| YouTube Channel

चुप (cupa)

 
शब्दसागरः
English
चुप r. 1st cl. (चोपति) To move slowly, to creep or steal along. भ्वा-प-सक-सेट्
Wilson
English
चुप r. 1st cl. (चोपति) To move slowly, to creep or steal along.
Monier Williams Cologne
English
चुप
m.
N.
of a man g. 1. अश्वादि (चुम्प,
Kāś.
-दासक,
Hemac.
)
Monier Williams 1872
English
चुप चुप, अस्, m., N. of a man.
Shabdartha Kaustubha
Kannada
चुप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶಾಖ /ಬಿಸಿ /ಉಷ್ಣತೆ
विस्तारः - > "उष्णं ज्वलः खरः क्रौरो बालस्तिग्मः कृशश्चुपः" - वैज०
चुप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಾತ /ಗಾಳಿ
चुप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯುದ್ಧ
चुप
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಉಷ್ಣವಾದ /ಬಿಸಿಯಾದ
विस्तारः - > "चुपः पवनयुद्धयोः" - विश्व०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चुप्
मूलधातुः:
चुप
धात्वर्थः:
मन्दायां गतौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चोपति
धातुप्रदीपः
Sanskrit
चुपँ चुप मन्दायां_गतौ
- चोपति चुचोप ।। 404 ।।
शब्दकल्पद्रुमः
Sanskrit
चुप, शनैर्गतौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) चोपतिखञ्जः चोपति दुष्टं राजा ।इति रमानाथः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चुप मन्दगतौ
भ्वा०
पर०
सक०
सेट् चोपति अचोपीत् ।चुचोप “किं स्वित् स्वप्नङ् मिषति किं स्विज्जा-ग्रन्न चोपति” भा० व० १३३ अ० अष्टावक्रं प्रति प्रश्नः
क्षीरतरङ्गिणी
Sanskrit
चुपँ चुप मन्दायां_ गतौ
- चोपति किञ्चिच्चलति चोपनम् उणादौ चुप्पम् निष्पन्दत्वम् चुपेरश्चोपधायाः (तु0 उ0 1110) चपलः इत्थं चात्र विपरीतार्थावगमादिममभिप्रायं विद्मः, यथाकथञ्चित् नाम्नां व्युत्पतिः कार्येति चेत् तर्हि चपेर् (1284) एवाप्रयासेन साध्यताम् 395
धातुवृत्तिः
Sanskrit
चुपँ चुप (अर्थः) मन्दायां गतौ
(चोपयति चुचोप चोपिता चुचुपिषति चुचोपिषति चुपित्वा ) "रलो व्युपधात्'' इति कित्त्वविकल्पः ( चोचुप्यते चोचुपीति चोचोप्ति चोपयति अचूचुपत् चोपनः) चलनार्थत्वाद् युच् णौ नित्यं परस्मैपदम् गले चोप्यते ( गलेचोपकः ) "कृत्यल्युटो बहुलम्'' इति बहुलवचनाद् ण्यन्तादस्मात्कर्मणि ण्वुल् "कर्तृकरणे कृता बहुलम्'' इति बहुलवचनात् सप्तम्यन्तस्यापि समासः "तत्पुरुषे कृति बहुलम्'' इति अलुक्, "अमूर्द्धमस्तकात्स्वाङ्गादकामे'' इति च, "उदुपधाद्भावादिकर्मणोः''निष्ठायां वा कित्त्वे (चुपितमनेन चोपितमनेनेत्यादि चुप्रम् ) ऋज्रेन्द्रादौ रकि निपातितः "स्वरेण नीचेन शपिञ्छुपिं क्षिपिम्'' इत्यनिट्कारिकापाठो द्वितीयादेरिति तत्र तौदादिकस्य छुप संस्पर्शन इत्यस्यैव ग्रहणं त्वस्य 400
कृदन्तरूपमाला
Sanskrit
1 {@“चुप मन्दायां गतौ”@} 2 ‘स्पर्शे चुपति, मन्दायां गतौ तु शपि चोपति।’ 3 इति देवः।
चोपकः-पिका, चोपकः-पिका, चुचोपिषकः-चुचुपिषकः-षिका, चोचुपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुचतिवत् 4 ज्ञेयानि।
5 गले- 6 चोपकः, 7 चोपनः, 8 चोपयन्-न्ती, चोपयिष्यन्-न्ती-ती, 9 चुपित्वा-चोपित्वा, इति रूपाण्यस्येति विशेषः।
प्रासङ्गिक्यः
01
=>
(५४३)
02
=>
(१-भ्वादिः-४०३। अक। सेट्। पर।)
03
=>
(श्लो। १३८)
04
=>
(२००)
05
=>
[[४। गले चोप्यते इति, ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति ण्यन्तादस्मात् कर्मणि ण्वुल्। ‘कर्तृकरणे कृता बहुलम्’ (२-१-३२) इति बहुलग्रहणात् सप्तम्यन्तस्यापि समासः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति, ‘अमूर्धमस्तकात् स्वाङ्गादकामे’ (६-३-१२) इति वा सप्तम्या अलुक्।]]
06
=>
[पृष्ठम्०५२२+ २२]
07
=>
[[१। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
08
=>
[[२। ण्यन्तात्, ‘अणावकर्मकात्--’ (१-३-८८) इति परस्मैपदमेव।]]
09
=>
[[आ। ‘श्येनाश्चुपित्वा तुतुपुः कपोतकान् काकानतुम्पन्नभितुत्रुपुः शशान्।।’ धा। का। १। ५२।]]