| YouTube Channel

चुच्योतिषकः-चुच्युतिषकः-षिका (cucyotiSakaH-cucyutiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“च्युतिर् आसेचने”@} 2 आसेचनम् = ईषत्सेकः, = समन्तात् सेको वा।
च्योतकः-तिका, च्योतकः-तिका, चुच्योतिषकः-चुच्युतिषकः-षिका, चोच्युतकः-तिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोचतिवत् 3 ज्ञेयानि।
शतरि-च्योतन् 4 -न्ती।
धातोरस्येरित्त्वेऽपि, इरित्त्वप्रयुक्तकार्यस्य कृदन्ते- ष्वभावात् रूपसाम्यं भवत्येव।
प्रासङ्गिक्यः
01
=>
(५५९)
02
=>
(१-भ्वादिः-४०। सक। सेट्। पर।)
03
=>
(२००)
04
=>
[[आ। ‘अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन् दिशः प्रश्च्युतितैः स्मितामृतैः।।’ धा। का। १-६।]]