चेतकी (cetakI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaचेतकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಳಲೆ ಗಿಡ
निष्पत्तिः - > चिती (सञ्ज्ञाने) + णिच् - "ण्वुल्" (३-१-१३३) । गौरा० "ङीष्" (४-१-४१)
विस्तारः - > "पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् । ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी" - भाव० प्र० ।
चेतकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಳಲೆ ಕಾಯಿ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit चेतकी
एका रागिणी।
"सङ्गीतज्ञः चेतकीं गायति।"
शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या
हरितकीवृक्षस्य फलं यद् हरितपीतवर्णीयम् अस्ति।
"शुष्ककासे शिवा अतीव उपयुक्ता अस्ति।"
शब्दकल्पद्रुमः
Sanskritचेतकी, (चेतयते उन्मीलयति ज्ञानेन्द्रिय-बलादीनि । चित + ण्वुल् । गौरादित्वात् ङीष् ।)हरीतकी । इत्यमरः । २ । ४ । ५९ ॥
हिमाचलभवात्रिशिरा हरीतकी । सा च सर्व्वरोगनाशिनीगन्धयुक्तद्रव्यकरणे प्रशस्ता । इति वैद्यकम् ॥
(“चेतकी द्विविधा प्रोक्ता आकाराद्बर्णतस्तथा ।षडङ्गुला हिता प्रोक्ता शुक्ला चैकाङ्गुला स्मृता ॥
श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा ।चेतकी वृक्षशाखायां यावत्तिष्ठति तां पुनः ॥
भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः ।चेतकीं यावद्बिधृत्त्य हस्ते तिष्ठति मानवः ॥
तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः ॥
”इति कल्पस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥
एतस्या उत्त्तिगुणजात्यादिकं यथा, भावप्रकाशेपूर्व्वखण्डे प्रथमे भागे ।“पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् ।ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता ।हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥
वयस्था विजया चापि जीवन्ती रोहिणीति च ।विजया रोहिणी चैव पूतना चामृताऽभया ॥
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ।अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ॥
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ।पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ॥
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ।विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी ॥
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ।अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोगहृत् ॥
चूर्णार्थे चेतकी शस्ता यथायोगं प्रयोजयेत् ।चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ॥
षडङ्गुलायता शुक्ला कृष्णात्वेकाङ्गुला स्मृता ।काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ॥
काचित् स्पर्शेन दृष्ट्यान्या चतुर्द्धा भेदयेच्छिवा ।चेतकी पादपच्छायामुपसर्पन्ति ये नराः ॥
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ।चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ॥
तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः ।न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम् ॥
चेतकी परमा शस्ता हिता सुखविरेचनी ॥
”)जातीपुष्पम् । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
Sanskritचेतकी स्त्री चेतयति उन्मीलयति बुद्धिबलेन्द्रियाणिचित--णिच् ण्वुल् गौरा० ङीप् । १ हरीतक्याम्अमरः । तस्वा उत्पत्तिभेदादिकं भावप्र० उक्तं यथा“पपात विन्दुर्मेदिन्यां शक्रस्य पिवतीऽमृतम् । ततो दि-व्या समुत्पन्ना सप्तजातिर्हरीतकी । हरीतक्यभयापथ्या कायस्था पूतनाऽमृता । हेमवत्यव्यथा चापिचेतकी श्रेयसी शिवा । वयस्था विजया चापि जीवन्तीरोहिणिति च । विजया रोहिणी चैव पूतना चामृताऽभया । जीवन्ती चेति पथ्याया विज्ञेयाः सप्त जातयः ।अलाबुवृत्ता विजया १ बृत्ता सा रोहिणी २ स्मृता । ३ पू-तनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृता ४ । पञ्चरेखाऽभया ५ प्रोक्ता जीवन्ती स्वर्णवर्णिनी ६ । त्रिरेखा चेतकी ७ज्ञेया सप्तानामियमाकृतिः । विजया सर्वरोगेषु रो-हिणी व्रणरोहिणी । प्रलेपे पूतना योज्या शोधना-र्थेऽमृता हिता । अक्षिरोगेऽभया शस्ता जीवन्तीसर्वरोगहृत् । चूर्णार्थे चेतकी शस्ता यथायोगं प्रयो-जयेत् । चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्ण-तः । षडङ्गुलायता शुक्ला, कृष्णा त्वेकाङ्गुला स्मृता ।काचिदास्वादमात्रेण काचिद् गन्धेन भेदयेत् । काचित्स्पर्शेन दृष्ट्यान्या चतुर्द्ध्वा भेदयेच्छिवा । चेतकी पाद-पच्छायामुपसर्पन्ति ये नराः । भिद्यन्ते तत्क्षणादेवपशुपक्षिमृगादयः । चेतकी तु धृता हस्ते यावत्ति-ष्ठति देहिनः । तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः ।न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम् । चेतकीपरमा शस्ता हिता सुखविरेचनी । सप्तानामपि जा-तीनां प्रधानं विजया स्मृता । सुखप्रयोगा सुलभासर्वरोगेषु शस्यते । हरीतकी पञ्चरसा लवणा तु वरापरम् । रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ।चक्षुष्या लघुरायुष्या वृंहणी चानुलोमिनी । श्वासका-सप्रमेहार्शःकुष्ठशोथोदरकृमीन् । वैस्वर्य्यग्रहणीरोगवि-बन्धविषमज्वरान् । गुल्माध्मानतृषाच्छर्दिहिक्काकण्डूहृदामयान् । कामलां शूलमानाहं प्लीहानञ्च यकृत्त-था । अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत् । स्वादु-तिक्तकषायत्वात्पित्तहृत्कफहृत् तु सा । कटुतिक्तकषाय-त्वादम्लत्वाद्वातहृच्छिवा । पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथंशिवा । प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत् प्रकाश्यते!हेतुभिः शिष्यबोधार्थं न पूर्वं क्रियतेऽधुना । कर्म्मान्यत्वंगुणैः साम्यं दृष्टमाश्रमभेदतः । यतस्ततो नेति चिन्त्यंधात्रीलकुचयोर्यथा । पथ्याया मज्जनि खदुः स्नाय्वा-म्लमो व्यवस्थितः । वृतौ तिक्तस्त्वचि कटुरस्थनितुवरोरसः । नवा स्निग्धा घनावृत्ता गुर्वी क्षिप्ता च याम्भसि ।निमज्जेत् सा प्रशस्या च कथितातिगुणप्रदा । नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता । हरीतक्याः फले यत्रद्वयं तच्छ्रेष्ठमुच्यते । चर्विता वर्द्धयत्यग्निं पेषिता मल-शोधिनी । स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रि-दोषनुत् । उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनीपित्तकफानिलानाम् । विस्रंसिनी मूत्रशकृन्मलानांहरीतकी स्यात् सह भोजनेन । अन्नपानकृतान्दोषान् वातपित्तकफोद्भवान् । हरीतकी हरत्याशुभुक्तस्य परियोजिता । लवणेन कफं हन्ति पित्तं हन्तिसशर्करा । घृतेन वातजान् रोगान् सर्वरोगान् गुडा-न्विता । सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।वर्षादिष्वभया प्राश्या रसायनगुणैषिणा । अध्वातिखिन्नोबलवर्जितश्च रूक्षः कृशो लङ्घनकर्षितश्च । पित्ताधिकोगर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत्” । तस्याःफलम् अण् हरीतक्या० तस्य लुप् लुपि व्यक्तिवचन-त्वम् । २ तत्फलेऽपि स्त्री । ३ जातिपुष्पे राजनि० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
