| YouTube Channel

चेक्षेवः (cekSevaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षेवु निरसने”@} 2 क्षेवकः-विका, क्षेवकः-विका, चिक्षेविषकः-षिका, चेक्षेवकः-विका
3 क्षेविता-त्री, क्षेवयिता-त्री, चिक्षेविषिता-त्री, चेक्षेविता-त्री
क्षेवन्-न्ती, क्षेवयन्-न्ती, चिक्षेविषन्-न्ती
-- क्षेविष्यन्-न्ती-ती, क्षेवयिष्यन्-न्ती-ती, चिक्षेविषिष्यन्-न्ती-ती
-- क्षेवयमाणः, क्षेवयिष्यमाणः, चेक्षेव्यमाणः, चेक्षेविष्यमाणः
4 क्षयूः-क्षय्वौ-क्षय्वः
-- -- 5 क्षयूतम् 6 तः, क्षेवितः, चिक्षेविषितः, चेक्षेवितः-तवान्
क्षेवः, क्षेवः, चिक्षेविषुः, चेक्षेवः
क्षेवितव्यम्, क्षेवयितव्यम्, चिक्षेविषितव्यम्, चेक्षेवितव्यम्
क्षेवणीयम्, क्षेवणीयम्, चिक्षेविषणीयम्, चेक्षेवणीयम्
क्षेव्यम्, क्षेव्यम्, चिक्षेविष्यम्, चेक्षेव्यम्
क्षेव्यमाणः, क्षेव्यमाणः, चेक्षेविष्यमाणः, चेक्षेव्यमाणः
ईषत्क्षेवः-दुःक्षेवः-सुक्षेवः
-- -- -- क्षेवः, क्षेवः, चिक्षेविषः, चेक्षेवः
क्षेवितुम्, क्षेवयितुम्, चिक्षेविषितुम्, चेक्षेवितुम्
7 क्षेवा, क्षेवणा, चिक्षेविषा, चेक्षेवा
क्षेवणम्, क्षेवणम्, चिक्षेविषणम्, चेक्षेवणम्
8 क्षयूत्वा-क्षेवित्वा, क्षेवयित्वा, चिक्षेविषित्वा, चेक्षेवित्वा
प्रक्षेव्य, प्रक्षेव्य, प्रचिक्षेविष्य, प्रचेक्षेव्य
क्षेवम् २, क्षयूत्वा २-क्षेवित्वा २, क्षेवम् २, क्षेवयित्वा २, चिक्षेविषम् २, चिक्षेविषित्वा २, चेक्षेवम्
चेक्षेवित्वा।
9
प्रासङ्गिक्यः
01
=>
(३२०)
02
=>
(१-भ्वादिः-५६८। सक। सेट्। पर।)
03
=>
[पृष्ठम्०३३३+ २६]
04
=>
[[१। क्विपि ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति ऊठ्। एकारस्य अयादेशः। द्विवचनादिषु ‘ओः सुपि’ (६-४-८३) इति यणादेशः।]]
05
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पात्-- ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णि- षेधः। ऊठ्। अयादेशः।]]
06
=>
[[आ। ‘प्रक्ष्यूतगोपीशुचमूर्णपूतनं तूर्णानसं थूर्णबकादिदानवम्। दुदूर्विषून् धूर्वितुमेव गूर्वणं मूर्वन्तमापूर्वितपर्वताध्वरम्।।’ धा। का। १-७३। अस्मिन् श्लोके ‘क्षयूतगोपीशुचम्’ इति कश्चन पाठः। तदानीमस्माद्धातोः कर्मणि क्तप्रत्यये ‘क्षयूत’ इति रूपम्। यथाश्रुतपाठे ‘क्षिवु’ धातोः निष्ठायां कर्मणि रूपम्।]]
07
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
08
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे ऊठ्। अयादेशः।]]
09
=>
[पृष्ठम्०३३४+ २४]