| YouTube Channel

चूर्ण्ण (cUrNNa)

 
वाचस्पत्यम्
Sanskrit
चूर्ण्ण पेषे
चु०
उभ०
सक०
सेट् चूर्णयति--ते अचुचूर्णत् चूर्णः चूर्णितः
चूर्ण्ण
न०
चूर्ण--कर्म्मणि अच् पेषणजाते क्षोदे (मयदा)प्रभृतौ राजनि० “अन्नादष्टगुणं चूर्णं चूर्णादष्टगुणंपयः” वैद्य० तल्लक्षणमुक्तं भावप्र० “अत्यन्तशुष्कंतद्द्रव्यं सुपिष्टं वस्त्रगालितम् तत् स्याच्चूर्णं रजः०क्षोदस्तन्मात्रा कर्षसम्मिता चूर्णे गुडः समो देयः शर्करा-द्विगुणा मता चूर्णे तु भर्जितं हिङ्गुदेयं नो-त्क्लेदकृद्भवेत् लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणो-न्मितैः पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः ।चूर्णावलेहगुटिका कल्कानामनुपानकम् पित्तवातकफातङ्के त्रिष्वेकपलमाहरेदिति” (आवीर) ख्याते ।क्षोदे “अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” रघुः ।४ धूलौ तम्बूलोपकरणे क्षारे (चूण) मेदि० “चूर्ण-मानीयतां तूर्णं पूर्णचन्द्रनिभानने! पर्णानि स्वर्णवर्णानिसीदन्त्याकर्णलोचने” उद्भटः भावे अच् पेषणे
पु०