| YouTube Channel

चुञ्चुः (cuJcuH)

 
शब्दकल्पद्रुमः
Sanskrit
चुञ्चुः,
पुं,
छुच्छुन्दरिः इति हारावली ८३
(सङ्करजातिविशेषः यथा, मनुः १० ४८ ।“मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम्
”“चुञ्चुर्मद्गुश्चवैदेहकवन्दिस्त्रियोर्ब्राह्मणेन जातौवौधायनेनोक्तौ बोद्धव्यौ ।” इति तट्टीकायांकुल्लूकभट्टः
व्याकरणोक्तप्रत्ययविशेषः सतु प्रसिद्धार्थे भवति यथा, विद्यया वित्तोविद्याचुञ्चुः इति सिद्धान्तकौमुदी
स्त्री,
उद्भिज्जविशेषः चेवुना इति लोके नाडीच-वत् अस्या पर्य्याया गुणाश्च यथा, --“चिञ्चा चञ्चुश्चञ्चुकी दीर्घपत्त्रा सतिक्तका ।चुञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा ।धातुपुष्टिकरी बल्या मेध्यपिच्छिलका स्मृता
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“सुवर्च्चलाया चुञ्चोर्वा लोणिकाया रसैरपि
”इति वाभटे चिकित्सास्थाने नवमेऽध्याये
)