| YouTube Channel

चुचूर्णयिषकः-षिका (cucUrNayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चूर्ण प्रेरणे”@} 2 ‘पेषणे’ इति चन्द्रः।
अस्य धातोः क्षोदनमप्यर्थ इति धातुकाव्यव्याख्याने 3।
4 चूर्णक-र्णिका, चूर्णयिता-त्री, इत्यादिकानि रूपाणि भ्रमणार्थक--5 भौवादिकघूर्णधातोर्ण्यन्तरूपाणीव बोध्यानि।
ल्युटि 6 -चूर्णनम्।
ण्यन्तात् सनि तु इमानि रूपाणीति विशेषः।
चुचूर्णयिषकः-षिका, चुचूर्णयिषिता-त्री, चुचूर्णयिषन्-न्ती
चुचूर्णयिषिष्यन्-न्ती-ती, चुचूर्णयिषमाणः, चुचूर्णयिषिष्यमाणः
चुचूर्णयिट्-चुचूर्णयिषौ-चुचूर्णयिषः, चुचूर्णयिषितः-तवान्
चुचूर्णयिषुः, चुचूर्णयिषितव्यम्, चुचूर्णयिषणीयम्, चुचूर्णयिष्यम्
ईषच्चुचूर्णयिषः-दुश्चुचूर्णयिषः-सुचुचूर्णयिषः
चुचूर्णयिष्यमाणः, चुचूर्णयिषः, चुचूर्णयिषितुम्, चुचूर्णयिषा
चुचूर्णयिषणम्, चुचूर्णयिषित्वा, प्रचुचूर्णयिष्य, चुचूर्णयिषम्
चुचूर्णयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५५०)
02
=>
(१०-चुरादिः-१५५२। सक। सेट्। उभ।)
03
=>
(३-१५)
04
=>
[पृष्ठम्०५२५+ २४]
05
=>
(४७४)
06
=>
[[आ। ‘संपक्ष्य तन्निजदृशैवमवर्णि लोकैरेषोऽजनिष्ट किल दुष्टविचूर्णनार्थम्।’ धा। का। ३। १५।]]
1 {@“चूर्ण सङ्कोचने”@} 2 ‘चूण सङ्कोचने’ इति क्षीरस्वामी पपाठ।
चूर्णकः-र्णिका, चुचूर्णयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चूर्णयतिवत् 3 बोद्ध्यानि।
स्त्रियाम्-चूर्णना 4।
प्रासङ्गिक्यः
01
=>
(५५१)
02
=>
(१०-चुरादिः-१६४२। सक। सेट्। उभ)
03
=>
(५५०)
04
=>
[[B। ‘सौधे विटङ्कजुषि पश्यति धूसितोऽयं राजारिकीटबलचूर्णनयाऽतिपूज्यः।’ धा। का। ३। २७।]]