| YouTube Channel

चुड (cuDa)

 
शब्दसागरः
English
चुड (इ) चुडि r. 1st cl. (चुण्डति) To become small, low or shallow. r. 10th
cl. (चुण्डयति-ते) To cut, to pierce of divide. भ्वा-प-अक-सेट् पक्षे चुरा-
उभ-सक-सेट्
Wilson
English
चुड (इ) चुडि r. 1st cl. (चुण्डति) To become small, low or
shallow. r. 10th cl. (चुण्डयति) To cut, to pierce or divide.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चुड्
मूलधातुः:
चुड
धात्वर्थः:
संवरणे, समुच्छ्राये
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चुडति
अनुबन्धादिविशेषः:
कुटादिः
शब्दकल्पद्रुमः
Sanskrit
चुड, तौच्छ्ये इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) इ, चुण्ड्यते तौच्छ्यमल्पी-भावः इति दुर्गादासः
चुड, छिदि इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, चुण्डयति इति दुर्गा-दासः
चुड, रोषे (चुरां-परं-अकं-सेट् ।) क, चुण्डयति इति दुर्गादासः
चुड, रोषे (भ्वां-आत्मं-अकं-सेट् ।) इ, चुण्ड्यते ङ, चुण्डते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चुड छेदने चुरा० उम०
सक०
सेट् सदित् चुण्डयति--ते अचुचुण्डत्--त
चुड अल्पीभावे
भ्वा०
पर०
अक० सेट् इदित् चुण्डतिअचुण्डीत्
कृदन्तरूपमाला
Sanskrit
1 {@“चुड संवरणे”@} 2 चोडकः-डिका, चोडकः-डिका, चुचुडिषकः-षिका, चोचुडकः-डिका
इत्या- दीनि सर्वाण्यपि रूपाणि तौदादिककुटतिवत् 3 ज्ञेयानि।
स्त्रियां भावादौ भिदादि 4 पाठात् अङ्, उपधायाः दीर्घश्च
चूडा-इति भवति।
5] चुडितम्।
प्रासङ्गिक्यः
01
=>
(५३९)
02
=>
(६-तुदादिः-१३९२। सक। सेट्। पर। कुटादिः।)
03
=>
(२०४)
04
=>
(३-३-१०४)
05
=>
[[B। ‘क्षौमेण स्फुडितं स्रजा निचुडितं (चुलितं) चाव्रोड्यशोभं धनुः गेहक्रोडतले मोदकुलितो दृष्ट्वाऽगुरिष्ट क्षणात्।’ धा। का। २। ८२। [लडयोरभेदात् निचुलितम् इति भवति।]]