| YouTube Channel

चुर (cura)

 
शब्दसागरः
English
चुर r. 10th cl. (चोरयति-ते) To steal, to rob: according to some it is
also r. 1st cl. (चोरति) This root gives its name to the 10th class,
which is thence called चुरादिः (ई) चुरी r. 4th cl. (चूर्य्यते) To burn.
Wilson
English
चुर r. 10th cl. (चोरयति) To steal, to rob: according to some it is
also r. 1st cl. (चोरति.) This root gives its name to the 10th class, which
is thence called चुरादि
(ई) चुरी r. 4th cl. (चूर्य्यते) To burn.
Apte
English
चुर [cura],
a.
Stealing, robbing
&c.
Apte 1890
English
चुर a. Stealing, robbing &c.
Shabdartha Kaustubha
Kannada
चुर - स्तेये (चुरा-उभ० पक्षे भ्वा० पर० सक० से०) चोरयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಕದಿ /ಕಳವು ಮಾಡು /ಅಪಹರಿಸು
प्रयोगाः - > "श्रितोदयार्द्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम्"
उल्लेखाः - > माघ० १-१६
चुर
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕದಿಯುವವನು /ಅಪಹರಿಸುವವನು
निष्पत्तिः - > चुर (स्तेये) - "कः" (३-१-१३५)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चुर्
मूलधातुः:
चुर
धात्वर्थः:
स्तेये
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
चोरयति-ते
धातुप्रदीपः
Sanskrit
चुरँ चुर स्तेये
- चोरयति (1) चुरादि णिजन्ताण् णिचश्च (1374) इत्यात्मनेपदं भवतीत्येके धातुपारायणे त्वात्मनेपदमुदाहृतम्-चोरयत इति चोरयाञ्चकार चोरयाञ्चक्रे चोरयिता चोरयिष्यते चोरयतु चोरयताम् अचोरयत् अचोरयत चोरयेत् चोरयेत चोर्य्यात् चोरयिषीष्ट अचूचुरत् अचूचुरत चुचोरयिषति चुचोरयिषते कर्मणि चिण्वदिट्पक्षे तस्यासिद्धत्वाण्णिलोपः-चोरयिष्यते चोरिष्यते चोरिता चोरयिता चोरयिषीष्ट वा चोरिषीष्ट धनं देवदत्तेन ण्यन्तेभ्यो यङ्नास्तीति सूचिसूत्रि (3122, वा) इत्यत्र न्यासकारः रूपावतारे तु णिलोपे प्रत्ययोत्पत्तेः प्रागेव कृते सत्येकाच्त्वाद् यङुदाहृतश्चोचूर्य्यत इति चोरः चौरः (2) चोरणा चुरेतिच्छत्रादिगणपाठात् सिध्यति 1
शब्दकल्पद्रुमः
Sanskrit
चुर, कि स्तेये इति कविकल्पद्रुमः
(चुरां-पक्षे-भ्वां-परं-सकं-सेट् ।) कि, चोरयति चोरतिधनं चौरः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चुर स्तेये (परद्रव्यापहरणे) वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् चोरयति--ते चोरति अचूचुरत्--तअचोरीत् “यश्चाग्निं चोरयेत् गृहात्” याज्ञ० “अचू-चुरत् चन्द्रसमोऽभिरामताम्” माघः
चुर
त्रि०
चुर--क चीर्य्यकर्त्तरि
क्षीरतरङ्गिणी
Sanskrit
चुरँ चुर स्तेये
- चुरादिभ्यो णिज् (3125) इति स्वार्थे णिच् स्वरितेत् स्याद् ग्रहिः क्र्य्यादौ, लक्षिश्चैकश्चुरादिषु इति लक्षेः (105) स्वरितेत्त्वस्मरणाण् णिचश्च (1374) इति-कर्त्रभिप्राये क्रियाफले तङ् नास्ति चन्द्रस्त्वत्राप्युभयपदित्वमाम्नासीत्, णिज्विकल्पं चोरयति प्रत्ययान्ताद् (द्र0 3135) आम्-चोरयांचकार, अचूचुरत् चोरयन्तं प्रयुक्तवानिति ण्यन्तादपि णिच्यचूचुरदित्येव क्वि-लुग्-उपधात्व-चङ्पर-निर्ह्रास-कुत्वेषूपसंख्यानम् (1158 वा0) इति स्थानिवत्त्वनिषेधाण् णौ णिलोपेऽग्लोपित्वाभावान् नाग्लोपिशास्वृदिताम् (742) इति णौ चङ्युपधाया (741) ह्रस्वनिषेधो नास्ति पचादौ (गण0 31134) चोरट्, चोरी प्रज्ञादित्वात् (द्र0 5438) चौरः छत्रादिपाठात् (गण0 4462) णो वा णेऽप्यण्कृतं क्वचिद् (तु0 परिभाषावृत्ति 76) इति चौरी, तापसी भिदादित्वात् (गण0 33104) चुरा ण्यासश्रन्थो युच्(33107)-चोरणा एरज् अण्यन्तानाम् इति घञ् प्रतिसूयते-चोरः 1
धातुवृत्तिः
Sanskrit
चुरँ चुर (अर्थः) स्तेये
अकार उच्चारणार्थः प्रयोजनान्तराभावात् तङर्थोऽनुदात्तेत्त्वं स्यात् "सत्यापपाश'' इत्यादिना चुरादिभ्यः स्वार्थ णिचो विधानादणिचः प्रयोगाभावात् तथा काश्यपः--कार्याभावादेकश्रुत्या पठ्यत इति अत्राभरणे घुषिरविशब्दन इति ज्ञापकादक्रियमाणेऽपि वाग्रहणे चुरादिभ्यो णिज्वेत्युक्त्वा "अत एकहल्'' इत्यत्र वृत्तौ(जगणतुःजगणुः) इति प्रत्युदाहरणसमर्थनार्थमनित्यण्यन्ताश्चुरादय इति न्यासकारेणाभिधानाद् इदं ज्ञापकं सामान्यापेक्षयेत्युक्वा "आधृषाद्वा'' इति गणकारवचनं चानुवाद इत्युक्तम् ज्ञापकस्य स्वरूपमस्माभिर्घोषतौ लिखितमिति नेह प्रदर्शितं, तस्य ज्ञापकस्य सामान्यापेक्षत्वं कैयटविरुद्धम् यदाह "णेरणौ'' इत्यत्र गणयति गणमिति भाष्यव्याख्याने नित्यत्वाण्णिचः केवलानां चुरादीनां प्रयोगाभावादिति भाष्यविरुद्धं तथाहि किमर्थमविशब्दन इत्युच्यते, विशब्देन घुषेर्णिचा भवितव्यम् एवं तर्हि सिद्धे सति यदविशब्दनग्रहणं करोति तज्ज्ञापयत्याचार्यो विशब्दने घुषेर्विभाषा णिज् भवतीति किमेतस्य ज्ञापने प्रयोजनं, "महीपालवाचः श्रुत्वा जुघुषुः क्षत्रमालवा' इत्येष प्रयोग उपपन्नो भवतीति विशिष्टविषयत्वेनाभिधानात्, "ऋदुपधाच्चाक्लृपिचृतेः'' इत्यत्रानित्यण्यन्ताश्चुरादय इति सामान्येन यदुक्तं पदमञ्जर्यां तदपि मतान्तरापेक्षं तु स्वमतेन, यद्वक्ष्यतिघुषिरविशब्दनइत्यत्रघुषिविषयमेव ज्ञापकमुक्त्वा, अन्ये त्वाहुः अनित्यण्यन्ताश्चुरादय इति सामान्येन ज्ञाप्यत इति यापि "ऋदुपधाच्च'' इत्यादावनित्यण्यन्ताश्चुरादय इति न्यासकृतः सामान्योक्तिः सापि येषां लिङ्गेन वचनेन वा णिज्विकल्पस्तन्मात्रविषयैव तथा "णेरणौ'' इत्यत्र तेनैवोक्तं, चौरादिकानामप्यनित्यण्यन्तत्वाद्विभाषितणिचां केषां चिद्विद्यमानत्वादिति, यस्मात् णेः प्राक्कर्म कर्ता वा विद्यते चैतस्माण्येः प्राक्कर्म कर्ता वा विद्यते इति गणे नित्यण्यन्तत्वाभिधानं विरुध्यचेत तथा जगणतुरिति प्रत्युदाहरणे पदमञ्जर्यामपि चुरादित्वादत्र णिच् प्राप्नोति, यदि नेष्यतेऽनित्यण्यन्ताश्चुरादय इति यदिना ह्यपरितोषः सूच्यते अपरितोषश्च पूर्वोक्तो भाष्यविरोधः तदेवं नित्ये णिचि स्वरितेत्त्वात् ग्रहिः क्र्यादौ लक्षिश्चैकश्चुरादिष्वितिवचानाल्लक्षेः स्वरितेत्त्वाल्लिङ्गादन्येभ्यश्चुरादिभ्यो "णिचश्च'' इति कर्त्रभिप्राये तङ्नेत्युक्त्वा चन्द्रस्त्वत्राप्युभयपदित्वमास्थित णिज्विकल्पमाह स्वामी एवं देवो नन्दी चाहतुः मैत्रेयस्तु स्वरितेत्त्वमस्य नेच्छति, यदाह स्वरितेत्त्वमस्य कश्चित्प्रतिपद्यत इति "णिचश्च'' इत्यत्र हरदत्तोऽपि लक्षेः स्वरितेत्त्वं प्रस्तुत्याह नात्राप्तभाषितमस्ति, पारायणेऽपि चुरादिणिचः आत्मनेपदमुदाहृतमिति एवं लक्षञिति पठित्त्वा ञित्करणादन्येभ्यश्चुरादिभ्यो "णिचश्च'' इति तङ् भवतीति श्रीभद्रवचनमपि प्रत्युक्तम् प्रक्रियारत्ने चितेरिदित्त्वात् ज्ञापकाच्चुरादिणिचो ऽनित्यत्वाच्चट स्फुट भेदन इत्यादौ चटतीत्याद्यपि यथादृष्टं द्रष्टव्यमित्येकीयमतमुक्त्वा तद्भाष्योक्तज्ञापकविरुद्धम् एवं हि घुषिरविशब्दने इत्यस्याप्यण्यन्तस्य सम्भवात्तद्व्यावृत्त्यर्था ऽविशब्दनोक्तिः कथं ज्ञापिका स्यादिति तन्मतं दूषितम् तस्माद्यत्र लिङ्गं वचनं चास्ति तत्र विकल्प इति सिद्धमिति वचनं स्पष्टं, लिङ्गमपि तत्र तत्र धातावुपदर्शयिष्यते यत्तु जगणतुः, जगणुरिति लिङ्गवचनयोरभावेऽप्यण्यन्तस्य प्रत्युदाहरणम् "अत एकहल्'' इत्यत्र वृत्तौ तदनित्यण्यन्ता इति सामान्यवादिमतापेक्षया तु सिद्धान्तबुद्ध्या ( चोरयति चोरयतः चोरयन्ति चोरयसि चोरयथः चोरयथ चोरयामि चोरयावः चोरयामः चोरयते चोरयेते चोरयन्ते चोरयसे चोरयेथे चोरयध्वे चोरये चोरयावहे चोरयामहे चोरयांचकार चोरयांचक्रे चोरयामास चोरयांबभूव ) प्रत्ययान्तत्वादाम्प्रत्ययः "अयामन्त'' इति णेरयादेशः ( चोरयिता चोरयिष्यति चोरयिष्यते चोरयतु चोरयताम् अचोरयत् अचोरयत चोरयेत् चोरयेत चोर्यात् ) "णेरनिटि'' इति णिलोपः ( चोरयिषीष्ट अचूचुरत अचूचुरत ) "णिश्रि'' इत्यादिना चङ्, शत्रादिकार्यं भूवज्ज्ञेयम् ( चुचोरयिषति चुचोरयिषते ) चिण्वदिटि तस्यासिद्धत्वाण्णिलोपे ( चोरिष्यते अचोरिषाताम् ) एकवचने चिणिति सिचोऽभावः, ( चोरिषीष्ट चोरिता इति भवति ( चोरः ) पचाद्यच् ( चौरः ) प्रज्ञादित्वात्स्वार्थेऽण् ( चोरणा ) "ण्यासश्रन्थ'' इति युच्, चुरेति छत्रादिपाठादकारप्रत्ययो गुणाभावश्च चुरा शीलमस्या (चौरी) "छत्रादिभ्योण'' इति णेऽपि क्वचिदण्कृतमिति ङीप् एतच्च करोतावुपपादितम् 1
कृदन्तरूपमाला
Sanskrit
1 {@“चुर स्तेये”@} 2 ‘स्तेये चोरयतीति स्यात्, चुरेश्छेदे चुरेदिति।’ 3 इति देवः।
4 चोरकः-रिका, चुचोरयिषकः-षिका
चोरयिता-त्री, चुचोरयिषिता-त्री
5 चोरयन्-न्ती, चुचोरयिषन्-न्ती
चोरयिष्यन्-न्ती-ती, चुचोरयिषिष्यन्-न्ती-ती
चोरयमाणः, चुचोरयिषमाणः
चोरयिष्यमाणः, चुचोरयिषिष्यमाणः
6 चोः-चोरौ-चोरः
-- चोरितम्-तः, चुचोरयिषितः-तवान्
7 चोरः चौरः, चुचोरयिषुः
चोरयितव्यम्, चुचोरयिषितव्यम्
चोरणीयम्
चुचोरयिषणीयम्
चोर्यम्, चुचोरयिष्यम्
ईषच्चोरः-दुश्चोरः-सुचोरः
-- चोर्यमाणः, चुचोरयिष्यमाणः
चोरः, चुचोरयिषः
चोरयितुम्, चुचोरयिषितुम्
8 चोरणा, 9 चुरा, व्यवचोरी, 10 चुचोरयिषा
चोरणम्, चुचोरयिषणम्
11 चोरयित्वा, चुचोरयिषित्वा
प्रचोर्य, प्रचुचोरयिष्य
चोरम् चोरयित्वा चुचोरयिषम्
चुचोरयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५४६)
02
=>
(१०-चुरादिः-१५३४। सक। सेट्। उभ।)
03
=>
(श्लो। १५१)
04
=>
[पृष्ठम्०५२३+ २४]
05
=>
[[आ। ‘सञ्चोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम्।’ धा। का। ३। १३।]]
06
=>
[[१। णिनिमित्तके लघूपधगुणे, पदान्तरेफस्य विसर्गः।]]
07
=>
[[२। चोर एव चौरः। ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण् प्रत्ययः। पचादिषु (३-१-१३४) ‘चोरट्’ इति टित्करणेन पाठात् स्त्रियां ङीप्।]]
08
=>
[[३। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्।]]
09
=>
[[४। ‘छत्त्रादिभ्यो णः’ (४-४-६२) इत्यत्र (गणे) ‘चुरा’ इति पाठात् अङ्, गुणाभावः, णिलोपश्च। चुरा शीलमस्या इत्यर्थे स्त्रियां चौरी। ‘ताच्छीलिकेऽपि णेऽण्कृतं कार्यं भवति’ (परिभाषा-८८) इति वचनात् ङीप्।]]
10
=>
[[५। ‘कर्मव्यतीहारे णच् स्त्रियाम्’ (३-३-४३) इति णच्। ‘णचस्त्रियामञ्’ (५-४-१४) इति अञ्। ङीष्। ‘न कर्मव्यतीहारे’ (७-३-६) इति ऐजागमनिषेधः।]]
11
=>
[पृष्ठम्०५२४+ २३]