. Śiśupāla, slain by Kṛshṇa), 1113 (i.e. Dhṛshṭaketu?), 4026 (i.e. Dhṛshṭaketu), 5056 (do., slain), †8210 (i.e. Śiśupāla), 8214 (do.), 8217 (do.), 8233 (do.)
XI, 728 (i.e. Dhṛshṭaketu), 729 (do.).
शब्दकल्पद्रुमः
Sanskrit
चेदिराजः,
पुं,
(चेदीनां राजा इति “राजाहः-सखिभ्यष्टच् ।” इति टच् ।) शिशुपालः ।इति पुराणम्
(यथा, महाभारते ।४० १२ ।“विप्लुता चास्य दुर्बुद्धेर्बुद्धिर्बुद्धिमताम्बर ! ।चेदिराजस्य कौन्तेय ! सर्व्वेषाञ्च महीक्षिताम्
”)उपरिचरवसुः तु चन्द्रवंशीयकृतिराज-पुत्त्रो विष्णुभक्त इन्द्रसखा इन्द्रादेशाच्चेदिराज्यंगृहीतवान् इन्द्रदत्ताकाशगविमानेनोपरिचरोवभूव एकदा ऋषयो देवाश्च विवदमानास्त-मपृच्छन् किमोषध्या पशुना वा यज्ञाः कर्त्तव्या-स्तेनोक्तं पशुना तत ऋषयस्तं शेपुर्भवता यथा-शास्त्रमनुक्त्रा देवानां पक्षपातः कृतस्तस्मादधोगच्छ इत्यभिशप्तः तत्क्षणात् भूविवरे गतः ।श्रीविष्णुना तस्य भक्षणार्थं नान्दीश्राद्धादौ गृह-भित्तौ घृतधारादानं विहितम् इति महा-भारतम्
वाचस्पत्यम्
Sanskrit
चेदिराज
पु०
चेदोनां राजा टच् समा० उपरिचरराख्यंवसौ तस्य भूमिविवरगतिकथादि भा० शा० ३३९ अ० ।“अजेन यष्टव्यमिति प्राहुर्द्देवा द्विजोत्तमान् चछागोऽयजोज्ञेयो नान्यः पशुरिति स्थितिः ऋषयऊचुः वीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।अजसंज्ञानि वीजानि छागं नो हन्तुर्महथ नैष धर्मःसतां देवा! यत्र बध्येत वै पशुः इदं कृतयुगं श्रेष्ठं कथंवध्येत वै पशुः भीष्म उवाच तेषां संवदतामेव-मृषीणाम् विबुधैः सह मार्गागतो नृपश्रेष्ठस्तंदेशं प्राप्तवान् वसुः अन्तरीक्षचरः श्रीमान् समग्रबल-वाहनः तं दृष्ट्वा सहसा यान्तं वसुं ते त्वन्तरीक्षगम् ।ऊचुर्द्विजातयोदेवानेष च्छेत्स्यति संशयम् यज्वा दानपतिः श्रेष्ठः सर्व्वभूतहितप्रियः कथं स्विदन्यथा ब्रूया-देष वाक्यं महान् वसुः एवं ते संविदं कृत्वा विबुधाऋषयस्तथा अपृच्छन् सहसाभ्येर्त्य वसुं राजानभन्तिकात् भो राजन्! केन यष्टव्यमजेनाहोस्विदौ-षधैः एतं संशयं छिन्दि प्रमाणं नो भवान्मतः ।स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः कस्य वैको-मतः कामोब्रूत सत्यं द्विजोत्तमाः! ऋषय ऊचुः ।धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप! देवानान्तुपशुः पक्षो मतो राजन्! वदस्व नः भीष्म उवाच ।देवानान्तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् छागेना-जेन यष्टव्यमेवमुक्तं वचस्तदा कुपितास्ते ततः सर्वेमुनयः सूर्य्यवर्च्चसः ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।अद्य प्रभृति ते राजन्नाकाशे विहता गतिः अस्म-च्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ततस्तस्मि-न्मुहूर्त्तेऽथ राजोपरिचरस्तदा अधो वै सम्बभूवाशु-भूमेर्विवरगो नृपः स्मृतिस्त्वेनं विजहौ तदानारायणाज्ञया देवास्तु सहिताः सर्व्वे वसोः शापविमीक्षणे चिन्तयामासुरव्यग्राः सुकृतं हि नृपर्स्य तत् ।अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना अस्यप्रतिप्रियं कार्य्यं सहितैर्नो दिवौकसाम् इति बुद्ध्याव्यवस्याशु गत्वा निश्चयमीश्वराः ऊचुः संहृष्टमनसोराजोपरिचरन्तदा ब्रह्मण्यदेवभक्तस्त्वं सुरासुर-ररुर्हंरिः कामं तव तुष्टात्मा कुर्य्याच्छापवि-मोक्षणम् मानना तु द्विजातीनां कर्त्तव्या वै महा-त्मनाम् अवश्यं तपसा तेषां फलितव्यं नृपोत्तम! ।यतस्त्वं सहसा भ्रष्ट आकाशाम्मेदिनीतलम् एकनय-नुग्रहं तुभ्यं दद्मो वै नृपसत्तम! यावत्त्वं शापदोषेणकालमाशिष्यसेऽनघ! भूमेर्विवरगो भूत्वा तावत्त्वंकालमाप्स्यसि यज्ञेषु सुहुतं विप्रैर्व्वसोर्द्धारां समा-हितैः प्राप्स्यसेऽस्मदनुध्यानान्मा त्वां ग्लानि-रस्पृशत् क्षुत्पिपासे राजेन्द्र! भूमेश्छिद्रे भवि-ष्यतः वसोर्द्धाराभिपीतत्वात्तेजसाप्यायितेन सदेबोऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति”