| YouTube Channel

चेखिद्यमानः (cekhidyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“खिद दैन्ये”@} 2 ‘दैन्येऽर्थे खिद्यते खिन्ते, परिघाते3 तु खिन्दति।’ 4 इति देवः।
खेदकः-दिका, खेदकः-दिका, 5 चिखित्सकः-त्सिका, 6 चेखिदकः-दिका
खेत्ता-त्त्री, खेदयिता-त्री, चिखित्सिता-त्री, चेखिदिता-त्री
खेदयन्-न्ती, खेदयिष्यन्-न्ती-ती
-- -- 7 खिद्यमानः, खेदयमानः, चिखित्समानः, चेखिद्यमानः
खेत्स्यमानः, खेदयिष्यमाणः, चिखित्सिष्यमाणः, चेखिदिष्यमाणः
खित्-खिद्-खिदौ-खिदः
-- -- 8 खिन्नम्-खिन्नः-खिन्नवान्, खेदितः, चिखित्सितः, चेखिदितः-तवान्
9 खिदः, खेदनः 10, खेदः, चिखित्सुः, चेखिदः
खेत्तव्यम्, खेदयितव्यम्, चिखित्सितव्यम्, चेखिदितव्यम्
खेदनीयम्, खेदनीयम्, चिखित्सनीयम्, चेखिदनीयम्
खेद्यम्, खेद्यम्, चिखित्स्यम्, चेखिद्यम्
ईषत्खेदः-दुष्खेदः-सुखेदः
-- -- 11 खिद्यमानः, खेद्यमानः, चिखित्स्यमानः, चेखिद्यमानः
12 खेदः, खेदः, चिखित्सः, चेखिदः
खेत्तुम्, खेदयितुम्, चिखित्सितुम्, चेखिदितुम्
13 खिदा, खेदना, चिखित्सा, चेखिदा
खेदनम्, खेदनम्, चिखित्सनम्, चेखिदनम्
खित्त्वा, खेदयित्वा, चिखित्सित्वा, चेखिदित्वा
सङ्खिद्य, सङ्खेद्य, प्रचिखित्स्य, प्रचेखिद्य
खेदम् २, खित्त्वा २, खेदम् २, खेदयित्वा २, चिखित्सम् २, चिखित्सित्वा २, चेखिदम्
चेखिदित्वा २।
प्रासङ्गिक्यः
01
=>
(३४९)
02
=>
(४-दिवादिः-११७०। अक। अनि। आत्म।)
03
=>
[तापे]
04
=>
(श्लो। ११२)
05
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। तेनाङ्गस्य गुणो न।]]
06
=>
[[२। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः।]]
07
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्विकरणप्रत्ययः।]]
08
=>
[[४। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति धातुदकारनिष्ठातकारयोः मत्वम्।]]
09
=>
[[५। ‘इगुषधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
10
=>
[[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
11
=>
[पृष्ठम्०३५४+ २४]
12
=>
[[आ। ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गकाः भृत्याः सुनद्धं बहुरक्तमंशुकम्। विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान्।।’ धा। का। २-६१।]]
13
=>
[[१। भिदादिपाठात् (३-३-१०४) खिदा इत्यत्राङ्।]]