| YouTube Channel

चुचोरयिषा (cucorayiSA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चुर स्तेये”@} 2 ‘स्तेये चोरयतीति स्यात्, चुरेश्छेदे चुरेदिति।’ 3 इति देवः।
4 चोरकः-रिका, चुचोरयिषकः-षिका
चोरयिता-त्री, चुचोरयिषिता-त्री
5 चोरयन्-न्ती, चुचोरयिषन्-न्ती
चोरयिष्यन्-न्ती-ती, चुचोरयिषिष्यन्-न्ती-ती
चोरयमाणः, चुचोरयिषमाणः
चोरयिष्यमाणः, चुचोरयिषिष्यमाणः
6 चोः-चोरौ-चोरः
-- चोरितम्-तः, चुचोरयिषितः-तवान्
7 चोरः चौरः, चुचोरयिषुः
चोरयितव्यम्, चुचोरयिषितव्यम्
चोरणीयम्
चुचोरयिषणीयम्
चोर्यम्, चुचोरयिष्यम्
ईषच्चोरः-दुश्चोरः-सुचोरः
-- चोर्यमाणः, चुचोरयिष्यमाणः
चोरः, चुचोरयिषः
चोरयितुम्, चुचोरयिषितुम्
8 चोरणा, 9 चुरा, व्यवचोरी, 10 चुचोरयिषा
चोरणम्, चुचोरयिषणम्
11 चोरयित्वा, चुचोरयिषित्वा
प्रचोर्य, प्रचुचोरयिष्य
चोरम् चोरयित्वा चुचोरयिषम्
चुचोरयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५४६)
02
=>
(१०-चुरादिः-१५३४। सक। सेट्। उभ।)
03
=>
(श्लो। १५१)
04
=>
[पृष्ठम्०५२३+ २४]
05
=>
[[आ। ‘सञ्चोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम्।’ धा। का। ३। १३।]]
06
=>
[[१। णिनिमित्तके लघूपधगुणे, पदान्तरेफस्य विसर्गः।]]
07
=>
[[२। चोर एव चौरः। ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण् प्रत्ययः। पचादिषु (३-१-१३४) ‘चोरट्’ इति टित्करणेन पाठात् स्त्रियां ङीप्।]]
08
=>
[[३। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्।]]
09
=>
[[४। ‘छत्त्रादिभ्यो णः’ (४-४-६२) इत्यत्र (गणे) ‘चुरा’ इति पाठात् अङ्, गुणाभावः, णिलोपश्च। चुरा शीलमस्या इत्यर्थे स्त्रियां चौरी। ‘ताच्छीलिकेऽपि णेऽण्कृतं कार्यं भवति’ (परिभाषा-८८) इति वचनात् ङीप्।]]
10
=>
[[५। ‘कर्मव्यतीहारे णच् स्त्रियाम्’ (३-३-४३) इति णच्। ‘णचस्त्रियामञ्’ (५-४-१४) इति अञ्। ङीष्। ‘न कर्मव्यतीहारे’ (७-३-६) इति ऐजागमनिषेधः।]]
11
=>
[पृष्ठम्०५२४+ २३]