| YouTube Channel

चूर्णं (cUrNaM)

 
शब्दकल्पद्रुमः
Sanskrit
चूर्णं,
क्ली,
(चूर्ण्यते पिष्यते यत् चूर्ण + कर्म्मणिघञ् ।) सम्पेषणेन जातरजः तस्य लक्षणंयथा, --“अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् ।तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता
चूर्णे गुडः समो देयः शर्करा द्विगुणा मता ।चूर्णेषु भर्ज्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत्
लिहेच्चूर्णं द्रवैः सर्व्वैर्घृताद्यैर्द्विगुणोन्मितैः ।पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः
चूर्णावलेहगुटिका कल्कानामनुपानकम् ।पित्तवातकफातङ्के त्रिष्वेकपलमाहरेत्
”इति भावप्रकाशः
*
चूर्णौषधस्य पूर्णवीर्य्यं पक्षत्रयपर्य्यन्तं तिष्ठति ।इति वैद्यकपरिभाषा
(“कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्व्वशः ।द्रवशुक्त्या लेढव्यः पातव्यश्च चतुर्द्रवः
”इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
)आवीर इति ख्यातम् (यथा, मेघदूते ७० ।“अर्च्चिस्तुङ्गानभिमुखगतान् प्राप्य रत्नप्रदीपान्ह्नीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः
”)पटरसाक्षोद इत्यन्ये इति भरतः
गन्ध-गुँ डा इति ख्यातम् इति सारसुन्दरी
तत्-पर्य्यायः वासयोगः इत्यमरः १३४
वासयुक्तिः इति मेदिनी ने, १२
गन्ध-युक्तिः इति भूरिप्रयोगः
पटयुक्तिः ।इति शब्दरत्नावली
(कुङ्कुमादिरजः यथा, रघुः ५४ ।“अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः
”)